॥ सनत्कुमार उवाच ॥ ॥
योऽवन्त्यामङ्कपादाख्ये पश्येद्रामजनार्दनौ ॥
ययोर्दर्शनमात्रेण यमलोकं न पश्यति ॥ १ ॥
॥ व्यास उवाच ॥ ॥
कथं तावङ्कपादाख्ये यातावत्र महामुने ॥
न पश्येद्यमलोकं स यद्यपि ब्रह्महा भवेत् ॥ २ ॥
॥ सनत्कुमार उवाच ॥ ॥
भारावतारणार्थाय देवौ रामजनार्दनौ ॥
अवतीर्णौ यदोर्वंशे दिव्यरूपौ महाद्युतौ ॥ ३ ॥
कंसं हत्वा सचाणूरमुग्रसेनं नराधिपम् ॥
अभिषिच्य स्वयं राज्ये यदुसिम्ह उवाच तम् ॥ ४ ॥
किं कार्यं ते मया ब्रूहि कर्तव्यं ते सुते हते ॥
एवमुक्तः स राजा वां उग्रसेनोऽब्रवीदिदम्॥ ५ ॥
सर्वं सम्पत्स्यते कृष्ण भवतो हि न दुर्लभम् ॥
विज्ञाताखिलविज्ञानौ भवितारावुभावपि ॥ ६ ॥
गच्छेतमुज्जयिन्यां वै कृतविद्यौ भविष्यथ॥
ततः सान्दीपनिं विप्रं जग्मतू रामकेशवौ॥७॥
कण्ठस्थांश्चक्रतुर्वेदानाचारमखिलं च तौ॥
सरहस्यं धनुर्वेदं ससंहारं तथैव च ॥८॥
अहोरात्रैश्चतुःषष्ट्या तदद्भुतमभूद्द्विज ॥
सान्दीपनिरसम्भाव्यं तयोः कर्मातिमानुषम् ॥ ९ ॥
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्र दिवाकरौ॥
ततः किञ्चित्स नोवाच स्नातुं तीर्थमथाययौ ॥5.1.27.१०॥
शिष्यैस्तु सहितो विप्रो महाकालवनेऽविशत् ॥
शिष्यैः सह प्रविष्टौ द्वौ तदा तौ रामकेशवौ।११॥
वन्दमानौ महाकालं स तं केशवमव्रवीत्॥
त्वया नाथेन देवानां मानुष्यत्वे हि तिष्ठता ॥ १२॥
सुखमासीच्च साधूनामज्ञानानां च सर्वदा ॥
जने पीडाकरा ये तु सदा वा बलदर्पिताः ॥१३॥
युवाभ्यां ते हताः सर्वे कंसप्रमुखतो नृपाः ।
मुनिसिद्धसुरादीनां स्थितिः कार्या त्वयाऽनघ ॥१४॥
करिष्यामि तमित्युक्त्वा स नमस्य ततो ययौ ॥
दृष्ट्वा सान्दीपनिं शिष्या ऊचुरेवं दिनेदिने ॥ १५ ॥
कस्य न श्रद्दधे तेषां वचस्त्वत्यद्भुतं यतः ॥
स्वयं ययौ ततो द्रष्टुमाश्चर्यं शिष्यभाषितम् ॥ १६ ॥
ततस्तत्रोत्थितः शब्दः संश्लेषे च तथा तयोः॥
तावागतौ गृहं तत्र गुरुर्वचनमब्रवीत् ॥ १७ ॥
न वै ज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ ॥
ततः सान्दीपनिं कृष्णः कृतकृत्योऽब्रवीद्वचः ॥ १८ ॥
गुर्वर्थं किं ददामीति सह रामेण हर्षितः ॥
तच्छुत्वा वचनं हृद्यं गुरुः प्रोवाच हर्षितः ॥ १९ ॥
पुत्रमिच्छाम्यहं त्वत्तो यो मृतो लवणाम्भसि ॥
पुत्र एको हि मे जातः स चापि तिमिना हृतः ॥ 5.1.27.२० ॥
प्रभासे तीर्थयात्रायां त्वमेव तमिहानय ॥
तथेति चाब्रवीत्कृष्णो रामस्यानुमते गतः ॥ २१ ॥
तं समुद्र उवाचेदं दैत्यः पञ्चजनो महान्॥
तिमि रूपेण तं बालं ग्रस्तवान्मयि संस्थितः ॥ २२ ॥
ततः पञ्चजनं हत्वा ग्राहरूपं महाबलम् ॥
तन्मध्यस्थं च जग्राह शङ्खं ग्रस्तो हि यः पुरा ॥ २३ ॥
जलेश्वरगृहात्तेन ग्राहेणातीव लीलया ॥
तस्योदरे यदा बालं नाप्तवांस्तु जनार्दनः ॥ २४ ॥
यमालयगतं मत्वा तदा वरुणमब्रवीत् ॥
भगवान्यादसामीश रथो मे दीयतां महान्॥२५॥
