०३४ शक्तिभेदतीर्थमाहात्म्यवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
तीर्थमन्यत्तथा वक्ष्ये शक्तिभेदमिति स्मृतम् ॥
स्कन्दस्य च जटाभद्रं चक्रे यत्र पुरा शिवः ॥ १ ॥
तारकं च तथा दैत्यं हत्वा यत्र सुरद्विषम् ॥
शक्तिं स्कन्दः स्वयं क्रुद्धो निश्चिक्षेप महीतले ॥ २ ॥
॥ व्यास उवाच ॥ ॥
भगवन्ब्रूहि यत्नेन संशयो मे महामुने ॥
कथं स्कन्दः समुत्पन्न एतदिच्छामि वेदितुम् ॥३॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुरा देवासुरे युद्धे निर्जिता दानवैः सुराः ॥
दिवं त्यक्त्वा दिशो याताः शक्राद्या भयविह्वलाः ॥ ४ ॥
तत्र तु देव राजेन तपसोग्रेण वै मुने ॥
आराधितो महादेवस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ५ ॥
ततस्तुष्टो महादेवः शक्रस्याभिमुखः स्थितः ॥
उवाच वचनं श्लक्ष्णं वरमिष्टं ददामि ते ॥ ६ ॥
॥ शक्र उवाच ॥ ॥
यदि तुष्टोऽसि भगवन्कारुण्यान्मम शङ्कर ॥
महासेनापतिं देव प्रयच्छ परमेश्वर ॥ ७ ॥ ॥ ॥
॥ हर उवाच ॥ ॥
उत्पादयामि देवेषु स्ववीर्यादूर्जितं सुतम् ॥
सेनान्यां च महासेनं सुराणां भयहारकम् ॥ ८ ॥
॥ सनत्कुमार उवाच ॥
इत्युक्त्वान्तर्दधे देवः सर्वभूतपतिर्हरः ॥
सुतचिन्तापरो देवो जगाम च हिमालयम् ॥ ९ ॥
देवदारुवने तस्थौ ज्ञानध्यानपरोऽभवत् ॥
ब्रह्मादयोऽपि यं देवं योगिनो ध्यानचिन्तकाः ॥ 5.1.34.१० ॥
ध्यायन्ति नियतात्मनः प्राणायामपरा मुने ॥
लिङ्गमूर्तिश्च यो नित्यं पूज्यते सर्वजन्तुभिः ॥ ११ ॥
स ध्यायति किमर्थं तन्न विद्मः परमार्थिनः ॥
वं ध्यानपरे देवे देवी हिमवतो गृहे ॥ १२ ॥
मध्ये वयसि वर्तन्ती यासीद्दाक्षायणी सती ॥
पितुर्गेहे निजो देहो यया योगाद्विसर्जितः ॥ १३ ॥
निमन्त्रितो न मे भर्ता इति कोपं चकार या ॥
तां देवीं हिमवान्पूर्वं श्रुत्वा देवर्षिनारदात् ॥ ॥ १४ ॥
भवभार्या भवित्रीति नान्यं वरमचिन्तयत् ॥
तपस्यति च रुद्राय सा सखीभ्यां समन्विता ॥ १५ ॥
कथं हि शङ्करो देवो मम भर्ता भविष्यति ॥
यावदेवं गतो देवो देवी हिमवतः सुता ॥ १६ ॥
ततः समागता देवाः कृत्वाग्रे बलसूदनम् ॥
जग्मुर्ब्रह्मसदः पुण्यं द्रष्टुं ब्रह्माणम व्ययम् ॥ १७ ॥
ते सुरास्तत्स्तुति कृत्वा वाक्यमेतत्समैरयन् ॥
शरणं भव देवानां दानवैर्विजितात्मनाम् ॥ १८ ॥
ततोऽवोचत्सुरान्ब्रह्मा ज्ञातं कार्यं समाहितम् ॥
