०३२ नरादित्यमाहात्म्येऽर्जुनस्तुतिवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अथान्यत्सम्प्रवक्ष्यामि नरादित्यं दिवाकरम् ॥
यस्य दर्शनमात्रेण सर्वरोगैर्विमुच्यते ॥ १ ॥
स्थापनां ते प्रवक्ष्यामि नरादित्यस्य यादृशी ॥
युद्धे निवारिते तस्मिन्रक्तस्वेदजयोः पुरा ॥ २ ॥
नरनारायणौ देवाववतीर्णौ धरातले ॥
कुन्त्यां देव्यां च देवक्यां मथुरायामजायताम् ॥ ३ ॥
एवं तौ वर्तितौ लोके कान्तौ वृद्धिं परां गतौ ॥
अन्यस्मात्कारणात्कृष्णो ऽन्यस्माज्जातो धनञ्जयः ॥४॥
कंसादीन्दानवान्सर्वान्निजघान रणे हि सः ॥
स्वर्गं गतस्ततः पार्थो वासवादस्त्रसिद्धये ॥ ५ ॥
कृतास्त्रेण तु वीरेण देवराजस्य दक्षिणा ॥
संस्तुता देवराजस्तु ययाचे तां हि दक्षिणाम् ॥ ६ ॥
निवातकवचा ह्युग्रा हिरण्यपुरवासिनः ॥
वध्यन्तामर्जुन क्षिप्रमेषा मे गुरुदक्षिणा ॥ ७ ॥
अर्जुनेन प्रतिज्ञातो वधस्तेषां दुरात्मनाम् ॥
ऐन्द्रं स रथमास्थाय गृहीत्वा सशरं धनुः ॥ ८ ॥
निहत्य तांस्ततः पार्थः कृत्वा कर्म सुदुष्करम् ॥
प्रीतिमुत्पादयामास सर्वेषां च दिवौकसाम् ॥ ९ ॥
कृतकार्यं तदा शक्रस्त्वर्जुनं वाक्यमब्रवीत् ॥
यत्तेऽभिरुचिरं वीर मृत्युलोके सुदुर्लभम् ॥ 5.1.32.१० ॥
मनसा काङ्क्षितं पार्थ वरं त्वं वरयोत्तमम् ॥
स वव्रे प्रतिमे द्वे तु येऽर्चिते ब्रह्मणा स्वयम् ॥ ११ ॥
ब्रह्मणा प्रीतियुक्तेन दक्षाय प्रतिपादिते ॥
दक्षेणापि युगं साग्रं पूजिते तिमिरापहे ॥ १२ ॥
सुराणामसुराणां च विग्रहे समुपस्थिते ॥
दानवैर्निर्जितः शक्रो हृतराज्यो वनं गतः ॥ १३ ॥
तपश्चचार दुर्धर्षमेकपादः शतक्रतुः ॥
दिव्यवर्षसहस्रं तु धिषणस्तं ददर्श ह ॥ १४ ॥
दृष्ट्वा तु देवराजं तं बृहस्पतिरुवाच ह ॥
हित्वा त्रिदिवमायातः कथं शक्र त्विदं वनम् ॥ १५ ॥
एकाकिना वनस्थेन न साध्याः शत्रवस्त्वया ॥
ज्ञात्वैवं देवराज त्वं शीघ्रं दक्षाश्रमं व्रज ॥ १६ ॥
पूजार्थे ब्रह्मणा दत्ते पारिजातसमुद्भवे ॥
चकार विश्वकर्मा ये ते याचस्व प्रजापतिम् ॥ १७ ॥
शत्रूणां च क्षयो भावी प्रसादादर्चयो स्तयोः ॥
गुरोस्तु तेन वाक्येन हृष्टो देवः शतक्रतुः ॥१८॥
जगाम सत्वरस्तत्र यत्र दक्षः प्रजापतिः ॥
विनयावनतो भूत्वा ययाचे प्रतिमे शुभे ॥ १९
पूजिते प्रतिमे व्यास शक्रेण शरदां शतम् ॥
तयोस्तु तेजसा सर्वे विनाशं दानवा गताः॥5.1.32.२०॥।
प्रतिमे चोचुतुः शक्रं वरयस्व वरोत्तमम्॥
भक्त्यानया परं तुष्टावावां जानीहि वासव॥२१॥
वरं वव्रे तदा शक्रः प्रसन्नात्मा द्विजोत्म॥
अस्माकं प्रतिपक्षा ये दानवाः पापचेतसः ॥ २२ ॥
