०३७ व्रतमाहात्म्यवर्णनम्

सनत्कुमार उवाच ॥ ॥
भिन्नेंऽधके त्रिशूलेन ध्वनी रुद्रस्य निर्गतः ॥
तत्रोङ्कारः समुत्पन्नो देवदेवो महेश्वरः ॥ १ ॥
तत्र स्नात्वा शुचिर्भूत्वा समाधिनियमेन च ॥
दृष्ट्वोङ्कारं महादेवं मुच्यते सर्वपातकैः ॥ २ ॥
हत्वान्धके त्रिशूलश्च भोगवत्या जले ययौ ॥
दृष्ट्वा शूलं सुतेजस्कं हाटको विस्मयं गतः ॥
पप्रच्छ केन कार्येण भवानिह समागतः ॥ ३ ॥
कथयामास शूलोसौ शङ्करेणाहमीरितः ॥
अन्धकस्य वधार्थाय पापवृत्तेः सुदु र्मतेः॥४॥
भित्त्वा तमहमायातो भोगवत्या जले शुभे ॥
गमिष्यामि पुनस्तत्र यत्र तिष्ठति शङ्करः ॥ ५ ॥
शूलोक्तं वचनं श्रुत्वा परमेशदिदृक्षया ॥
हाटकः शूलमार्गेण निर्जगाम जवेन सः ॥
बहुवक्त्रसमाकीर्णं सुप्रभं सुमनोरमम्॥ ६ ॥
तं दृष्ट्वा त्रिदशाः सर्वे शूलेशं हाटकेश्वरम्॥।
प्रणम्य हृष्टरोमाणो यथा प्रोत्फुल्लपङ्कजम् ॥ ७ ॥
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्मविष्णुपुरोगमाः ॥
हाटकेश्वरनामासीत्पाताले यो व्यवस्थितः ॥ ८ ॥
निर्गतः शूलमार्गेण तेन शूलेश्वरः स्मृतः ॥
धूतपापं च यत्तीर्थं देवदेवस्य चोत्तरे ॥ ९ ॥
तत्र पापः स दैत्येन्द्रो धूतः शूलेन वीर्यवान् ॥
तेन तीर्थमिदं व्यास धूतपापं निगद्यते ॥ 5.1.37.१० ॥
अष्टम्यां वा पौर्णमास्यां चतुर्दश्यां शनौ तथा ॥
उपोष्य रजनीमेकां शिवभक्तो जितेन्द्रियः ॥ ११ ॥
धूतपापं तु यः पश्येद्देवदेवं महेश्वरम्॥
विमुक्तः सर्वपापैः स सप्तजन्मकृतैरपि ॥१२॥
कुलानां शतमुद्धृत्य शिवलोकं च गच्छति ॥
कृताभिषेकं यः पश्येत्पौषे मासि स वै नरः ॥ १३ ॥
शूलेश्वरप्रभावेन मुच्यते ब्रह्महत्यया ॥
विमानानां सहस्रेण मृतो याति परं पदम् ॥ १४ ॥
इति चान्धकशूलोयं यावद्भोगवतीं गतः ॥
तावत्समुत्थिता घोरा असुरा रुधिरोद्भवाः ॥ १५ ॥
खड्गहस्ता महावीर्या अनेकशतसङ्ख्यया ॥
चतुर्दिक्षु स्थितैर्घोरैर्हन्य मानो महेश्वरः ॥
सिंहनादं मुमोचाथ पीडितस्तैर्दुरात्मभिः ॥ १६ ॥
सिंहनादेन ते पापा मूर्छिताः पतिता भुवि ॥
पुनः समुत्थिता जग्मुर्देवदेवं महेश्वरम् ॥
वित्रस्ताश्च ततो देवा ब्रह्मविष्णुपुरोगमाः ॥ १७ ॥
असाध्यांस्तांस्तथा मत्वा मन्त्रं कृत्वा हितैषिणः ॥
ततो देवा विचार्याथ स्त्रीं सृजाम इति स्वयम् ॥ १८ ॥
इत्युक्त्वोत्पादयामास ब्रह्मा हंसासनां शुभाम् ॥
चतुर्वक्त्रां चतुर्हस्तां ब्रह्माणीं रूपधारिणीम् ॥ १९ ॥
कुमारश्चैव कौमारीं मयूरवरवाहनाम् ॥
रक्तमाल्याबरधरां शक्तिकुक्कुटधारिणीम् ॥ 5.1.37.२० ॥
पुनः कुमारः कौमारीं पक्षीन्द्रवरवाहनाम् ॥
कृष्णां करालदशनां धर्मराजस्य वाहनीम् ॥ २१ ॥
दैत्यदेहप्रमथनीं दण्डमुद्गरधारिणीम् ॥
ललाटलोचनां नीलां कपालकरभूषिताम् ॥ २२ ॥
सिंहाजिनधरां कृष्णां सर्वभूषणभूषिताम्॥
कर्त्रीहस्तां खड्गहस्तां खेटखट्वाङ्गधारिणीम् ॥
चर्मास्थिकेशवपुषं चामुण्डाममृजत्प्रभुः ॥ २३ ॥
वटस्य निकटे पूर्वं निर्मिता लोकमातरः ॥
ततो लोके सुविख्याताः प्रत्यक्षा वटमातरः ॥ २४ ॥
तत्र स्नात्वा शुचिर्भूत्वा मातॄः पश्यति यो नरः ॥
स मुक्तः सर्वपापेभ्यो मातृलोके महीयते ॥ २५ ॥
सिंहनादोऽपि देवेन कृतो यत्र महामुने ॥
तत्र सिंहेश्वरो देवः सर्वदुष्कृतनाशनः ॥ २६ ॥
दर्शनात्तस्य देवस्य सिंहवत्स बली भवेत् ॥
