०२८ सोमवतीतीर्थमाहात्म्यवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अथान्यं सम्प्रवक्ष्यामि देवं त्रैलोक्यविश्रुतम्॥
चन्द्रादित्यमिति ख्यातं चन्द्रादित्यार्चितं पुरा ॥१॥
यस्तं समर्चयेद्देवं सुरासुरनमस्कृतम् ॥
गन्धपुपोस्तथा धूपैर्नैवेद्यैविविधैस्तथा ॥ २ ॥
चन्द्रादित्यादिसालोक्यं प्रयाति सर्वकामिकम् ॥
विमानं सूर्यसङ्काशैर्यावच्चन्द्रदिवाकरौ ॥ ३ ॥ ॥
इति चन्द्रादित्यमाहात्म्यम् ॥
॥ सनत्कुमार उवाच ॥ ॥
करभेशं ततो गच्छेद्देवदेवं महेश्वरम् ॥
यस्य दर्शनमात्रेण कुयोनौ नैव जायते ॥ ४ ॥
॥ व्यास उवाच ॥ ॥
करभेशमहं देवं श्रोतुमिच्छामि तत्त्वतः ॥
कथं देवः समुत्पन्नः करभेशेतिसञ्ज्ञितः ॥ ५ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुरा देवगणैः सार्धं देवदेवो महेश्वरः ॥
वनेऽस्मिन्क्रीडयामास परमाह्लादसंयुतः ॥ ६ ॥
क्रीडन्बहुतिथे काले शङ्करः करभोऽभवत् ॥
ज्ञायते च स नो देवैः शङ्करः करभाकृतिः ॥ ७ ॥
अन्वेषयन्ति ते देवास्ततो विस्मयसंयुताः ॥
न पश्यन्ति यदा तत्र तं देवं शूलपाणिनम् ॥ ८ ॥
देवैः पृष्टस्ततो ब्रह्मा क्वास्ति देवो महेश्वरः ॥
ध्यात्वाथ ब्रह्मणा दृष्टो गुप्तो योगप्रभुर्हरः ॥ ९ ॥
देवैः सार्धं ततो ब्रह्मा पप्रच्छ गणनायकम् ॥
न दृष्टः शङ्करोऽस्माभिर्गतः कुत्र विनायक ॥ 5.1.28.१० ॥
कथयस्व नमस्तुभ्यं दास्यामो लड्डुकान्विभो ॥
एवमुक्तस्तदा हृष्टः प्रोवाच गणनायकः ॥ ११ ॥
करभोऽयं महाऽदेवो दृश्यते विबुधो त्तमाः ॥
श्रुत्वा चैवं वचो देवाः प्रहृष्टाः करभं ययुः ॥ १२ ॥
ज्ञातोऽस्माभिर्महादेव जल्पन्त इति ते स्वयम् ॥
गत्वा चैव ततः सर्व चतुर्दिक्षु स्थिताः स्वयम् ॥१३॥
विचिन्त्येति कथं ज्ञातः शङ्करो विस्मयं गतः ॥
त्यक्त्वाथ कारभं रूपं देवदेवो महेश्वरः ॥ १४ ॥
लिङ्गमुत्पादयामास दिव्यं यत्करभे श्वरम् ॥
ते दृष्ट्वाऽथ सुराः सर्वे साष्टाङ्गप्रणतिस्थिताः ॥ १५ ॥
ततःप्रभृति विख्यातः शङ्करः करभेश्वरः ॥
कोटितीर्थादुत्तरस्मिन्स्थापयामास विघ्नपम् ॥ १६ ॥
स्वनाम्ना प्रथितं चक्रे करभं चातिपूजितम् ॥
स्नात्वा तत्र शुचिर्भूत्वा यस्तमर्चयते शिवम् ॥ १७ ॥
गन्धपुष्पैश्च नैवेद्यैः शृणु तेषां च यत्फलम् ॥
सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥ १८ ॥
ततोऽधिकं स लभते नात्र कार्या विचारणा ॥
महाकालं ततो गच्छन्सम्पूर्णं फलमाप्नुयात् ॥ १९ ॥
ततः प्रसिद्धो लोकेऽस्मिन्नृद्धिदः करभेश्वरः ॥ 5.1.28.२० ॥ ॥