नैतच्छम्भोर्विना वीर्यात्कार्यसिद्धिर्भविष्यति ॥ १९ ॥
तथा यतध्वं देवेशं यथा वाञ्छति पार्वतीम् ॥
इत्युक्त्वान्तर्दधे ब्रह्मा स्वप्ने लब्धं धनं यथा ॥ 5.1.34.२० ॥
ततो मेरुं समागत्य पुनर्मन्त्रं प्रचक्रिरे ॥
तेषामाहेदृशं शक्रस्तुष्टः शम्भुः पुरा मम ॥ २१ ॥
प्रतिपन्नं च देवेन स्वाङ्गात्सेना पतिं प्रति ॥
तस्मादेवं गते कार्ये कारणं मकरध्वजः ॥ २२ ॥
इति सञ्चित्य देवेशः काममाहूय सत्वरम् ॥
उवाच वचनं हृद्यं देवाना मनुकम्पया ॥ २३ ॥
यथा देवो भजेद्देवीं तथा काम विधीयताम् ॥
कारणं महदेतद्वै देवानां समुपस्थितम् ॥ २४ ॥
कामो वाक्यं हरेः श्रुत्वा प्रहस्येदमुवाच ह ॥
करिष्ये सर्वमेवं हि सखा मे चेद्भवेन्मधुः ॥ २५ ॥
तस्मिन्क्षणेऽथ शक्रेण कामवाक्यादनन्तरम्॥
समादिष्टो मधुः क्षिप्रं कामस्यानुचरो भव ॥ २६ ॥
लब्ध्वा कामो मधुं मित्रं प्रतस्थे भार्यया सह ॥
कृत्वा सज्यं धनुर्बाणं पौष्पं पाणौ समाहितः ॥ २७ ॥
यत्र देवाधिदेवेशो देवदारुवने स्थितः ॥
नन्दीश्वरः प्रतीहारः कृतध्यानोऽवतिष्ठति ॥ २८ ॥
चूतवृक्षाश्रितः कामो यावद्बाणं सुमोहनम् ॥
सन्दधात्यन्तरे चास्मिन्देवी प्राप भवाश्रमम् ॥ २९ ॥
त्यक्तध्यानव्रतो देवो हृष्टश्चाह्रादचेतनः ॥
ततो विलोकयामास दिशः सर्वाः प्रयत्नतः ॥ 5.1.34.३० ॥
चूतवृक्षाश्रितं काममपश्यच्च रुषान्वितः ॥
भस्मीकृतस्तृतीयाक्ष्णा वह्निज्वालावता ततः ॥ ३१ ॥
देवोऽप्यन्तर्दधे तस्मात्स्थानादाशु गणैः सह ॥
पार्वती विस्मिता साध्वी लज्जिता दुःखिताऽभवत् ॥ ३२ ॥
हिमवांस्तां समुत्थाप्य निनायाशु निजं गृहम् ॥
गते देवे च देव्यां च कामपत्नी सुदुः खिता ॥ २३ ॥
भस्मीकृतं पतिं दृष्ट्वा विललाप सुदुःखिता ॥
दृष्ट्वा रतिं सुदुःखार्ता वागुवाचाशरीरिणी ॥३४॥
आश्वासयन्तीं कृपया सखीमिव सुदुः खिताम् ॥
मा रोदीस्त्वं शुभापाङ्गि तव भर्ता करिष्यति॥३५॥
सर्वकार्याण्यनङ्गोपि मित्रकार्यं विधानतः ॥
यदा चायं महादेवः परिणेष्यति पार्वतीम् ॥ ३६ ॥
ततः शम्भोरनुध्यानात्थास्यति न संशयः ॥
द्वापरान्ते यदा कृष्णो द्वारकायां निवत्स्यति ॥ ३७ ॥
तत्पुत्रो भविता देही प्रद्युम्नोनाम ते पतिः ॥
इत्युक्ता साऽजहाच्छोकमाकाशाज्जातया गिरा॥ ३८ ॥
अचिन्तयत्तदा देवी उमापि हिमवद्गृहे ॥
कामस्य दहनं तेजः शम्भोर्यत्तदनुत्तमम् ॥ ३९ ॥