सर्वे ते नाशमृच्छन्तु वर एष मतो मम ॥
युवां पूजितुमिच्छामि यावदिन्द्रो भवाम्यहम् ॥ २३ ॥
तथेति चोक्त्वा प्रतिमे ते नाकं प्रति जग्मतुः ॥
तत्तु याचे ह्यवश्यार्थे वरार्थे प्रतिमाद्वयम् ॥ २४ ॥
॥ इन्द्र उवाच ॥ ॥
साधु पार्थ पुनः साधु यत्रेत्थं प्रतितिष्ठतः ॥
इमे च प्रतिमे पार्थ शङ्करेण महात्मना ॥ २५ ॥
सुरक्तैः शतपत्रैश्च पूजिते ब्रह्मणो दिनम् ॥।
त्रैलोक्यपालनार्थाय पूजिते विष्णुना पुरा ॥ २६ ॥
नीलोत्पलैः सुगन्धैश्च सहस्रपरिवत्सरान् ॥
ततः प्रजापतिः सृष्टिं कर्तुकामः समा हितः ॥ २७ ॥
पूजयामास प्रतिमे पद्मै रक्तोत्पलैः शुभैः ॥
त्वमेव हि कथं पार्थ मृत्युलोके नयिष्यति ॥ २८ ॥
एताभ्यां रहितः स्वर्गो मृत्युतुल्यो भविष्यति ॥
अदातुकामं देवेन्द्रं प्रणिपत्य तमर्जुनः ॥ २९ ॥
उवाच नाहमर्थ्यस्मिन्वरेणानेन वै प्रभो ॥
ततः शक्रः पुनः पार्थमुवाच मुनिपुङ्गव ॥ 5.1.32.३० ॥
गृहीत्वा त्वमिमे वीर कुशस्थल्यां निवेशय ॥
शिप्राया उत्तरे तीरे केशवार्कं तु केशवः ॥ ३१ ॥
प्रति तिष्ठति वै यत्र सर्वपापप्रणाशनः ॥
संस्थापयस्व वै तत्र सर्वपापप्रणाशने ॥
भविष्यति तदा यात्रा आषाढी चाथ कौमुदी ॥ ३२ ॥
आगमिष्याम्यहं तत्र सहितोऽप्सरसां गणैः ॥
मरुतश्चागमिष्यन्ति मेघाश्चैव सविद्युतः ॥ ३३ ॥
मेघखण्डे समुद्भूते मयि तत्र प्रवर्षति ॥
प्रवदिष्यन्ति वै लोकाः प्राप्तो देवः पुरन्दरः ॥ ३४ ॥
भास्करं च नमस्कृत्य ब्रह्माद्यैः पूजितं विभुम् ॥
प्रतियामि तु बीभत्सो पुनरेव यथागतम् ॥ ३५ ॥
एवं मृर्तिद्वयं व्यास दत्त्वा पार्थाय वासवः ॥
भूर्लोकं प्रेषयामास सूतेन सह पाण्डवम् ॥ ३६ ॥
नारदो द्वारकायां तु कृष्णस्याह्वानकारणात् ॥
देवराजस्य तद्वाक्यं सरहस्यं च केशवम् ॥ ३७ ॥
श्रावयामास विप्रेन्द्रं एहि कृष्ण कुशस्थलीम् ॥
अर्च्चे हि पारिजातस्य विश्वकर्मसुकारिते ॥ ३८ ॥
इन्द्रेणाथ प्रदत्ते वै ते तुभ्यं पाण्डवाय च ॥
श्रुत्वा शौरिस्तु तद्वाक्यं प्रतस्थेऽवन्तिनीपुरीम् ॥ ३९ ॥
अवातरच्च आकाशात्तमालिङ्ग्य च पाण्डवम् ॥
प्रीतः प्रोवाच वचनं परिष्वज्य च फाल्गुनम् ॥ 5.1.32.४० ॥
जन्म मे सफलं जातं प्रीतिर्मे जनितार्जुन ॥
यतो मे प्रीतिरतुला क्रियतां कार्यमुत्तमम्॥ ॥ ४१ ॥
इत्युक्त्वा तौ तदा व्यास समायातौ कुशस्थलीम् ॥
पार्थं प्राह तदा कृष्णः सुसम्पूर्णमनोरथः ॥ ४२ ॥
गत्वार्जुन दिशं प्राचीं मूर्तिमेकां निवेशय ॥
पूर्वाह्ने हि शुभं लग्नं भविष्यति मनोरमम् ॥ ४३ ॥
अहमप्युत्तरां यामि स्थापनार्थं नदीं मुने ॥
मम शङ्खस्य नादेन प्रतितिष्ठ रविं प्रभुम् ॥ ४४ ॥
