०३१ वर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अथान्यत्सम्प्रवक्ष्यामि केदारेश्वरमुत्तमम् ॥
प्रवरं सर्वतीर्थानां त्रिषु लोकेषु विश्रुतम् ॥ १ ॥
तत्र स्नात्वा शुचिर्भूत्वा यः पश्यति महेश्वरम् ॥
केदारे यत्फलं प्रोक्तं तदत्रापि लभेन्नरः ॥ २ ॥
सर्वपापविनिर्मुक्तः स्वकीयकुलसंयुतः ॥
विमानेनार्कवर्णेन शिव लोके स मोदते ॥ ३ ॥
जटाशृङ्गे नरः स्नात्वा शुचिर्भूत्वा जितेन्द्रियः ॥
दृष्ट्वा जटेश्वरं देवं ततः पापाद्विमुच्यते ॥ ४ ॥
महातपनमादौ च कृत्वा गच्छेच्छिवं प्रति ॥
मातृकं पितृकं चैव कुलानां तारयेच्छतम् ॥ ५ ॥
इन्द्रतीर्थे नरः स्नात्वा दृष्ट्वा चेन्द्रेश्वरं शिवम् ॥
विमुक्तः सर्वपापेभ्यः शक्रलोके महीयते ॥ ६ ॥
कुण्डेश्वरं तु यः पश्येच्छिवध्यानपरायणः ॥
लभते स नरो व्यास शिवदीक्षाफलं शिवम् ॥ ७ ॥
गोपतीर्थे नरः स्नात्वा दृष्ट्वा गोपेश्वरं शिवम् ॥
शिवलोकं नरो याति ह्यमृतादमरो यथा ॥ ८ ॥
स्नात्वा तु चिपिटातीर्थे शिवं देवं प्रणम्य च ॥
तिर्यग्योनिं नरो नैव प्रयाति मुनिपुङ्गव ॥ ९ ॥
विजये च नरः स्नात्वा आनन्देश्वरपूजनात् ॥
विमुक्तः सर्वपापेभ्यः स्वर्लोके विजयी भवेत् ॥ 5.1.31.१० ॥
अथान्यं सम्प्रवक्ष्यामि कुशस्थल्यां विनिर्मितम् ॥
देवं रामेश्वरं व्यास भुक्तिमुक्तिप्रदायकम् ॥ ११ ॥
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च ॥
समन्वितः समागत्य पप्रच्छ मुनिसत्तमम् ॥ १२ ॥
॥ राम उवाच ॥ ॥
कानि तीर्थानि पुण्यानि किं वा क्षेत्रं महामुने ॥
यत्र गत्वा न चाप्नोति वियोगं सह बान्धवैः ॥ १३ ॥
अनेन वनवासेन मरणेन पितुः प्रभो ॥
भरतस्य वियोगेन प्रतप्येऽहं त्रिभिर्मुने ॥ १४ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा ॥
ध्यात्वा तु सुचिरं कालमिदं वचनमब्रवीत् ॥ १५ ॥
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन ॥
मम पित्रा कृतं क्षेत्रं प्रयाच्य शिवमादरात ॥ १६ ॥
अवन्तीविषये राम पुरी तस्मिन्कुशस्थली ॥
उज्जयिनीति वै नाम्ना ख्यातिं लोके गता विभो ॥ १७ ॥
तस्यां गत्वा दशरथं पिण्डदानेन तर्पय ॥
सुरासुरगुरुस्तत्र महाकालो व्यवस्थितः ॥ १६ ॥
देवः स वै सदा राजन्वाञ्छितार्थफलप्रदः ॥
दृष्टे तस्मिञ्जगन्नाथे वियोगो नैव जायते ॥ १९ ॥
तत्र गच्छन्ति ये विप्रा राजा चैव महावलः ॥
लभन्ते परमं स्थानं यत्र देवो महेश्वरः ॥ 5.1.31.२० ॥
तीर्थानामपि तत्तीर्थं प्रविष्टोऽवन्तिमण्डले ॥
आजगाम ततोवन्तीं सा शिप्रा यत्र पुण्यदा ॥ २१ ॥
तस्यां स्नात्वा ततो रामस्तर्पयामास पूर्वजान् ॥
महाकालं यदा द्रष्टुं प्रतस्थे रघुनन्दनः॥२२॥
वाण्या ततोऽशरीरिण्या देवदेवेन भाषितम् ॥
भो भो राघव भद्रं ते स्वनाम्ना स्थापयस्व माम् ॥२३॥