कथं भर्त्ता भवेद्देवः कामस्योत्थापनं कथम् ॥
नैतत्तपो विना कार्यं क्वचित्कस्यापि सिध्यति ॥ 5.1.34.४० ॥
एवं सञ्चिन्तयित्वाथ सखीभिः सहिता ततः ॥
तपश्चकार सुमहत्पित्रादेशाच्छुभव्रता ॥ ४१ ॥
वर्षास्वभ्रावकाशस्था हेमन्ते जलशायिनी॥
ग्रीष्मे पञ्चाग्नितप्ताङ्गी तपस्युग्रे समा स्थिता ॥ ४२ ॥
तां दृष्ट्वा तपसोपेतां ब्रह्मचारिवया हरः ॥
आजगामाश्रमं देव्याः कृतातिथ्योऽब्रवीदिदम् ॥ ४३ ॥
कृशमध्ये कृशापाङ्गि किमर्थं नवयौवने ॥
तपः करोषि कल्याणि कस्यार्थे कारणं वद ॥ ४४ ॥
उवाच चोत्तरं सा वै सत्यं च मधुरं तथा ॥
बटो तपःसमारम्भः क्रियते शङ्करा प्तये ॥ ४५ ॥
विचार्य च हरः श्रुत्वाऽनन्दयत्कार्यमात्मनः ॥
उमाभक्तिपरीक्षार्थं शिवं वाचा निनिन्द वै ॥ ४६ ॥
तस्य तद्वचनं श्रुत्वा न सेहे सा गिरेः सुता ॥
गन्तुकामामुमां मत्वा तस्मात्स्थानान्महेश्वरः ॥
स्वं वपुर्दर्शयामास त्रिनेत्रं शूलपाणिनम् ॥ ४७ ॥
लज्जिताभूद्भवानीशं दृष्ट्वा तस्थावधोमुखी ॥
विजयाथाह योगीन्द्रं प्रार्थ्या चाभिजने त्वियम् ॥
पार्वतीहरणार्थाय यत्नं च प्रकरोम्यहम् ॥ ४८ ॥
इत्युक्त्वान्तर्दधे देवो देव्यागाच्च पितुर्गृहम् ॥
देवीलाभाय सप्तर्षीन्सस्मार स्मरशासनः ॥ ४९ ॥
प्रणेमुस्तेप्यथागम्य संस्मृताः परमेश्वरम् ॥
ऊचुश्च प्राञ्ज लिपुटाः कुर्म किं शाधि नो भृशम् ॥ 5.1.34.५० ॥
ततोऽब्रवीन्मुनीनीशः समस्तांश्च गिरेर्गृहम् ॥
गत्वा तथा कुरुध्वं मे पार्वती स्याद्यथा प्रिया ॥ ॥ ५१ ॥
तथेति ते प्रतिज्ञाय सङ्केतं शम्भुना समम् ॥
कृत्वा जग्मुः सपत्नीका गिरीन्द्रस्य निवेशनम् ॥ ५२ ॥
दत्तार्घा भूधरेन्द्रेण कृतासन परिग्रहाः ॥
ऊचुरद्रिमुमां यच्छ शङ्करायार्थिने प्रियाम् ॥ ५३ ॥
दत्तेत्युक्ता गिरीन्द्रेण निरूप्योद्वाहवासरम् ॥
लब्ध्वानुज्ञां समायाता यत्रास्ते स महेश्वरः ॥ ५४ ॥
ऊचुस्ते शङ्करं सर्वे दत्ता हिमवता शिवा ॥
कृतकार्याश्च सर्वेऽपि वव्रजुस्ते यथागतम् ॥ ५५ ॥
चक्रुर्विवाह सामग्रीं ब्रह्मेन्द्रादिसुरास्तदा ॥
वृषासनो जगामाथ नन्दीशप्रमुखैर्गणैः ॥ ५६ ॥
शङ्खदुन्दुभिनादैश्च ब्रह्माद्यैरमरैः सह ॥
प्राप्यागेन्द्रालयं हीशः कृतकौतुकमङ्गलः ॥ ५७ ॥
विवाह्येमां विधानेन जगाम स्वालयं पुनः ॥
तत्रैकान्तरतिर्देवो यावत्तिष्ठति कामवान् ॥ ५८ ॥
