०३० आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽनरकेश्वरदीपदानमाहात्म्यवर्णनम्

॥ व्यास उवाच ॥ ॥
दीपेऽस्मिन्यत्फलं चास्ति विधिना येन दीयते ॥
तत्सर्वं ब्रूहि मे तात दीपोत्पत्तिं च शोभनाम् ॥ १ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुरा कृतयुगे व्यास पार्वतीं शङ्करोऽग्रतः ॥
अभिप्रयाचितुं यातस्तयापि सोऽभियाचितः ॥ २ ॥
॥ पार्वत्युवाच ॥ ॥
शरीरे कृष्णता शम्भो ममास्ति रूपहारिणी ॥
तस्माद्याचे भृशं शम्भो प्रसीद दिव्य लोचन ॥ ३ ॥
भवेन वर्णिता सा वै अतीव शोभना मम ॥
लोचने पक्ष्ममालायाः शोभसेऽतितरां सदा ॥ ४ ॥
सिताब्जसंस्थितो भृङ्गो यथा शोभयते च तम् ॥
तया तथा याचितोसौ धूर्जटिर्वृषभासनः ॥ ५ ॥
विरूपरूपकर्तासि न शृणोषि वचो यदा ॥
तदा त्वहं सवै राग्या चरेयं दुष्करं तपः ॥ ६ ॥
भवस्तयेति चोक्तस्तु तस्या वै पाणिमग्रहीत् ॥
कदाचिच्छङ्करो देवो रतिं याचितवान्प्रियाम् ॥ ७ ॥
रतिं दत्तवती सा तु जहास नाम कीर्तयन् ॥
सुदुःखिताऽभवत्सा तु पराङ्मुखी विहाय तम् ॥ ८ ॥
उवाच रोषसंयुक्ता संस्मृत्य देवभाषितम् ॥
तपोवनं व्रजाम्यद्य सुगौरत्वोपलब्धये ॥ ९ ॥
सुवर्णरूपरूपा च यदा पुनर्भवामि च ॥
तदा तव सानुरागा भवामि चैव नान्यथा ॥ 5.1.30.१० ॥
इतीदमेव जल्पन्ती जगाम विन्ध्यपर्वतम् ॥
हरः शुशोच ततस्तां क्व गता सा विहाय माम् ॥ ११ ॥
स्मरंस्तदेव चेष्टितं तदेव पूर्वभाषितम् ॥
तदैव मे वृथा मतिर्मुदा यदा न मानिता ॥ १२ ॥
यतो मया हिमाद्रिजा समस्तलोकसुन्दरी ॥
पुरैव नाभिनन्दिता गता विहाय मामिति ॥ १३ ॥
इतीदमेव सोऽवदद्गतस्त्वद्दर्शनं ततः ॥
प्रियावियोगमीदृशं गुरुं न सोढुमुत्सहे ॥ १४ ॥
ततो जगद्धि सङ्कुलं महाभयेन संयुतम् ॥
सुरासुरा महर्षयः परं विषादमभ्यगुः ॥ १५ ॥
विहाय मन्दिराणि ते परं विषादमागताः ॥
हरस्तुतिं परां च ते प्रचक्रुरद्भुतोपमाः ॥ १६ ॥
॥ सनत्कुमार उवाच ॥ ॥
न दृश्यते यदा देवो रुद्रो बालेन्दुशेखरः ॥
नष्टालोकं जगत्सर्वं कान्तारमभवत्तदा ॥ १७ ॥
त्रीणि नेत्राणि रुद्रस्य यतः सूर्येन्दुव ह्नयः ॥
गते रुद्रे न ते भान्ति जगत्यस्मिंश्चराचरे ॥ १८ ॥
ततस्तमसि दुस्तारे सम्भूते लोमहर्षणे ॥
अन्योन्यं हि न पश्यन्ति सुरासुरास्तमोवृताः ॥ ॥ १९ ॥
एषा बुद्धिस्ततस्तेषामुत्पन्ना कार्यसिद्धये ॥
यया बुद्ध्या जगन्नाथो ज्ञायते पार्वतीपतिः ॥ 5.1.30.२० ॥
न ह्यालोको विना तेन शशिसूर्याग्निच क्षुषा ॥
परस्परं ब्रुवन्ति स्म दुःखितास्ते विसञ्ज्ञया ॥ २१ ॥
हे देव हे मुने सिद्धे हे ऋषे हे निशाचर ॥