पूर्वां गत्वा ततः पार्थ शुभं स्थानं व्यलोकयत् ॥
व्यास संस्थापयामास दिननाथं च सुस्थिरम् ॥ ४५ ॥
अर्कं देवं स्थापयामि यावद्दध्यौ च पाण्डवः ॥
तावत्स चाब्रवीदेनं स्थानं कारय शोभनम् ॥ ४६ ॥
कथयामास पार्थाय तेजसा तेन दुःसहम् ॥
सव्यसाची ततो भीतो दृष्ट्वार्च्चां तां प्रजल्पतीम् ॥ ४७ ॥
तेजस्त्वसहमानो वै देवं वचनमब्रवीत् ॥
क्व देव त्वां स्थापयामि किं स्थानं तव रोचते ॥ ४८ ॥
सौम्य रूपः सुदर्शश्च प्रजाभ्यो भव गोपते ॥
दिविसंस्थाश्च ये देवा नागाः पातालसंश्रयाः ॥ ४९ ॥
भुविस्था मानवाः पूता भवन्तु तव दर्शनात् ॥
सोऽर्जुनमब्रवीद्देवो मा भैस्त्वं मम दर्शनात् ॥ 5.1.32.५० ॥
दक्षिणेन करेणाथ ह्यभयेनाभयप्रदः ॥
समाश्वास्याथ तं शान्तं सौम्यमूर्तिर्बभूव ह ॥ ५१ ॥
प्रभाकरेण देवेन निजं तेजः प्रदर्शितम ॥
ततः सूर्योऽब्रवीत्स्थानमेतदेवाचलं मम ॥ ५२ ॥
प्राप्ते लग्ने च हरिणा शङ्खश्चापूरितो महान् ॥
नरेण च स वै सूर्यः स्थापितोऽमरसंस्तुतः ॥ ५३ ॥
॥ अर्जुन उवाच ॥ ॥
जयति किरणमाली भासुरः श्रान्तसप्तिः सकलभुवनधामा प्राग्दिगन्ताट्टहासः ॥
भवति विगतपापं कीर्तनादेव यस्य प्रचुरकलुषदोषैर्ग्रस्तमङ्गं नराणाम् ॥ ५४ ॥
ब्रह्माद्यैर्मुनिभिरभिष्टुतं पतङ्गं कः स्तोतुं कविरभिवाञ्छते प्रकामम् ॥
स्तोष्येहं तदपि सुविस्तरात्सुबुद्धे किं दीपो ज्वलति हि नोदिते शशाङ्के ॥ ५५ ॥
शास्त्रार्थकामनिपुणैर्मुनिभिः स्तुतस्य किं वस्तु यन्न रचितं विविधैः प्रयोगैः ॥
द्वैपायनप्रभृतिभिर्मुनिभिः पुराणैरापीतसारमिह भाति जगत्समस्तम् ॥ ५६ ॥
कामं तथाप्यहमतीव विचार्य ब्रुद्ध्या भानोस्त्रिलोकगुरुपूजितपादयुग्मम् ॥
वृत्तैः स्फुटार्थमधुराक्षरसन्धियुक्तैस्त्वां वै विचित्रगतिभिः परिकीर्तयिष्ये ॥ ५७ ॥
तावज्जगद्भवति निश्चलमेव सर्वं तावत्क्रियाश्च विविधा न च यान्ति सिद्धिम् ॥
यावच्च नाथ कमलामलमण्डल त्वमुत्तिष्ठसे व्यपनयन्किरणैस्तमांसि ॥ ५८ ॥
तावन्न भान्ति शिखराणि महीरुहाणां गुच्छैस्तु फुल्लवनमीलितलोचनानि ॥
सुप्तानि बोधयसि षट्चरणाकुलानि यावन्न भाभिरमलाभिरनुत्तमाभिः ॥ ५९ ॥
उद्यन्तमम्बरतले सुरसिद्धसङ्घाः सब्रह्मदैत्यमुनिकिन्नरनागयक्षाः ॥
त्वामर्चयन्ति विबुधाः प्रणतैः शिरोभिश्चञ्चत्किरीटमणिभाभिरनुत्तमाभिः ॥ 5.1.32.६० ॥
अस्तं गते त्वयि जगद्भवति प्रसुप्तं भूयस्त्वयि प्रतपति प्रतिबोधमेति ॥
एवं सदा वरद लोकहितार्थहेतोरेकस्त्वमेव भगवंस्तिमिरस्य हन्ता ॥ ६१ ॥
उत्साहशक्तिनयशौर्यसमन्वितानां सेवाप्रयोगरचनाविधितत्पराणाम् ॥