अत्र स्थानं मया दत्त मा विचारय राघव ॥
ततो द्दृष्टमना रामो लक्ष्मणं वाक्यमब्रवीत् ॥ २४ ॥
अनुगृहीताः सौमित्रे देवदेवेन शम्भुना ॥
तस्मात्स्थापय तीर्थेऽस्मिल्ँलिङ्गं रामेश्वरं शुभम्॥ २५ ॥
वाक्यं तल्लक्ष्मणः श्रुत्वा स्थापयामास शङ्करम् ॥
दृष्ट्वा देवं पुरा रामो लक्ष्मणं वाक्यमब्रवीत् ॥ २६ ॥
एहि लक्ष्मण शीघ्रं त्वं शिप्राया जलमानय ॥
करिष्यामि यतोऽत्राहं देवस्य स्नपनं शुभम् ॥ २७ ॥
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतया किं करिष्यसि ॥
राम नाहं सर्वकालं दासभावं करोमि ते ॥ २८ ॥
इयं च पुष्टा सुदृढा पीवरा च ममाग्रतः ॥
वद राघव सत्येन अनया किं करिष्यसि ॥ २९ ॥
श्रुत्वा रामो हि तद्वाक्यं लक्ष्मणेन प्रभाषितम्॥
विमना राघवस्तस्थौ सीता चापि वरानना ॥ 5.1.31.३० ॥
यदुक्तं लक्ष्मणेनाथ तच्च सीता चकार ह ॥
स्नात्वा भुक्त्वा च तौ वीरौ महाकालमुपागतौ ॥ ३१ ॥
नीत्वा विभावरीं तत्र गमनाय मनो दधे ॥
उत्तिष्ठ वत्स सौमित्रे व्रजामो दक्षिणां दिशम्॥ ॥ ३२ ॥
सौमित्रिरब्रवीद्वाक्यं नाहं गन्ता कथञ्चन ॥
व्रज त्वमनया सार्धं भार्यया कमलेक्षण ॥ ३३ ॥
नाहमग्रे वनं यामि न वायोध्यां कथं चन ॥
एवं ब्रुवाणं सौमित्रिमुवाच रघुनन्दनः ॥ ३४ ॥
कथं पूर्वमूयोध्याया निर्गतोऽसि मया सह ॥
वने वसाम्यहं राम नव वर्षाणि पञ्च च ॥ ३५ ॥
प्रमादः क्रियतां मह्यं नय मामपि राघव ॥
इदानीं त्वमर्धपथे कथं स्थातासि शत्रुहन् ॥ ३६ ॥
लक्ष्मणस्त्वब्रवीद्राम नाहं गन्ता वनं पुनः ॥
लक्ष्मणं विकृतं ज्ञात्वा रामो वचनमब्रवीत् ॥ ३७ ॥
मा माऽनुव्रज सौमित्रे ह्येको यास्यामि काननम् ॥
द्वितीयापि त्वियं सीता उक्तो रामेण लक्ष्मणः ॥ ३८ ॥
धनुः सङ्गृह्य विमना उत्तस्थौ लक्ष्मणस्तदा ॥
प्राप्तौ प्राकारमर्यादां क्षेत्रसीमां परन्तपौ ॥ ॥
क्षेत्रसीमां समुल्लङ्घ्य रामो लक्ष्मणमब्रवीत् ॥ 5.1.31.४० ॥
निवर्तयस्व सौमित्रे समर्पय च मे धनुः ॥
रामवाक्यमुपश्रुत्य सीतां वै लक्ष्मणोऽब्रवीत् ॥ ४१ ॥
किमर्थं हि परित्यक्तः कोऽपराधः कृतो मया ॥
रामेण हि परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम् ॥ ४२ ॥
रामं ततोऽब्रवीत्सीता किमर्थं लक्ष्मणस्त्वया ॥
देव सन्त्यज्यते वीरः सुमित्रानन्दिवर्धनः ॥ ४३ ॥
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम् ॥
न कदाचिदपि स्वप्ने लक्ष्मणसदृशं प्रियम् ॥ ४४ ॥
श्रुतपूर्वं तु सुश्रोणि क्षेत्रस्यास्य विचेष्टितम् ॥
अस्मिन्क्षेत्रे न सौभ्रात्रं सर्वो हि स्वार्थतत्परः ॥ ४५ ॥
परस्परं न मन्यन्ते स्वार्थनिष्ठैकहेतवः ॥
न शृण्वन्ति पितुः पुत्राः पुत्राणां वा तथा पिता ॥ ४६ ॥
न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यकर्म च ॥