इति करभेश्वरमाहात्म्यम् ॥ ॥ छ ॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
लइडुकैश्च ततो देवैर्विघ्ननाथः समर्चितः ॥
तदाप्रभृति विख्यातो विश्वेशो लड्डुकप्रियः ॥ २१ ॥
यः समर्चयते भक्त्या तस्य विघ्नो न जायते ॥
तस्मै ददाति सन्तुष्टः सर्वान्कामान्विनायकः ॥ २२ ॥
निराहारश्चतुर्थ्यां च स्नात्वा शिप्रां विशेषतः ॥
रक्ताम्बरधरोभूत्वा रक्तपुष्पैर्विनायकम् ॥ २३ ॥
रक्तचन्दनतोयेन मन्त्रैः स्नपनपूर्वकम् ॥
चन्दनेनापि रक्तेन तं विलेप्य प्रपूजयेत् ॥ २४ ॥
धूपं दद्यात्तथा दिव्यं सुगन्धं लड्डुकप्रिये ॥
नैवेद्ये लड्डुका देया आज्यखण्डपरिप्लुताः ॥ २५ ॥
न तस्य जायते व्याधिर्भयं विघ्नं कदाचन ॥
लभते च सदाभीष्टं मृतः शिवपुरं व्रजेत्॥ २६ ॥
अवतीर्णः पुनर्लोके जायते वसुधाधिपः ॥
मतिमान्पुत्रवाञ्छूरो नात्र कार्या विचारणा ॥ २७ ॥ ॥
इति गणेशमा हात्म्यम् ॥
॥ सनत्कुमार उवाच ॥ ॥
कुसुमेशं सुरद्वारे सुरासुरनमस्कृतम् ॥
श्रद्धया पूजयेद्यस्तु शिवलोके स मोदते ॥ २८ ॥
जयेश्वरं तु यः पश्येद्देवदेवं महेश्वरम् ॥
जयी स्यात्सर्वकार्येषु शिवलोकं स गच्छति ॥ २९ ॥
शिवद्वारे शिवं लिङ्गमर्चयेन्मानवो यदि ॥
त्रिदिवं याति यानेन गाणपत्यं च विन्दति ॥ 5.1.28.३० ॥
अथान्यं सम्प्रवक्ष्यामि मार्कण्डेश्वरमुत्तमम् ॥
मार्कण्डेयो मुनिर्यत्र तप्तवान्सुमहत्तपः ॥ ३१ ॥
दृष्ट्वा तं शङ्करं देवं वाजपेयफलं लभेत् ॥
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः ॥ ३२ ॥
शृणु व्यास महास्थानं यस्यां पुर्यामनुत्तमम् ॥
यत्र तिष्ठति सा देवी ब्रह्माणी हंसवाहिनी ॥ ३३ ॥
भक्तानां पूरयेदाशां पुत्रवत्परिपालयेत् ॥
यथा माता तथा देवी दृष्टा शान्तिपरैरपि ॥ ३४ ॥
अर्चिता ब्रह्मणा सा तु स्तुता देवी सुरोत्तमैः ॥
अर्चयेद्गन्धृपुष्पैश्च नैवेद्यैः सर्वसिद्धिदाम् ॥
अपि या ब्रह्मणः पूर्वमभूदेव सुसिद्धिदा ॥ ३५ ॥
यः स्नात्वा ब्रह्मसरसि पश्ये द्ब्रह्मेश्वरं शिवम्॥
भवबन्धविनिर्मुक्तो ब्रह्मलोके स मोदते ॥ ३६ ॥
अथान्यां सम्प्रवक्ष्यामि यज्ञवापीमनुत्तमाम् ॥
यत्र वै ब्रह्मणा पूर्वमिष्टो यज्ञः सदक्षिणः ॥ ३७ ॥
यज्ञार्थं यत्कृतं कुण्डं यज्ञवापी च सा स्मृता ॥
पशुश्च पतितो यस्मात्तस्मात्पशुपतिः स्मृतः ॥ ३८ ॥
तस्यां स्नात्वा शुचिर्भूत्वा पश्येत्पशुपतिं तु यः ॥
उद्धरेत्स पितॄन्व्यास पशुयोनिगतानपि ॥ ३९ ॥
सुवर्णमणिमुक्ताद्यैर्विमानैः सर्वकामगैः ॥
याति रुद्रपुरं दिव्यं यत्र देवो महेश्वरः ॥ 5.1.28.४० ॥
