०३३ केशवादित्यमाहात्म्यवर्णनम्

5.1.33
॥ सनत्कुमार उवाच ॥ ॥
नारायणोऽपि संस्थाप्य शङ्खं दध्मौ प्रयत्नतः ॥
तुष्टाव प्रयतो भूत्वा स्तोत्रेणा नेन भास्करम् ॥ १ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ॥
दिवाकरं दिवानाथं तपनं तपतां वरम् ॥ २ ॥
वरेण्यं वरदं विष्णुमनघं वासवानुजम् ॥
बलवीर्यं सहस्रांशुं सहस्रकिरणद्युतिम् ॥ ३ ॥
मयूखमालिनं विश्वं मार्तण्डं चण्डरोचिषम् ॥
सदातीतं सुभास्वन्तं सप्तसप्तिं सुखोदयम् ॥ ४॥
देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम् ॥
तपोब्रह्ममयालोकं लोकपालमपाम्पतिम् ॥ ५॥
जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम् ॥
अर्कं निःश्रेयसपरं कारणं श्रेयसां परम् ॥ ६ ॥
इनं प्रभाविणं पुण्यं पतङ्गं पवगेश्वरम् ॥
दातारं वाञ्छितार्थानां दृष्टादृष्ट- फलप्रदम् ॥ ७ ॥
गृहं गृहकरं हंसं हरिदश्वं हुताशनम् ॥
मङ्गल्यं मङ्गलं गेयं ध्रुवं धर्मप्रबोधनम् ॥ ८ ॥
भवसम्भावित भावं भूतभव्यभवात्मकम् ॥
दुर्गमं दुर्गतिहरं हरनेत्रं त्रयीमयम् ॥ ९ ॥
त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् ॥
तेजोराशिसुनिर्वाणं विश्वेशं धाम साम्प्रतम् ॥ 5.1.33.१० ॥
कल्पं कल्पानलं कालं कालचक्रं क्रतुप्रियम् ॥
भूषणं मरुतं सूर्यं मणिरत्नं सुलोचनम् ॥ ११ ॥
त्वष्टारं विष्टरं विश्वं सदसत्कर्मसाक्षिकम् ॥
सवितारं सहस्राक्षं प्रजापालमधोक्षजम्॥ १२ ॥
ब्रह्माणं वासरारम्भे रक्तवर्णं महाद्युतिम् ॥
शुक्लं मध्यन्दिने रुद्रं श्यामं विष्णुं दिनक्षये ॥ १३ ॥
नाम्नामष्टशतं दिव्यं विष्णुना समुदाहृतम् ॥
य इदं प्रयतो भूत्वा पठेद्भक्त्या समाहितः ॥ १४ ॥
न तस्य विपदः क्वापि सर्वत्रापि शुभा गतिः ॥
धनधान्यसुखावाप्तिः पुत्रलाभश्च जायते ॥ १५ ॥
तेजः प्रज्ञां परं लाभं ज्ञानं च लभते गतिम् ॥
एतच्छ्रुत्वा जगन्नाथो जगामादर्शनं ततः ॥ १६ ॥
केशवार्कमुखं दृष्ट्वा पद्मरागसमप्रभम् ॥
विमुक्तः सर्वपापेभ्यः सूर्यलोके महीयते ॥ १७ ॥
केशवार्कसमीपे तु रेणुतीर्थं प्रचक्षते ॥
तद्दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये केशवादित्यमाहात्म्यवर्णनन्नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ ॥ छ ॥