कार्याणि यन्न फलदानि भवन्ति पुंसां हेतुस्त्वभक्तिरिह नाथ वेति नूनम् ॥६२६२ ॥
यत्संयुगेषु रथकुञ्जरकुन्तशक्तिनाराचचक्रशरतोमरभीमखड्गैः ॥
क्षिप्रं नराः समुपयान्ति विजित्य शत्रून्सर्वं सदा प्रणतवत्सल वेष्टितं ते ॥ ६३ ॥
कान्तारदुर्गविषमेष्वपि वर्तमाना ऋक्षेभसिंहबहुकण्टकतस्करेषु ॥
तृष्णान्विताश्च बहुशोकविमूढचित्तास्त्वत्कीर्तनाद्धि गतमृत्यु भया भवन्ति ॥ ६४ ॥
तेजोराशिस्त्वमिह शरणं सर्वतोदुःखितानां
त्वत्तुल्योऽन्यो जगति सकले नास्ति कश्चिद्दयालुः ॥
त्वय्येकस्मिन्भवति सकला भक्तिरन्विष्यमाणा
त्वामासाद्य प्रभवति कुतो व्याधिदुःखं नराणाम्॥ ६५ ॥
कः कुष्ठाभिहतः क्व चारिभिरथो को व्याधिभिः पीडितः
के पङ्ग्वन्धजडाः क्व शीर्णचरणः को वा विपन्नक्रियः ॥
इत्येवं प्रसमीक्ष्य देव कृपया दोषात्परित्रायसे
कस्यान्यस्य परोपकारनिरता चेष्टा यथैषा तव ॥ ६६ ॥
धर्मः परत्र किल तिष्ठति सेवितोऽसौ
कालान्तरेण विबुधा वरदा भवन्ति ॥
त्वं सेवितः प्रणतवत्सल भूतिकामैः
सद्यः प्रयच्छसि फलं यदभीप्सितं तैः ॥ ६७ ॥
विभ्रान्तकान्तहरिणीसदृशेक्षणाभिः
कान्तोरुहारमणिकुण्डलमेखलाभिः ॥
तेषां भवन्ति भवनानि विलासिनीभिर्येषां नृणां त्वमसि वै वरदः प्रसन्नः ॥ ६८ ॥
यैस्त्वं नरैः सकृदपि प्रणतः कथञ्चिद्ध्यातोऽथवा भुवननाथ तथान्तकाले ॥
निष्कल्मषा जगति दुष्कृतिनो भवन्ति ते निर्मलाः सुकृतिनो गतिमाप्नुवन्ति ॥ ६९ ॥
ये त्वां कुतर्कमतिभिर्न नमन्ति भक्त्या रोमाञ्चकञ्चुकशताकुलितैः शरीरैः ॥
ते निर्धनाः परगृहेष्ववभूतमन्नं क्षुत्क्षामकण्ठवदनाः परितर्कयन्ति ॥ 5.1.32.७० ॥
उदधिजलतरङ्गक्षोभलोलाक्षियुग्मैः सफणिमणिमयूखोद्भासितैर्लेलिहद्भिः ॥
प्रणिपतितशिरोभिर्नागमुख्यैरजस्रं श्रुतिभिरनुपमाभिः स्तूयसे पुष्कलाभिः ॥ ७१ ॥
तव सुरवर गच्छतोऽनुसरन्ति त्रिदशनदीकमलोद्ग तानि वातैः ॥
कनककमलरेणुपिञ्जरितानि भ्रमरकुलानि पतङ्ग चामराणि ॥ ७२ ॥
तत्त्वध्यानं जलनिधिनिवहे स्थित्वा स्थित्वा चरणनिवहैः ॥
आजीवार्थं प्रतपसि भगवन्कस्ते तुल्यस्त्रिभुवनसमये ॥ ७३ ॥
उदयाद्रिनितम्बसंस्थितस्य ह्युदयेष्वस्तमयेषु चावृतस्य ॥
किरणास्तपनीयसप्रभास्ते विलसन्तस्तडितो विडम्बयन्ति ॥ ७४ ॥
यथायथा व्रजति रथस्तवाम्बरे विपाटयन्धनतिमिरौघसञ्चयान् ॥
तथातथा क्षुभितमहानिलासृतं प्रतीयते मुहुरिव दुन्दुभिर्यथा ॥ ७५ ॥
चारुपद्मविनिमीलितेक्षणां चक्रवाककलहंसमेखलाम् ॥
कामिनीमिव रतिश्रमालसां तां विबोधयसि पद्मिनीं करैः ॥ ७६ ॥
नीललोलमतिकान्तमुत्पलं भृङ्गतुङ्गचरणाकुलीकृतम् ॥