रूपकुण्डे नरः स्नात्वा सुरूपो जायतेनरः ॥
स्वर्गे स देवगन्धर्वैः स्पृहणीयवपुर्भवेत् ॥ ४१ ॥
कुण्डे स्नात्वाप्यनङ्गे यः शुचिर्भूत्वा समाहितः ॥
पश्येच्च देवदेवेशमनङ्गेनार्चितं पुरा ॥
कामं स लभतेऽभीष्टं मृतो याति शिवालयम् ॥ ४२ ॥
आषाढे तु सिताष्टम्यां जागरं यस्तु कारयेत् ॥
केदारे यत्फलं प्रोक्तं तत्समानमवाप्नुयात् ॥ ४३ ॥
करीकुण्डे नरः स्नात्वा विश्वरूपं तु योऽर्चयेत् ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ४४ ॥
अजागन्धे नरः स्नात्वा दृष्ट्वा ब्रह्मेश्वरं शिवम् ॥
ब्रह्महत्यासमं पापं तत्क्षणात्संव्यपोहति ॥ ४५ ॥
चक्रतीर्थे नरः स्नात्वा चक्र स्वामिनमर्चयेत् ॥
जायते स नरो व्यास चक्रवर्ती सदा भुवि ॥ ४६.॥
सिद्धेश्वरं यदा पश्येत्स्नात्वा सुविधिपूर्वकम् ॥
कामिकेन विमानेन रुद्रलोकं स गच्छति ॥ ४७ ॥ ॥
इति यज्ञवापीमाहात्म्यम् ॥ ॥
सोमवत्यां नरः स्नात्वा यः सोमेश्वरमर्चयेत् ॥
सोमवन्निर्मलो भूत्वा सोमलोके स मोदते ॥ ४८ ॥
॥ व्यास उवाच ॥ ॥
तीर्थं सोमवतीनाम लिङ्गं सोमेश्वरं तथा ॥
अभूदेतत्कथं नाम श्रोतुमिच्छामि तत्त्वतः ॥ ४९ ॥
॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास यथोत्पन्नं सोमतीर्थं सुशोभनम् ॥
सोमेश्वरं यथा लिङ्गमेतत्सत्यं वदामि ते ॥5.1.28.५०॥
यो देवो भगवान्सोमो लोकस्याप्यायनं परम् ॥
आसीत्तस्य पुरा व्यास पिता विप्रो महातपाः ॥ ५१ ॥
अवन्त्यां च महाभागो योऽत्रिर्नामा तपोनिधिः ॥
वर्षाणां त्रीणि दिव्यानि सहस्राणि तपो महत् ॥ ५२ ॥ अत्रि शब्दोपरि टिप्पणी
ऊर्ध्वबाहुः स वै तेपे ब्रह्मध्यानपरायणः ॥
ऊर्ध्वं गतं ततो व्यास ब्राह्म्यं तेजो महात्मनः ॥ ५३ ॥
नेत्राभ्यां तेन सुस्राव भासयच्च दिशो दश ॥
तेजस्तत्सहसा दृष्ट्वा दिशो दशोद्धतं स्वतः ॥ ५४ ॥
दिशश्च तद्यदा व्यास सर्वा धर्तुं न चाशकन् ॥
असुस्रवत्तदा दिग्भ्यस्तद्धि तेजोतिदुःसहम् ॥ ५५ ॥
लोकांश्च भासयत्सर्वान्धरण्यां वै पपात ह ॥
सोमो जातस्ततस्तेन शीतांशुश्च जनप्रियः ॥ ५६ ॥
वारि सोमात्समुत्पन्नं व्यास तेनैव तेजसा ॥
प्रविष्टा सा नदी शिप्राममृतेनातिपूरिता ॥ ५७ ॥
ततः सोमवती शिप्रा विख्याता सर्वसि द्धिदा ॥
सोमयुक्तां नदीं शिप्रां दृष्ट्वा पापं व्यपोहति ॥ ५८ ॥
ख्याता च त्रिषु लोकेषु पापिनां पुण्यदायिनी ॥
ब्रह्महा वा सुरापो वा स्तेयी वा गुरुतल्पगः ॥ ५९ ॥
चत्वारोऽप्यत्र पापेन मुच्यन्ते दर्शनाद्ध्रुवम् ॥