हे दैत्य हे दनुश्रेष्ठ हे मनुष्यनिदेशक ॥ ॥ २२ ॥
गतोऽसि कां दिशं तात को वा लब्धस्त्वया विभो ॥
क्वचिद्विश्रामभूमिस्ते क्वचिदालम्बनेऽपि वा ॥ २३ ॥
पाथेयमस्ति किञ्चित्ते दिशि किं वाथ कुत्रचित् ॥
प्रकाशं वाहनं छत्रमशनं शयनं गृहम् ॥ २४ ॥
क्वचिद्वासि कथं तोयमथवा चित्तनिर्वृतिः ॥
बन्धुः पुत्रोऽसि वा तात वृक्ष च्छाया सुशीतला ॥ २५ ॥
एवं प्रकारं करुणं समाभाष्य परस्परम् ॥
भूयश्चिन्तापराः सर्वे देवाश्चेन्द्रपुरोगमाः ॥ २६ ॥
भूमेर्विवरमाश्रित्य प्राणिनो ये वसन्त्यपि ॥
रसातले च दैतेयाः संस्थिताः पन्नगाश्च ये ॥ २७ ॥
न तेषां विद्यते सूर्यो नेन्दुर्नान्ये महाग्रहाः ॥
नाग्निर्देवमुखं विद्युन्नैव तारकको टयः ॥ २८ ॥
केनालोकेन पश्यन्ति समानि विषमाणि च ॥
नरकस्था नरा लोके न पश्यन्त्यन्यलोकगाः ॥ २९ ॥
विचरन्तः समं को वा मनो रथशतप्रदः ॥
तृष्णाम्भः क्षुधितान्नं च श्रान्तानामथ वाहनम् ॥ 5.1.30.३० ॥
समे शय्या जले नौश्च रोगे सत्परिचारकः ॥
श्रेष्ठौषधीभिः सन्मन्त्रैः सम्पदो व्याधिसङ्कटे ॥ ३१ ॥
सुहृद्विदेशे च्छायोष्णे निर्धूमः शिशिरे शिखी ॥
महाभये परित्राणं प्रकाशश्च महानिशि ॥ ३२ ॥
सर्वदश्चैव सर्वेषां मनोरथशतप्रदः ॥
एक एव भवान्द्योतस्त्वां च जानीमहे वयम् ॥ ३३ ॥
ब्रुवन्त इति ते व्यास शुश्रुवुर्मधुरां गिरम् ॥
श्रुतपूर्वां तमोमध्याद्विष्णोर तुलकर्मणः ॥ ३४ ॥
न जानन्ति स्थितः कुत्र भाषते केशवो विभुः ॥
शृणुध्वमिति मे वाक्यं सर्वे चैव समाहिताः ॥ ३५ ॥
दानमेकं सदा सम्य क्चिन्तामणिसमं स्मृतम् ॥
सर्वेषामेव दानानां दीपदानं प्रशस्यते ॥ ३६ ॥
तच्च देयमतः सर्वैः शृणुध्वं तत्त्वतो भृशम् ॥
मया रसातले पूर्वं नागा नामनुकम्पया ॥ ३७ ॥
उत्पादितो दीपवरो येन ध्वस्तमिदं तमः ॥
एवम्भूतस्तु वायूनामप्रधृष्यो महाप्रभः ॥३८॥
निष्कम्पो निर्मलो हृद्यः सुस्थिरो भास्करप्रभः ॥
नात्युष्णो नातिशीतश्च देव्या योगसमुद्भवः ॥
तेन दीपप्रकाशेन गोकर्णो निर्वृतिं ययौ ॥ ३९ ॥
नागाः शेषादयः सर्वे नोद्यमानाश्च सङ्घशः ॥
दीपाद्दीपसहस्राणि ददुस्ते वै शिवाग्रतः ॥ 5.1.30.४० ॥
पर्वतेषु समुद्रेषु वनेषूपवनेषु च ॥
नदीतीरेषु सर्वत्र दीपान्प्रज्वाल्य रेमिरे ॥ ४१ ॥
भुञ्जानाः पञ्च मूलानि दिव्यानि क्षीरसंयुतम् ॥
परमान्नं च मांसानि मकरन्दं घृतौदनम् ॥ ४२ ॥
चन्द्रशालिभवं भक्तं ताम्बूलं सप्तधा गतम् ॥
मद्यमष्टप्रकारं तु भार्यापीतावशेषकम्॥ ४३ ॥
शयनेषु महार्हेषु हृद्यासु वनराजिषु ॥
वृक्षमूलेषु सर्वेषु वनच्छायोपशोभिषु ॥ ४४ ॥