अर्थानुबन्धिनी प्रीतिर्न कश्चित्कस्यचि त्प्रियः ॥४७॥
एवमुक्त्वा ययौ रामो लक्ष्मणो जानकी तथा ॥
लिङ्गं तत्र प्रतिष्ठाप्य स्वनाम्ना रघुनन्दनः ॥४८॥
रामतीर्थे नरः स्नात्वा दृष्ट्वा रामेश्वरं शिवम्॥
विमुक्तः सर्वपापेभ्यः शिवलोकं स गच्छति ॥४९॥ ॥
इति रामेश्वरमाहात्म्यम् ॥
॥ सनत्कुमार उवाच ॥ ॥
तीर्थे सौभाग्यके स्नात्वा दृष्ट्वा सौभाम्यमीश्वरम् ॥
सर्वपापविनिर्मुक्तः सौभाग्यं परमं लभेत् ॥ 5.1.31.५० ॥
घृततीर्थे नरः स्नात्वा घृतेन स्नापयेच्छिवम् ॥
घृतमग्नावथो हुत्वा रुद्रलोके महीयते॥५१॥
देवीं योगीश्वरीं पूज्य सुरासुरनमस्कृताम् ॥
सर्वपापविनिर्मुक्तः परं योगमवाप्नुयात्॥५२॥
शङ्खावर्ते नरः स्नात्वा सर्वपापविवर्जितः ॥।
धनधान्यसमायुक्तो जायते निर्मले कुले ॥ ५३ ॥
सुधोदके चतुर्दश्यां मुक्त्यर्थं स्नापयेन्नरः॥
शिवं सुधेश्वरं दृष्ट्वा ततो मोक्षगतिर्भवेत् ॥५४॥
तथान्य त्सम्प्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ॥
किं पुनेति च विख्यातं ब्रह्महत्याविमोचनम् ॥५५॥
पूर्वं त्रेतायुगे व्यास सुनेत्रो नाम वै द्विजः॥
तस्य पुत्रः समु त्पन्नो विश्वावसुरिति स्मृतः ॥५६॥
यवक्रीतस्य शापेन स्वपिता तेन घातितः ॥
ब्रह्महत्यान्वितो व्यास तीर्थात्तीर्थं परिभ्रमन् ॥५७॥
तीर्थे किम्पुनके स्नात्वा धारातीर्थे गतो द्विजः ॥
ततः कपिलधारायां चिन्तयत्यात्मना स्वयम् ॥ ५८ ॥
कथं मे पतिता धारा अनृता वा श्रुतिस्तथा ॥
एवं ह्यचिन्त यत्सोऽथ पुनरायादवन्तिकाम् ॥ ५९ ॥
अत्र तीर्थे पुनः स्नाति यावद्वाणीं ततोऽशृणोत् ॥
किं पुनर्ध्यायसि ब्रह्मन्येन जातो द्विजोत्तमः ॥ 5.1.31.६० ॥
न तेऽस्ति ब्रह्महत्या वै तीर्थस्नानेन नाशिता ॥
गच्छ शीघ्रं गृहं विप्र पापहीनो यथासुखम् ॥ ६१ ॥
॥ इति किम्पुनामाहात्म्यम् ॥ ॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुनरन्यत्प्रवक्ष्यामि पत्तनेश्वरमुत्तमम् ॥
तत्र स्थित्वा महेशेन पुनः पत्तनमीक्षितम् ॥ ६२ ॥
पत्तनेश्वर इत्याख्यो देवदेवो महेश्वरः ॥
यस्तु गन्धैश्च पुष्पैश्च धूपैर्दीपैर्मनोरमैः ॥ ६३ ॥
भावयुक्तो नरो व्यास पूजयेद्विधिवत्सदा ॥
यथावत्तिष्ठते लिङ्गं वंशच्छेदो न जायते ॥ ६४ ॥
हंसयुक्तेन यानेन शिवलोकं स गच्छति ॥
तथान्यत्सम्प्रवक्ष्यामि तीर्थं त्रैलोक्यविश्रुतम् ॥ ६५ ॥
दुर्धर्षमिति विख्यातं ब्रह्महत्याविमोचनम् ॥
पुरा दिवाकरो व्यास चक्रे दुर्धर्षनामतः ॥ ६६ ॥
तीर्थमासीन्नदीतीरे विख्यातं सूर्यसंस्कृतम् ॥
तेजःपुञ्जं भवेल्लिङ्गं गणगं धर्वपूजितम् ॥ ६७ ॥
सप्तम्यामथवाष्टम्यां सङ्क्रातौ रविवासरे ॥
तत्र स्नात्वा शुचिर्भूत्वा दिनमेकमुपोषितः ॥ ६८ ॥