अमासोमौ यदा युक्तौ सोमवत्यां तदा मुने ॥ 5.1.28.६० ॥
स्नानं दानं च यो धीमाञ्जपं होमं समाचरेत् ॥
अक्षयं तस्य तत्सर्वं यावच्चन्द्रदिवाकरौ ॥ ६१ ॥
तिलोदकप्रदानेन पिण्डदानेन कारिता ॥
अकाले कालिकी तृप्तिः पितॄणां च यतो मता ॥ ६२ ॥
सर्वत्र दुर्लभा सिप्रा सोमं सोमग्रहस्तथा ॥
सोमेश्वरः सोमवारः सकाराः पञ्च दुर्लभाः ॥ ६३ ॥
शिप्रासोमजलं व्यास कोटितीर्थफलप्रदम् ॥
अमासोमसमायोगे पितृतीर्थसमं स्मृतम् ॥ ६४ ॥
अमायां सोमवारश्चेद्व्यतीपातो यदा भवेत् ॥
शतगुणं गयायास्तु सोमवत्यां प्रकीर्तितम् ॥ ६५ ॥
एवं सोमवतीतीर्थं जातमत्र महामुने ॥
सोमं दृष्ट्वाथ पतितं क्षितौ ब्रह्मा जगद्गुरुः ॥ ६६ ॥
रथे तं स्थापयामास लोकानां हितकाम्यया ॥
सं तु वेदमयो व्यास धर्माक्षः सत्यसङ्ग्रहः ॥ ६७ ॥
युक्तो वाजिसहस्रेण ब्रह्मणा प्रेरितस्तदा ॥
दृष्ट्वा सोमं ततो देवा रथे तं ब्रह्मणा युतम् ॥ ६८ ॥
तुष्टुवुः सर्वभावेन हृष्टाः सर्वे समाहिताः ॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वरम् ॥ ६९ ॥
आप्यायमानं त्रील्ँलोकान्पपात धरणीतले ॥
ब्रह्मा तेन रथेनाथ सागरान्तां वसुन्धराम् ॥ 5.1.28.७० ॥
त्रिःसप्तकृत्वोऽतिशयाच्चकाराब्धिप्रदक्षिणम् ॥
तस्य तत्पतितं तेजो व्यास सोमस्य शीतलम् ॥ ७१॥
तदेवौषधयो दिव्या जाता भुवि सुनिर्मलाः ॥
याभिर्धार्यो ह्ययं लोकः प्रजाश्चैव चतुर्विधाः ॥ ७२ ॥
तुष्टोऽथ भगवान्सोमो जगतेः सर्वदा मुने ॥
दशवर्षसहस्राणि तेपेऽतिदुःसहं तपः ॥ ७३ ॥
ततस्तस्मै ददौ वाक्यं ब्रह्मा लोकपितामहः ॥
बीजौषधानि विप्राणां सोमो राजा बभूव ह ॥ ७४ ॥
सप्तविंशतिं सोमाय दाक्षायणीर्महाव्रताः ॥
पत्नीः प्राचेतसो दक्षो ददौ नक्षत्रसञ्ज्ञकाः ॥ ७५ ॥
स तत्प्राप्य महद्राज्यं सोमो भार्यायुतस्तदा ॥
समारेभे राजसूयं सहस्रशतदक्षिणम् ॥ ७६ ॥
होता च भगवानत्रिरध्वर्युर्भगवान्भृगुः ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥ ७७ ॥
सदस्यो भगवान्विष्णुः सनकादिमुखैर्युतः ॥
ददौ स दक्षिणां सोमस्त्रील्ँलोकान्सुसमाहितः ॥ ७८ ॥
सिनीवाली कुहूश्चैव धृतिः पुष्टिः प्रभा वसुः ॥
कीर्तिर्धृतिश्च लक्ष्मीस्तं देव्यो दिव्याः सिषेविरे ॥ ७९ ॥
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥
अतीव राजते चन्द्रो दशधा भासयन्दिशः ॥ 5.1.28.८० ॥
तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम् ॥
विबभ्राम मतिर्व्यास विनयाद्यमपास्य च ॥ ८१ ॥
बृहस्पतेस्तदा भार्यां तारानाम्नीं यशस्विनीम् ॥