पुराजिरे हता दैत्या दानवा बलदर्पिताः॥
मया येन रथेनाद्य मह्यं स दीयतां रथः॥२६॥
न्यासभूतो रथो यस्ते विधृतो निहतारिणा॥
मया धर्मं पुरस्कृ्त्य स दीयतामपाम्पते॥२७॥
येनाहवे प्रेतराजं जित्वा पश्यामि बालकम्॥
एतच्छ्रुत्वा प्रहृष्टात्मा ज्ञात्वा कार्यार्थिनं हरिम् ॥
ददौ तं रथमक्षोभ्यं रणे तस्मै सुरासुरैः ॥ २८ ॥
ततो हरिः समालोक्य रथं रत्नपरिष्कृतम् ॥
द्वीपिचर्मपरीधानं वैयाघ्रपरिवारितम् ॥ २९ ॥
नाना चित्रविचित्राङ्गं गरुडध्वजराजितम् ॥
संयुक्तं शैब्यसुग्रीवपुष्पदन्तबलाहकैः ॥ 5.1.27.३० ॥
अजेयं देवदेवेन्द्रदानवासुरराक्षसैः ॥
अनेकायुधसम्पूर्णं मणिविद्रुमभूषितम् ॥३१॥
सहस्रसूर्यप्रतिमं चारुवक्त्रचतुर्युगम्॥
किङ्किणीशतशोभाढ्यं घण्टाचामरचं द्रिकम् ॥ ३२ ॥
संवर्ताकारविषमं खगेन्द्रवरकेतनम् ॥
दृष्ट्वा कृष्णः सरामस्तु मुमुदे वीतविस्मयात् ॥ ३३ ॥
प्रदक्षिणमुपाकृत्य देवताभ्यः प्रणम्य च ॥
आरुरोह रथं विष्णुर्विमानं साग्रयोजनम् ॥ ३४ ॥
ततो जगाम त्वरितो जनार्दनो जगन्निवासो यमलोकमाश्रिताम् ॥
दिशं सहस्रैः किरणै र्वृतां पुरीं दध्मौ च शङ्खं परिगृह्य चाच्युतः ॥ ३५ ॥
तत्र प्रध्यापयामास शङ्खं शार्ङ्गधनुर्धरः ॥
तेन शब्देन वित्रस्ताः कृतान्तालयवासिनः ॥। ३६ ॥
नरकान्तर्गता मर्त्याः पापाचारपरायणाः ॥
सुखमापुः प्रसन्नाश्च वह्नयः कृष्णदर्शनात् ॥ ३७॥
शस्त्राणि कुण्ठतां प्रापुर्यन्त्राणि विविधानि च ॥
विदीर्णानि तदा चासुर्देवदेवस्य दर्शनात् ॥ ३८ ॥
असिपत्रवनन्नाम शीर्णपर्णमजायत ॥
रौरवनाम नरकमभैरवमभूत्तदा ॥ ३९ ॥
अभैरवं भैरवाख्यं कुम्भीपाकमवाचिकम् ॥
शृङ्गाटं शृङ्गसदृशं लोहसूच्यप्यसूचिका ॥ 5.1.27.४० ॥
दुस्तरा सुतरा जाता नदी वैतरणी नृणाम् ॥
नरकान्ते तदा जाते गते विश्वेश्वरे विभौ । ४१ ॥
पापक्षयात्ततः सर्वे ते मुक्ता नारका नराः ॥
पदमव्ययमासाद्य दृष्ट्वा विष्णुं तमोऽपहम् ॥ ४२ ॥
विमानेषु सहस्रेषु ह्यारूढास्ते समन्ततः ॥
समीक्ष्य पुण्डरीकाक्षं मुक्तास्ते सर्वपातकात् ॥ ४३ ॥
ततः शून्यं मुने जातं सर्वं निरयमण्डलम् ॥
दर्शनात्तस्य देवस्य विष्णोर्विश्वस्वरूपिणः ॥ ४४ ॥
ततो दूताः कृतान्तस्य कृष्णं च युद्धकारिणम् ॥
वारयामासुरत्युग्रा विशन्तं नरकान्प्रति ॥ ४५ ॥ ॥
॥ किङ्करा ऊचुः ॥ ॥
मा वीरानेन मार्गेण रथमानय मानवन् ॥
प्रयान्त्यधोगतिं पापात्परस्त्रीस्वापहारकाः ॥ ४६ ॥
यमादिष्टा नराः पापा येऽमोच्या वर्षकोटिभिः ॥
दृष्ट्वा त एव सद्यस्त्वां गताः स्वर्गमपावृताः ॥ ४७ ॥
एतच्छ्रुत्वा वचस्तेषां कृपया पीडितो भृशम् ॥
पुनः प्रोवाच मधुहा मोक्षायाहमुपागतः ॥ ४८ ॥
सर्वेषां स्वर्गदाताहं यमलोकनिवारकः ॥
अञ्जसा यमराड्दूता यमायाख्यात मे वचः ॥ ४९ ॥
एतच्छ्रुत्वा वचो दूताः सत्वरा यममागताः ॥
सर्वमाचक्षिरे वृत्तं यथा नारकमोक्षणम् ॥ 5.1.27.५० ॥