रमन्ते स्म च ते सर्वे ह्युद्वेष्टन्तः परस्परम् ॥
कामतन्त्रोपदिष्टैस्तु शास्त्रैश्च चुम्बनादिभिः ॥ ४५ ॥
सूर्यतापभयान्मुक्ताश्चन्द्ररश्मिभयाच्च ते ॥
विमुक्ताश्च भयाद्धोरात्पिपीलिकोद्भवात्तथा ॥ ४६ ॥
सूर्यतापेन दाहः स्याच्छीतं चन्द्रमरीचिभिः ॥
मयूरनकुलाद्यैश्च पिपीलीमरणाद्भयम् ॥ ४७ ॥
सौवर्णान्दीपका न्कृत्वा द्विजेभ्यस्ते ददुः पुनः ॥
तेन पातालमाश्रित्य कृत्वा भोगवतीं पुरीम् ॥ ४८ ॥
वसन्ति सुखिनस्तत्र स्वर्गादष्टगुणैः सुखैः ॥
एवमन्धं तमो देवाः पातालाद्दीपतो गतम् ॥ ४९ ॥
एतद्गुह्यं मया ख्यातं भवतां चानुकम्पया ॥
दीपदानमतोयूयं कुरुध्वं सुसमाहिताः ॥ 5.1.30.५० ॥
दीपाग्निना विना नैव तमोदारु प्रदह्यते ॥
नारायणपरा देवा निशम्याथ समाहिताः ॥ ५१ ॥
पप्रच्छुस्ते पुनः सर्वे हृष्टा दामोदरं विभुम् ॥
ब्रूहि नोग्निं जगन्नाथ स दीपो येन जायते ॥ ५२ ॥
घोरे तमसि वै मग्ना नाग्निं जानीमहे वयम् ॥
देवानां मानसो वह्निरथ कृष्णेन कीर्तितः ॥ ५३ ॥
तेन दीपं प्रतिज्वाल्य देवाः शिवपरायणाः ॥
ददुस्ते शिवमुद्दिश्य सर्वाभीष्टफलप्रदम् ॥ ५४ ॥
दत्ते दीपे ततो देवैर्दृष्टो हृष्टो महेश्वरः ॥
तिमिरं तद्गतं चापि जगद्येन जडीकृतम् ॥ ५५ ॥
ततो देवाः सुखं प्रापुः स्वर्गे सेन्द्रपुरोगमाः ॥
राज्यं भोगान्वितं प्राप्य सार्धं स्त्रीभिश्च रेमिरे ॥ ५६ ॥
दीपदानफलं ज्ञात्वा दैतेयाश्चापि विस्मिताः ॥
तथैव तत्फलं ज्ञात्वा व्यास यक्षाश्च विस्मिताः ॥ ५७ ॥
पूजयित्वा महादेवं पुष्पैश्च निर्मलैर्जलैः ॥
ददुर्दीप सहस्राणि सर्वे शिवपरायणाः ॥ ५८ ॥
स्वस्थाने चाभवन्सर्वे दीपदानाच्च शोभनाः ॥
स्वेच्छया भुञ्जते भोगान्बन्धुभृत्यादिसंयुताः ॥ ५९ ॥
निराहारास्ततो व्यास पिशाचा वै निराश्रयाः ॥
दीपदानफलं ज्ञात्वा सर्वे तेऽतीव विस्मिताः ॥ 5.1.30.६० ॥
चण्डालादग्निमानीय ददुर्दीपं शिवे रताः ॥ ।
दीपदानफलं ते वै पुत्रदारसमन्विताः ॥ ६१ ॥
लीढमन्नं गतरसं पूति पर्युषितं तथा ॥
उच्छिष्टं सूतिकास्पृष्टं न मेध्यं चातिलङ्घितम् ॥ ६२ ॥
भुञ्जानास्ते सदा हृष्टा रमन्ते दुष्टभूमिषु ॥
विद्याधरास्तथा मर्त्याः सिद्धाश्च शिवमानसाः ॥ ६३ ॥
दीपदानफलं ज्ञात्वा ददुर्दीपं शिवाग्रतः ॥
दीपदानात्ततः सर्वे सर्वभोगसमन्विताः ॥ ६४ ॥
स्थानेषु मुदितास्तेषु रमन्ते सुखिनस्तदा ॥
तिमिरं तद्गतं चैव व्यास लोकेषु दीपतः ॥ ६५ ॥
ततो घोरं स्थितं सम्यक्प्रेतलोकेषु सर्वदा ॥
प्रेतलोकं तदा दृष्ट्वा घोरेण तमसा वृताः ॥ ६६ ॥
दामोदरं जगन्नाथमूचुः सर्वे सुरोत्तमाः ॥
