०२९ नरकऽकथनम्

॥ सनत्कुमार उवाच ॥ ॥
तीर्थस्याऽनरकस्यास्य माहात्म्यं शृणु साम्प्रतम् ॥
तीर्थे चानरके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥
न पश्येन्नरकं क्वापि यद्यपि ब्रह्महा भवेत् ॥ १ ॥
॥ व्यास उवाच ॥ ॥
कियन्तो नरकास्तात कस्मिन्स्थाने प्रतिष्ठिताः॥
पतन्ति केन पापेन पापिनस्तेषु दुःखिताः ॥ २ ॥
तत्कथं प्राणिनस्तत्र गच्छन्ति पापकारिणः ॥
एतत्सर्वं समाख्याहि यदि तुष्टोऽसि मे प्रभो ॥ ३ ॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणुष्व नरकान्व्यास तावन्तो यत्र संस्थिताः ॥
न लभ्यन्ते यथा चैते सत्यमेतद्वदामि ते ॥ ४ ॥
पातालनि लयाः सर्वे विख्याता दुःखदाः सदा ॥
पुण्यप्लावेन ते सर्वे तिर्यग्यान्ति स्वकर्मभिः ॥ ५ ॥
रौरवः सूकरो रौद्रस्तालो विनशकस्तथा ॥
तप्तकुम्भस्तु तप्तायो महाज्वालस्तथैव च ॥ ६ ॥
कुम्भीपाकः क्रकचनस्तथा देवातिदारुणः ॥
कृमिभुक्तिश्च रक्ताख्यो लालाभक्षश्च गण्डकः ॥ ७ ॥
अधोमुखश्चास्थिभङ्गो यन्त्रपीडनकस्तथा ॥
सन्दंशो रुधिराङ्गश्च श्वभोज्यश्च कुभोजनः ॥ ८ ॥
इत्येवमादयः सर्वे नरका भृशदारुणाः ॥
यमस्य विषये सन्ति स्तुता हि भयदायिनः ॥९॥
पतन्ति पुरुषास्तेषु पापकर्मरताश्च ये ॥
पतिताश्च प्रपच्यन्ते नराः कर्मानुरूपतः ॥5.1.29.१०॥
यातनाभिर्विचित्राभी रौद्रकर्म क्षयाद्भृशम् ॥
सुगाढं हस्तयोर्बद्धास्तप्तशृङ्खलया नराः ॥ ११ ॥
महावृक्षाग्रशृङ्गेषु लम्ब्यन्ते यमकिङ्करैः ॥
शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ॥ १२ ॥
अग्निवर्णैः शङ्कुभिश्च लोहदण्डैः सकण्टकैः॥
हन्यन्ते किङ्करैर्घोरैः समन्तात्पापकारिणः ॥ १३ ॥
तत्तत्क्षणात्प्रदीप्तेन वह्निना च विशेषतः ॥
समन्ततः प्रक्षिप्यन्ते कृत्ताश्च जर्जरीकृताः ॥ १४ ॥
कूटसाक्षी तथाऽसम्यक्पक्षपातेन यो वदेत् ॥
यश्चान्यदनृतं ब्रूयात्स नरो याति रौरवम् ॥ १५ ॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूचकः ॥
प्रयान्ति नरकांश्चैव तैः संसर्गमुपैति यः ॥ १६ ॥
भ्रूणहा गुरुहन्ता च गोघ्नश्च मुनिसत्तम ॥
यान्त्येते नरकं रौद्रं ये च विश्वासघातकाः ॥ १७ ॥
तप्तलोष्ठेषु पच्यन्ते यस्तु भक्तं परित्यजेत् ॥
स्नुषां सुतां च यो गच्छेन्महा ज्वाले स पात्यते ॥ १८ ॥
कुम्भीपाके प्रयात्येव पादैरूर्ध्वैरधोमुखः ॥
करोति कर्म वै नित्यं यश्च गां प्रतिषेधयेत् ॥ १९ ॥
स्वामिद्रोही च यो रौद्रस्तप्तकुम्भे स पात्यते ॥
देवदूषयिता यश्च वेदविक्रयिकस्तथा ॥ 5.1.29.२० ॥
परस्त्रीगामिनो ये च यान्ति क्रकचने तु ते ॥
चौरोऽतिदारुणे याति मर्यादाभेदकस्तथा ॥ २१ ॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्षे वै रक्ताख्ये च पतन्ति ते ॥ २२ ॥
पितृदेवगुरूणां च सपर्यां न करोति यः ॥
लालाभक्षे स यात्युग्रे कूटकर्म करोति यः ॥ २३ ॥
अन्त्यजेभ्यो ग्रहीता च नरके यात्यधोमुखे ॥
अस्थिभङ्गे प्रयात्येव एको मिष्टान्नभुङ्नरः ॥ २४ ॥
कृतघ्नः पिशुनः क्रूरः कूटमानी विडम्बकः ॥
यन्त्रपीडनके याति परगुह्यप्रकाशकः ॥ २५ ॥
लाक्षामांसरसानां च तिलानां रसकस्य च ॥
विक्रयी ब्राह्मणो याति श्वदंशे नात्र संशयः ॥ २६ ॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ॥ २७ ॥
कर्मणा मनसा वाचा महानद्यां प्रयान्ति ते ॥
गुरूणामवमन्ता च शास्त्रदूषयिता च यः ॥ २८ ॥
असिपत्रे प्रयात्येव तथा पर्वविलङ्घकः ॥
धनयौवनमत्ता ये मर्यादाभेदिनो नराः ॥ २९ ॥
ते यान्ति नरके घोरे कृष्णसूत्रेऽतिदारुणे ॥
असंस्कृतश्च यो विप्रो वृषलीं सेवते तु वै ॥ 5.1.29.३० ॥
वृषलीमिथुनो यश्च पततस्तावुभावपि ॥
उच्छिष्टा ये स्पृशन्तीह गावोऽग्निं जननीं द्विजान् ॥ ३१ ॥
ते पच्यन्ते कुभोज्ये च मित्र द्वेषी विशेषतः ॥
पङ्क्तिभेदे दिवास्वप्रे ये नरोऽब्रह्मचारिणः ॥ ३२ ॥
पुत्रैरध्यापिता ये तै ते पतन्ति श्वभोजने ॥
एते चान्ये च नरकाः शतशोऽ थ सहस्रशः ॥ ३३ ॥
तत्र दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥
नृणां स्वर्गाश्च यावन्तस्तावन्तो निरयास्तथा ॥ ३४ ॥
पापं कृत्वा तु बहुलं प्रायश्चित्तपराङ्मुखाः ॥
कृते पापे च वै तापो यस्य पुंसः प्रजायते ॥ ३५ ॥
प्रायश्चित्तं तु तस्यैकं शिवसंस्मरणं परम् ॥
तस्मादहर्निशं शम्भुं संस्मरन्पुरुषोत्तमः ॥ ३६ ॥
न याति नरकं शुद्धः सङ्क्षीणाखिलपातकः ॥
कार्तिकस्यासिते पक्षे कृष्णा या च चतुर्दशी ॥
तस्यां दीपः प्रदातव्यो देवदेवस्य चाग्रतः ॥ ३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरकऽकथनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ ॥ छ ॥