तावत्त्रस्तैः सुरैरग्निः प्रेषितोऽगान्महेश्वरम् ॥
अग्नौ तत्र गते देवो रतिं कृत्वा महेश्वरः ॥ ५९ ॥
निचिक्षेप मुखे वह्नेः स्वरेतो व्रीडितो भृशम् ॥
रेतसा तेन तप्तो ऽग्निर्गङ्गातोये निक्षिप्तवान् ॥ 5.1.34.६० ॥
हररेतोऽग्निनोद्गीर्णं गङ्गामध्ये पपात ह ॥
तया तु स्वतटे न्यस्तं दग्धया रुद्ररेतसा ॥ ६१ ॥
सप्तर्षीणां च षट्पत्न्यः स्नानार्थं जाह्नवीं ययुः ॥
शीतार्तास्ताः कृतस्नाना दृष्ट्वा तेजस्तटे ज्वलत् ॥ ६२ ॥
मत्वाग्निमिति ताः सर्वास्तपन्ति स्म यथेच्छया ॥
तपन्तीनां च वै तासां तद्बीजसम्भव मुने ॥ ६३ ॥
षडाननं समारूढं श्रोणिद्वारेण सत्वरम् ॥
यदान्योन्यमुत्पतितुं शक्ता नाग्निपुरोगमात् ॥ ६४ ॥
चिन्तां जग्मुस्तदा सर्वा मुनित्रासात्ततो भयात् ॥
ततश्च तपसो वीर्यान्निष्कृष्य स्वोदरात्ततः ॥ ६५ ॥
षड्भिरेकत्वमापद्य श्वेतपर्वतमस्तके ॥
मध्ये शराणां वै कृत्य निक्षिप्तं वीर्यमुत्तमम् ॥ ६६ ॥
शुक्लायां प्रतिपद्यासीद्द्वितीयायां समीकृतः ॥
तृतीयायां च साकारः सर्वलक्षणलक्षितः ॥ ६७ ॥
चतुर्थ्यां परिपूर्णाङ्गः षण्मुखो द्वादशेक्षणः ॥
अलङ्कृतस्तु पञ्चम्यां षष्ठ्यां च स समुत्थितः ॥ ६८ ॥
तेजसा श्वेतताम्रेण तताप स जगत्त्रयम् ॥
जातमित्थं समाकर्ण्य सर्वे शक्रमुखाः सुराः ॥ ६९ ॥
समागत्यास्य संस्कारं ब्रह्मा चक्रे यथाविधि ॥
तुष्टेन पार्वतीशेन शक्तिर्दत्ता दृढा शुभा ॥ 5.1.34.७० ॥
ततो गौर्या मयूरश्च वाहने परिकल्पितः ॥
छागश्चैवाग्निना दत्तः कुक्कुटं सरितां पतिः ॥ ७१ ॥
शूलेन कृत्तिकाभिश्च वर्धितः पुत्रकाम्यया ॥
ततस्तु प्राप्तसंस्कारो ब्रह्माद्यैरभिनन्दितः ॥ ७२ ॥
शक्तिहस्तोऽभिषिक्तस्तु देवसेनासमादृतः ॥
वित्ताधिपेन साह्येन पावकिः पण्मुखों ऽशतः ॥ ७३ ॥
गाङ्गेयः कार्तिकेयश्च गुहः स्कन्द उमासुतः ॥
देवसेनापतिः स्वामी सेनानीश्च शिखिध्वजः ॥ ७४ ॥
कुमारः शक्तिधारी च तस्य नामानि षोडश ॥
यः पठेन्मानवो भक्त्या बाधा तस्य न जायते ॥ ७५ ॥
एवं जातो महासेनो दानवानां क्षयकरः ॥
कुशस्थल्यां समानीतः शम्भुना स्थानकारणात् ॥ ७६ ॥
अभिषिक्तः स तेनासौ भद्रितः स जटाः पुरा ॥
तेन भद्रजटन्नाम देवतीर्थं च कथ्यते ॥ ७७ ॥
कृताभिषेकं लब्धास्त्रं महासेनं महेश्वरः ॥
तमुवाच समधुरं सर्वदेवसमागमे ॥ ७८ ॥
रक्षा कार्या त्वया पुत्र सामरस्य शतक्रतोः ॥