घोरं चैव तमो हत्वा प्रसन्नास्ते सदा विभो ॥ ६७ ॥
गन्धर्वाश्च तथा यक्षाः सिद्धा विद्याधरोरगाः ॥
वयं चैव तथा मर्त्याः सर्वभोगैश्च संयुताः ॥ ॥ ६८ ॥
स्थानेषु च सदा ह्येषु सुखिनश्च रमामहे ॥
प्रेतलोके नरा ये वै घोरेण तमसा वृताः ॥ ६९ ॥
वसन्ति च जगन्नाथ वर्तन्ते तेऽतिदुःखिताः ॥
यैर्नो कृतं हि तत्कर्म कृष्णालं पापमोहितैः ॥ 5.1.30.७० ॥
न तेषां विद्यते किञ्चिद्यत्प्रकाशं करोति च ॥
घोरे तमसि ते मग्नास्तत्र नार्केन्दुवह्नयः ॥ ७१ ॥
न सहायो न जायेयं नालम्बो न च देशिकाः ॥
न वाहनं न शय्या च केवलं तु महत्तमः ॥ ७२ ॥
तत्राष्टाविंशतिः ख्याता घोरा नरककोटयः ॥
तमोमयाश्च ताः सर्वाः पापिनां भयदाः सदा ॥ ७३ ॥
सुखं तत्र कथं कृष्ण लभन्ते दुःखिता नराः ॥
दारिद्र्यदुःखरोगैश्च मायामोहैश्च सर्वदा ॥ ७४ ॥
॥ सनत्कुमार उवाच ॥ ॥
इति श्रुत्वा तु देवानां प्रार्थनां गरुड ध्वजः ॥
उवाच वचनं हृद्यं मनोरथफलप्रदम् ॥७५॥
शृणुध्वं त्रिदशाः सर्वे यत्प्रवक्ष्यामि वो वचः॥७६॥
अवन्त्यां वर्तते तीर्थं सद्यः पापहरं परम् ॥
अनरकाख्यं महापुण्यं सर्वतीर्थोत्तमोत्तमम् ॥ ७७ ॥
कार्तिकस्यासिते पक्षे चतुर्दश्यां समाहितः ॥
तत्र स्नात्वा नरो यस्तु यमध्यानपरायणः ॥ ७८ ॥
सङ्गृह्य वै तिलान्कृष्णान्पितृभक्तो जितेन्द्रियः ॥
दक्षिणाभिमुखो भूत्वा मध्याह्ने सुरसत्तमाः ॥ ७९ ॥
अपसव्यं तथा कृत्वा मन्त्रैः सन्तर्प येद्यमम् ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ 5.1.30.८० ॥
वैवस्वताय कालाय दक्षाय मनवे तथा ॥
कृष्णाय कृष्णगुप्ताय प्रेतलोकपराय च ॥ ८१ ॥
हरये रविपुत्राय कालिन्दीसोदराय च ॥
तथा वै श्राद्धदेवाय पितृणां पतये तथा ॥ ८२ ॥
मन्त्रैरेभिर्नमःप्रोक्तैरोङ्काराद्यैः सुशोभनैः ॥
जलाञ्जलिं सदर्भं वै दद्याच्च तिलसंयुतम् ॥ ८३ ॥
सन्तर्पयेद्यमं देवं तिलपात्रं समाहितः ॥
प्राज्ञो विप्राय वै दद्याद्वित्तशाठ्यविवर्जितः ॥ ८४ ॥
अनेन विधिना यस्तु सन्तर्पयेद्यमं विभुम् ॥
पितरस्तस्य मुच्यन्ते निरये ये गता अपि ॥ ८५ ॥
रात्रिं तत्राथ सम्प्राप्य मानवः कामसंयुतः ॥
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे ॥ ८६ ॥
नमः सूर्याय रुद्राय कालान्तपतये नमः ॥
एभिर्मन्त्रैर्यमे दीपं यो दद्याद्धृतपूरितम् ॥ ८७ ॥
कार्तिकं हि समग्रं तु वर्धन्ते तस्य सम्पदः ॥
सम्पूर्णे कार्तिके चैव दीपोद्यापनमाचरेत् ॥ ८८ ॥
दिवाकराह्नेऽस्तमिते च सूर्ये दीपस्य वर्त्तिं पुरुष प्रमाणाम् ॥
यूपाकृतौ दारुमये करोति यया च धीमान्यमभक्तिचित्तः ॥८९॥