सिंहनादे कृते यत्र जातं कण्टकितं वपुः ॥ २७ ॥
तत्र कण्टेश्वरो देवो भक्तानां सर्वदः सदा ॥
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा कण्टेश्वरं शिवम् ॥ २८॥
ग्रहभूतपिशाचेभ्यो न भयं प्राप्नुयात्क्वचित् ॥
ततस्ता मातरः सर्वा आदिष्टास्तु हरेण वै ॥ २९ ॥
अन्धासुरस्य रौद्रस्य पिबध्वं रुधिरं द्रुतम् ॥
एतस्मिन्नन्तरे व्यास प्रज्वलज्ज्वलनोपमः ॥ 5.1.37.३० ॥
अभयं शक्र मा भैस्त्वं यत्रोवाचेति शङ्करः ॥
तत्र लिङ्गं समुद्भूतमभयेश्वरमुत्तमम् ॥ ३१ ॥
वन्दितं देवगन्धर्वैः सिद्धविद्याधरोरगैः ॥
तत्र स्नात्वा शुचिर्भूत्वा सोपवासो जितेन्द्रियः ॥ ३२ ॥
अर्चये द्देवदेवेशमश्वमेधफलं लभेत् ॥
भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥ ३३ ॥
सिंहयुक्तेन यानेन शिवलोकं स गच्छति ॥
अन्धकस्य तु या माया रक्तासुरसमुद्भवा ॥ ३४ ॥
मातृभिर्युध्यमानाभिः क्षयमाशु जगाम सा ॥
देव्यः पिबन्त्यो रक्तौघं दैतेयतनुतश्च्युतम् ॥ ३५ ॥
षट्तृप्तिं परमा जग्मुर्न तु तृप्ता ललाटजा ॥
हतमायः शिष्टकस्तु भिन्नशूलतनुच्छदः ॥ ३६ ॥
उत्तराभिमुखं शूलमन्धकोऽकर्षयद्बली ॥
सन्निरुद्धो महादेहो वारितो गणपेन सः ॥ ३७ ॥
महाविनायकः ख्यातस्तस्माल्लोकेऽभवन्मुने ॥
दर्शनात्तस्य देवस्य न विघ्नैः पीड्यते नरः ॥ ३८ ॥
मासेमासे चतुर्थ्यां यो गणेशं पूजयेद्द्विज ॥
न तस्य विघ्नं जायेत इह लोके परत्र च ॥ ३९ ॥
स्वेदबिन्दुरथो तस्य ललाटादपतद्भुवि ॥
तस्मादङ्गारको जातो रक्तमाल्यानुलेपनः ॥ 5.1.37.४० ॥
आवन्त्ये विषये जातो लोहिताङ्गो धरासुतः ॥
अङ्गारकस्तु रक्ताक्षो महादेवसुतस्तथा ॥ ४१ ॥
नामभिर्ब्रह्मणा स्तुत्वा ग्रहमध्येऽधिरोपितः ॥
तत्र तीर्थमथोत्पन्नमङ्गारेश्वरमुत्तमम् ॥ ४२ ॥
ब्रह्मणा स्थापितं लिङ्गं गणगन्धर्वसेवितम् ॥
शुचिस्तत्र च यः स्नाति नरो ह्यङ्गारवासरे ॥ ४३ ॥
दृष्ट्वाङ्गारेश्वरं सोथ मुच्यते सर्वपातकैः ॥
चतुर्थ्यां मङ्गलदिने नक्ते चार्घ्यं निवेदयेत् ॥ ४४ ॥
यावत्पूर्णाश्चतस्रः स्युस्तावत्कार्याः प्रयत्नतः ॥
पञ्च वै करकाः कार्यास्ताम्रपात्रेण संयुताः ॥ ४५ ॥
गुडपीठमयाः कार्या रक्तवस्त्रसमन्विताः ॥
रक्तचन्दनसंयुक्ता रक्तपुष्पैश्च पूजिताः ॥ ४६ ॥
तिलतण्डुलसम्पूर्णमेकं तत्रैव कारयेत् ॥
द्वितीयं लड्डुकैश्चैव तृतीयं पयसा तथा ॥ ४७ ॥
उत्तरीभिश्चतुर्थं च पञ्चमं मूलकैस्तथा ॥
कृत्वा ह्येवं विधानेन मन्त्रेणार्घ्यं निवेदयेत् ॥ ४८ ॥
कुजाय लोहिताङ्गाय ग्रहमघ्यस्थिताय च ॥
कार्तिकेयानुरूपाय सुरूपाय नमो नमः ॥४९॥
शिवललाटसम्भूत धरणीगर्भसम्भव ॥
रूपार्थं त्वां प्रपन्नोस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥5.1.37.५०॥
ज्वलिताङ्गारवर्णाभ स्निग्धविद्रुमभा सुर ॥
पुत्रार्थी त्वां प्रपन्नोस्मि गृहाणार्घ्यं धरात्मज ॥ ५१ ॥
आवन्त्यमण्डले जातो धरण्यां च शिवेन वै ॥
पुत्रं देहि धनं देहि यशो देहि नमोऽस्तु ते ॥ ५२ ॥
एवं सम्पूजितो भौमश्चतुर्थ्यां मुनिसत्तम ॥
भुक्त्वा भोगांस्तथा पुत्रान्प्राप्य वै क्षितिमण्डले ॥ ५३ ॥
मृतः स्वर्गमवाप्नोति यावदिन्द्राश्चतुर्दश ॥ ५४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽङ्गारकीचतुर्थी व्रतमाहात्म्यवर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ ॥ छ ॥