दृष्ट्वा महेश्वरं तत्र शिप्राकूले व्यवस्थितम् ॥
पूजयित्वा तु भावेन यत्फलं तच्छ्रणुष्व मे ॥ ६९ ॥
पितृमातृकुलं सर्वं समुद्धृत्य शिवं व्रजेत् ॥
तत्र यच्छति यो दानं गोहेमादि विशेषतः ॥ 5.1.31.७० ॥
तावत्तदक्षयं लोके यावच्चन्द्रदिवाकरौ ॥
तथान्यत्सम्प्रवक्ष्यामि गोपीन्द्रं तीर्थमुत्तमम् ॥ ७१ ॥
गौतमेन पुरा यत्र इन्द्रः शापाद्भ गीकृतः ॥
भगव्रीडायुतः शक्रः प्रविश्य वनमुत्तमम् ॥ ७२ ॥
अतोषयत्तदोग्रेण तपसा शङ्करं पुरा ॥
तुष्टेन शम्भुना विप्र ये भगास्तच्छरीरगाः ॥। ॥ ७३ ॥
गोसहस्रीकृतास्तेन गोपीन्द्रस्तेन कथ्यते ॥
तत्र स्नात्वा दिवं याति शक्रतुल्यपराक्रमः ॥ ७४ ॥
ये मृतास्ते पुनर्जन्म नाप्नुवन्ति महीतले ॥।
गङ्गातीर्थे नरः स्नात्वा पुण्यमाप्नोति पुष्कलम् ॥ ७५ ॥
ज्येष्ठशुक्लदशम्यां तु गङ्गायां फलमादिशेत् ॥
स्नात्वा पुष्पकरण्डे च दृष्ट्वा पुष्पकरण्डकम् ॥ ७६ ॥
पुष्पकेन विमानेन प्रयातो दिवि मोदते ॥
नरकादुद्धरत्याशु नरः स्नात्वोत्तरेश्वरे॥७७॥
इष्टभोगसमापन्नो याति स्वर्गं न संशयः ॥
भूतेश्वरे नरः स्नात्वा भूतेश्वरमथार्चयेत् ॥ ७८ ॥
गन्धपुष्पादिनैवेद्यैर्मृतो रुद्रपुरं व्रजेत् ॥
शिप्रायां तु नरः स्नात्वा कैलासं तु नमस्यति ॥ ७९ ॥।
सूर्याऽऽहतं तमो यद्वत्तद्वत्पापं प्रणश्यति ॥
अम्बालिकां च यः पश्येत्समाधिनियमेन च ॥ 5.1.31.८० ॥
स मुक्तः सर्वपापेभ्यः कञ्चुकेन फणी यथा ॥
घण्टेश्वरं प्रवक्ष्यामि यत्सुरैरपि पूजितम् ॥ ८१ ॥
यत्र कूपोदकं पीत्वा सौभाग्यमतुलं लभेत् ॥
अर्चयेद्यस्तु देवेशं गन्धपुष्पैरनुक्रमात् ॥ ८२ ॥
शिवलोके वसेत्तावद्यावदिन्द्राश्चतुर्दश ॥
पुण्येश्वरं तु यः पश्येच्छुचिः स्नातो जितेन्न्द्रियः ॥ ८३ ॥
स गाणपत्यमाप्नोति यत्सुरैरपि दुर्लभम् ॥
लम्पेश्वरे नरः स्नात्वा समभ्यर्च्य महेश्वरम्॥८४॥
न याति नरकं मर्त्यः स्वर्गलोके महीयते॥
तथान्यत्सम्प्रवक्ष्यामि यत्सुरैरपि दुर्लभम् ॥८५॥
पूजितं ब्रह्मणा पूर्वं स्थविराख्यं विनायकम् ॥
तत्र स्नात्वा शुचिर्भूत्वा पूजयेद्यो विनायकम्॥८६॥
गन्धैर्धूपैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैः फलं शृणु ॥
समीहिता भवेत्सिद्धिर्मृतः शिवपुरं व्रजेत्॥८७॥
नवनद्याः समीपे तु पार्वतीं पूजयेद्बुधः॥
गन्धपुष्पैश्च धूपैश्च सौभाग्यमतुलं लभेत्॥८८॥
कामोदके नरः स्नात्वा दृष्ट्वा कामं रतिप्रियम् ॥
स्वर्गे च देवगन्धर्वस्पृहणीयवपुर्भवेत् ॥८९॥
प्रयागे तु नरः स्नात्वा प्रयागेशं तु पश्यति ॥
सर्वलोकानतिक्रम्य शिवलोके मही यते ॥ 5.1.31.९० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सौभाग्येश्वरादिनानातीर्थमाहात्म्य वर्णनन्नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ ॥ छ ॥