देवानां बाधकाः सर्वे निहन्तव्याः सुरद्विषः ॥ ७९ ॥
इत्थं महोत्सवे जाते दृप्तप्रमथसागरे ॥
मातरोऽन्वागताः सर्वाः पातालतलसंस्थिताः ॥ 5.1.34.८० ॥
तासामाहारसञ्ज्ञाभिश्चक्रे नामानि शङ्करः ॥
यानि तानि प्रवक्ष्यामि शृणु त्वं मुनिपुङ्गव ॥८१॥
वटभोजनकामा या ज्ञेयास्ता वटमातरः ॥
भुञ्जते चर्पटान्यास्तु ता वै चर्पटमातरः ॥८२॥
क्रीडार्थं शम्भुना चाथ प्राप्ता याः पौलभोजने ॥
षण्णवतिमातरः सत्याः सर्वास्ताः पौलमातरः ॥८३॥
सर्वासां दर्शनं पुण्यं ग्रहभूतविनाशनम् ॥
प्रयत्नतः सदा देव्यो द्रष्टव्या मानवैर्मुने ॥८४॥
लब्ध्वा शक्तिं महासेनो देवसेनो महाव्रतः ॥
जघान दानवेन्द्रं तं तारकं तरसा तदा ॥ ८५ ॥
दत्त्वा राज्यं तथेन्द्राय स्फीतं निहतकण्टकम् ॥
कुशस्थलीं समागम्य तत्र वासं समाचरत् ॥८६॥
एवं निहत्य दैत्येन्द्रं स गाङ्गेयो महाब लः ॥
शक्तिं शिप्राजले मुक्त्वा पातालं च बिभेद सा ॥८७॥
ततो भोगवती व्यास शक्तिभेदेन निर्गता ॥
वन्दिता सर्वदेवैश्च मुनिभिश्च तपोधनैः॥८८॥
पृथिव्यां यानि तीर्थानि समुद्रादिगतानि च ॥
शक्तिभेदे तु न्यस्तानि शतकोटिसहस्रशः ॥ ८९ ॥
अतोऽतिपुण्यं त्रैलोक्ये कोटितीर्थमुदाहृतम् ॥
ब्रह्मणा स्थापितस्तत्र कोटितीर्थेश्वरः शिवः ॥ 5.1.34.९० ॥
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगः ॥ ॥ ९१ ॥
श्राद्धं करोति यस्तत्र पितृभक्तो नरो मुने ॥
दशानामश्वमेधानां प्राप्नोति सकलं फलम् ॥ ९२ ॥
पितॄनुद्दिश्य यत्किञ्चित्कोटितीर्थे प्रदीयते ॥
तत्सर्वं कोटिगुणितं जायते नात्र संशयः ॥ ९३ ॥
तत्र तीर्थे नरो यस्तु गां ददाति पयस्विनीम् ॥
सर्वलोकानतिक्रम्य स गच्छेत्प रमां गतिम् ॥ ९४ ॥
यावन्त्यङ्गेषु रोमाणि तत्प्रसूतिकुलेषु च ॥
तावद्युगसहस्राणि शिवलोके महीयते ॥ ९५ ॥
पौर्णमास्याममावास्यां पश्येच्छक्तिधरं तु यः ॥
नापुत्रो नाधनो रोगी सप्तजन्मसु जायते ॥ ९६ ॥
जलप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तमः ॥
सोऽक्षयं लभते लोकं यावच्चन्द्र दिवाकरौ ॥ ९७ ॥
वृषोत्सर्गं तु यः कुर्यात्पितृभक्तो नरो मुने ॥
सोऽक्षयं लभते स्थानं यत्सुरैरपि दुर्लभम् ॥ ९८ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शक्तिभेदतीर्थमाहात्म्यवर्णनन्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ ॥।छ॥ ॥