जहार तमसा साध्वीमवमान्यां गिरःसुतम् ॥ ८२ ॥
वाच्यमानस्तदा सोमो देवदेवर्षिभिस्तथा ॥
नैव व्यसर्जयत्तारां तस्मा आङ्गिरसाय च ॥ ८३ ॥
बृहस्पतेस्ततः पक्षं शक्रो जग्राह कोपतः ॥
स हि शिष्यो महातेजा गुरोः पूर्वं वृहस्पतेः ॥ ८४ ॥
ततो युद्धमभूत्तत्र सुघोरं शक्रसोमयोः ॥
देवानां दानवानां च व्यास त्रासकरं महत् ॥ ८५ ॥
सर्वे भीतास्ततो देवा ब्रह्माणं शरणं गताः ॥
अग्रतो ब्रह्मणो युद्धं कथितं शक्रसोमयोः ॥ ८६ ॥
देवानां वचनं श्रुत्वा सार्द्धं देवैः पितामहः ॥
आगत्य युद्धभूमिं सोऽवारयद्देवदानवान्॥ ८७ ॥
वारितास्ते स्थितास्तत्र युद्धं त्यक्त्वा सुरासुराः ॥
तारामादाय स तदा ददा वाङ्गिरसे द्विजे ॥ ८८ ॥
तामन्तःप्रसवां दृष्ट्वा प्राह भार्यां बृहस्पतिः ॥
मदीयायां न ते योन्यां गर्भो धार्यः कथञ्चन ॥ ८९ ॥
उत्ससर्ज ततस्तारा कुमारं देवरूपिणम् ॥
इषीकास्त्रं समासाद्य ज्वलन्तमिव पावकम्॥ 5.1.28.९० ॥
स तेजो जातमात्रोऽपि देवानामाक्षिपच्छिशुः ॥
ततः संशयमापन्ना ऊचुस्तारां दिवौकसः ॥ ९१ ॥
कस्यायं ब्रूहि सुभगे सोमस्याथ बृहस्पतेः ॥
नाचचक्षे तु देवानां वेधाः पप्रच्छ तां पुनः ॥ ९२ ॥
यदत्र सत्यं तद्ब्रूहि तारे कस्य सुतो ह्ययम् ॥
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं विभुम् ॥ ९३ ॥
सोमस्येति रहः सोऽयं कुमारो देवसन्निभः ॥
सोमस्य तं सुतं ज्ञात्वा परिष्वज्य पितामहः ॥ ९४ ॥
बुध इत्यकरोन्नाम तस्य पुत्रस्य वै तदा ॥
परदारापहाराच्च यत्पापं तेन दुःसहम् ॥ ९५ ॥
तेन सोमोऽभवत्कुष्ठी क्षयरोगयुतस्तदा ॥
ततो राज्ये स्वकं पुत्रं स्थापयित्वा यथाविधि ॥ ९६ ॥
अवन्तीमाजगामाशु सोमो देवदिदृक्षया ॥
सोमाहे सोमवत्यां च अमायोगे जितेन्द्रियः ॥ ९७ ॥
स्नात्वा सम्पूजयामास सोमः सोमेश्वरं ततः ॥
तस्य भक्त्या च सन्तुष्टः प्राह सोमं महे श्वरः ॥ ९८ ॥
मत्प्रसादाद्वपुः कान्तं तव सोम भविष्यति ॥
सोमेश्वरमिति ख्यातं भुक्तिप्रदायकम् ॥ ९९ ॥
एवं व्यास तु तत्तीर्थं लिङ्गं चैवाति दुर्लभम् ॥
कथितं तथ्यभावेन मया तुष्टेन साम्प्रतम् ॥ 5.1.28.१०० ॥
श्रावणं प्राप्य यो मासं सोमनाथं जितेन्द्रियः ॥
नित्यं पश्येन्नरो व्यास तस्य पुण्यफलं शृणु ॥ १०१ ॥
सौराष्ट्रे सोमनाथस्य पूजायाः प्रत्यहं फलम् ॥
लभते स नरो व्यास नात्र कार्या विचारणा ॥ १०२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सोमवतीतीर्थमाहात्म्यवर्णनन्नामाष्टाविंशो ऽध्यायः ॥ २८ ॥ ॥ छ ॥