त्वत्प्रभाभिरनुरागरञ्जितं पद्मरागमिव शोभते भृशम् ॥ ७७ ॥
स्फुरच्छशाङ्कहारनिर्मलं खग त्वदङ्केष्वचञ्चलम् ॥
विभात्यतीव कान्तमम्बरं समं बृहच्चैक पाटलम्॥ ७८ ॥
हरिति च तावन्मुहिर्निषेविततमस्यशुभं भवति च यावदैव किरणैस्तव पूजिततरम् ॥
ऋषिभिर्मुनिभिरुदारधीभिः शाश्व तमार्गपरैर्वरद न शक्यते तव गुणस्तुतिराश्रयितुम् ॥ ७९ ॥
त्वं विष्णुस्त्वं शशाङ्कस्त्वमसुरमथनः शण्मुखस्त्वं धनेशस्त्वं कालस्त्वं च धाता क्षितिधरमलयापाश्रयस्त्वं हुताशः ॥
ॐकारस्त्वं द्विजानां त्वमिह जलनिधित्वं शरस्त्वं च रुद्रस्त्वं मुख्यस्त्वं पयोदो व्रतयमनियमास्त्वं जगत्सर्वमेव ॥ 5.1.32.८० ॥
त्वमनिन्द्य गोपते त्रिपुरमथन मन्मथदाहकरस्त्वमसुरभीमदर्पहा पाहि माम् ॥
त्रिदशाधिपकमलवराननस्त्वमिह देवगुरुर्भगवां स्त्रिभुवनमण्डलेऽस्ति कतमस्तव तुल्यगुणः ॥ ८१ ॥
आदित्य भास्कर दिवाकर सप्तसप्ते मार्तण्ड सूर्य हरिदश्वपते च भानो ॥
अश्रान्तवाहन खरूप गभस्तिमालिंस्त्वां लोकनाथ शरणं प्रतिपद्यतेऽसौ ॥ ८२ ॥
प्राग्दिग्वधूतिलकभासुरकर्णपूर मन्दाकिनीदयितनाथ जगत्प्रदीप ॥
हेमाद्रितापन नभस्तलहारिरत्न सन्ध्याङ्गनावदनराग नमोनमस्ते ॥ ८३ ॥
ब्रह्मैव सत्य शुभमङ्गल लोकनाथ व्योमाङ्गणेश मुनिसंस्तुत विश्वमूर्ते ॥
आर्तस्य शोकहर किङ्करपालकश्च त्वं मे प्रसीद भगवञ्छरणागतस्य ॥ ८४ ॥
कृत्वाञ्जलिं शिरसि पङ्कजकुड्मलाभं यत्संस्तुतस्त्वमिह देव मयाद्य भक्त्या ॥
तेन प्रभो भव ममोपरि सौम्यमूर्तिर्धर्मे मतिं कुरु सदा श्रियमूर्जितां च ॥ ८५ ॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहे तवे ॥
त्रयीमयाय त्रिगुणात्मधारणे विरञ्चिनारायणशङ्करात्मने ॥ ८६ ॥
॥ सूर्य उवाच ॥ ॥
तुष्टोहमधुना पार्थ स्तोत्रेणानेन सुव्रत ॥
वरं दास्यामि यत्नेन यत्ते मनसि वर्तते ॥ ८७ ॥
मद्दर्शनं हि विफलं न कदाचित्प्रजायते ॥
शूराणां च विशेषेण ह्यदेयं नास्ति यत्नतः ॥ ८८ ॥ ॥
॥ अर्जुन उवाच ॥ ॥
एष एव वरो मह्यं वराणामुत्तमोत्तमः ॥
अत्र सन्निहितो देव सर्वकालं भव प्रभो ॥ ८९ ॥
ये च त्वां मानवा भक्त्या स्तो ष्यन्ति प्रणताः सदा ॥
तेषां धनं च धान्यं च पुत्रदारादिकं वसु ॥5.1.32.९० ॥
मनसश्चेप्सितं सर्व दातव्यं हि वरो मम ॥
सनत्कुमार उवाच ॥
आदित्यो ऽस्मै वरं दत्त्वा ह्युवाच वचनं शुभम्॥ ९१ ॥
यस्त्वत्कृतेन स्तोत्रेण मां स्तोष्यति नरोत्तमः ॥
श्रिया न विच्युतिस्तस्य भवेदेष वरो मम ॥ ९२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरादित्यमाहात्म्येऽर्जुनस्तुतिवर्णनन्नाम द्वात्रिं शोऽध्यायः ॥ ३२ ॥ ॥ छ ॥