निक्षिप्य भूमावथ हस्तमात्रं मूर्ध्नि द्विहस्ताष्टदलान्वितस्य ॥
धार्याश्चतस्रः शुभपट्टिकाश्च च्छिद्रेण युक्ताश्चतुरङ्गुलेन ॥ 5.1.30.९० ॥
तत्कर्णिकायां तु महाप्रकाशो देयो हि दीपः परया च भक्त्या ॥
उदङ्मुखान्दीपवरांस्त थाष्टौ दलेषु तस्या घृतपूर्यमाणाः ॥ ९१ ॥
अनङ्गलग्नं धवलं च वस्त्रं नवं सुरक्तं ह्यथवा सुशुक्लम् ॥
वर्त्यां प्रदेयं च स्वके च दद्यात्स्निग्धे त्वखण्डे सुसमे प्रशस्ते ॥ ९२ ॥
तच्छालिपिष्टोपरि सन्निधाय यथा न निर्याति न कम्पते च ॥
सर्वं प्रकुर्यात्त्रिगुणप्रमाणं मध्यस्थितस्तस्य च दीपराजः ॥ ९३ ॥
दलेषु शोभार्थमतीव कुर्यान्मनोरथप्रत्युपलब्धये च ॥
घण्टाष्टकं लम्बितपुष्पदाम सवस्त्रशोभान्वितमन्त्र कार्यम् ॥ ९४ ॥
संलिप्य भूमिं त्वथ गोमयेन पुनः सुगन्धेन जलेन लिप्त्वा ॥
कुर्याद्विचित्रं त्वथ मण्डले च दलाष्टकं वै कमलं च रम्यम् ॥ ९५ ॥
ततो जलं शीतलमानयित्वा आपूर्य चाष्टौ कलशांस्तु रम्यान् ॥
निधाय मूर्ध्नि क्रमशो हि धीमान्फलानि मूलानि तथेक्षुकानि ॥ ९६ ॥
मध्वाज्ययुक्ता दधिदुग्धपूर्णा नैर्ऋत्यकोणादथ दक्षिणान्तम् ॥
धर्माय दद्यादथ शङ्कराय दामोदरायाप्यथ वेधसे च ॥९७॥
प्रजापतिभ्यः क्रमशो हि भक्त्या प्रेतेभ्य इन्द्राय तथा पितृभ्यः ॥
होमादिपात्रं तिलचूर्णमेव दद्याद्द्विजानां च सदक्षिणं च ॥ ९८ ॥
गावो हिरण्यं रजतं च वस्त्रं फलानि मूलानि यवाश्च धान्यम्॥
गृहं रथं कुञ्जरमश्वमेव मनोज्ञमन्यं हृदयप्रियं यत् ॥ ९९ ॥
विद्याधिकेभ्यो द्विजसत्तमेभ्यः पौराणिकेभ्यश्च तथा द्विजेभ्यः ॥
एकैकसु प्रीणनमत्र कुर्याद्दीपैर्दलस्थैश्च यमादिकानाम् ॥ 5.1.30.१०० ॥
धर्माय देयस्त्वथ मध्यदीप आज्ञां च लब्ध्वा व्रतदेशिकस्य ॥
नृत्येन गीतेन सुशोभने न युक्तं सुवाद्येन च कारयेच्च ॥ १ ॥
एतत्समग्रं विधिवच्च कुर्यात्सशक्तिमादौ स्वधनं समीक्ष्य ॥
आहूय विप्राञ्छुभभावयुक्तान्वदेच्च धीमान्परया च भक्त्या ॥ २ ॥
दीपान्समग्रान्नव वर्जयित्वा सर्वं नयेयुः स्थितमत्र विप्राः ॥
प्रदक्षिणीकृत्य विसृज्य विप्रांस्ततो भवद्वै स च नक्तभोजी ॥ ३ ॥
एवं कृते नागलोकाद्विशिष्टं सुखं भवेत्प्रेतलोकेस्थितानाम् ॥ ४ ॥
एवं ह्यनरके व्यास दीपदानं करोति यः ॥
तस्यैव यत्फलं प्रोक्तं तदिहैकमनाः शृणु ॥ ५ ॥
विमानैः कामिकैर्दिव्यैरप्सरोगणसेवितैः ॥
उह्यमानो दिवं याति यावच्चन्द्रदिवाकरौ ॥ १०६ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽनरकेश्वरदीपदानमाहात्म्यवर्णनन्नाम त्रिंशोऽध्यायः ॥ ३० ॥ ॥ छ ॥ ॥ ॥