ततो यमो रुषाविष्टः प्राह तान्यमकिङ्करान् ॥
यः कश्चिदागतो मर्त्यो मर्यादाभेदकृन्नरः ॥ ५१ ॥
तं गत्वा वारयध्वं वै गृहीत्वानीयतामिति ॥
अयं नरान्तको यातु किङ्करः सह किङ्करैः ॥ ५२ ॥
एवमुक्तो यमेनाथ किङ्करः स नरान्तकः ॥
गत्वा तं वारयामास वाग्भिरुग्राभिरच्युतम् ॥ ५३ ॥
यदा न वारितस्तस्थौ तदा क्रुद्धो नरान्तकः ॥
तदा शरैरतीवोग्रैस्ताडितस्तेन केशवः ॥ ५४ ॥
बलदेवोपि समरे ताडितो विविधैः शरैः ॥
तावुभौ ताडितौ घोरैः समन्ताद्यमकिङ्करैः ॥ ५५ ॥
आदाय धनुषी दिव्ये जघ्नतुर्यमकिङ्करान्॥
बाणैरनेकसाहस्रैः क्रुद्धौ रामजनादर्नौ ॥ ५६ ॥
नरान्तकोऽपि समरे बलेन बलिनार्दितः ॥
पपात गदया भिन्नो मूर्ध्नि निर्यातलोचनः ॥ ५७ ॥
ततो नरान्तके वीरे पतिते यमकिङ्करे ॥
किङ्कराणामभूत्सैन्यमार्तं रणपराङ्मुखम् ॥ ५८ ॥
रामकृष्णाभ्यां ते दूता हन्यमाना भयातुराः ॥
यमाय कथयामासुर्नरान्तकस्तु पातितः ॥ ५९ ॥
ततो यमो ययौ क्रुद्धः समन्तात्किङ्करैर्वृतः ॥
प्राह ततो यमः क्रुद्धो नो जितोहं पुरा परैः ॥5.1.27.६० ॥
ततो वादित्रनिर्घोषैस्तुमुलानकगोमुखैः ॥
नानाडमरुकैश्चैव चित्रगुप्तैश्च गच्छति ॥ ६१ ॥
देवा विद्याधराः सिद्धा दृष्ट्वा यान्तं महाबलम् ॥
कृतान्तस्य रणेऽक्षोभ्यं कामपालं जगत्पतिम् ॥ ६२ ॥
ततस्ते किङ्कराः सर्वे चित्रगुप्तेन नोदिताः॥
रथमावृत्य बाणौघैः प्रविव्यधुः समन्ततः ॥ ६३ ॥
बलं च केशवं सङ्ख्ये जघ्नतुस्तावुभावपि ॥
रणे च विविधैर्बाणैश्चित्रगुप्तस्य पश्यतः ॥ ६४ ॥
विदार्य च सहस्राणि किङ्कराणां समन्ततः ॥
कृतान्तानीकिनीमध्ये कृतान्त इव केशवः ॥
चचार रणदुर्धर्षः कामपालेन पालितः ॥ ६५ ॥
ततश्चित्रगुप्तो रणे किङ्कराद्यं विदीर्णं निरीक्ष्यार्तनादं चकार ॥ ६६ ॥
शरैः पञ्चभिः कृष्णमायान्तमाजौ जघानाष्टभिर्वक्त्रदेशे स भिन्नः ॥
शरार्तो रथोपस्थ आसीत्तदार्तस्तमालोक्य भिन्नं रणे नष्टसञ्ज्ञम् ॥ ६७ ॥
रथं स्वं समादाय यातः कृतान्तस्ततश्चित्रगुप्ते शरार्ते प्रसुप्ते ॥
रणे कीर्तिलुप्ते भयक्षोभयुक्तः स्वसैन्यैश्च युक्तो भयार्तो निषण्णः ॥ ६८ ॥
प्रधानाश्च भग्ना विचित्राश्च भग्रास्ततश्चित्रगुप्तं निशम्याथ भग्नम् ॥
स कालस्तमायान्तमालोक्य दूराद्वरसैन्यमादाय देवारि शत्रुम् ॥ ६९ ॥
विनाशाय युध्यद्युगान्ते प्रजानां यथा वाडवो ज्वालवृद्धः प्रवृत्तः ॥
तमायान्तमालोक्य कालं करालं शरैरावृणोदन्तकं कालकल्पैः ॥ 5.1.27.७० ॥
स कालः करालं समादाय दण्डं मुमोचाच्युते पश्यतां देवतानाम् ॥
ततः कालदण्डः प्रजानां विनाशो हरेः सन्निकाशं समभ्याजगाम ॥ ७१ ॥
ततो देवगन्धर्वयक्षा मुनीन्द्राः परं विस्मयं प्रापुरावीक्ष्य रामम् ॥
ज्वलन्तं च जग्राह कालस्य दण्डं स रामो वरलीलयाऽनन्तमूर्तिः ॥ ७२ ॥
गृहीते बलेनाहवे कालदण्डे मोक्तुकामे पुनः कालनाशाय वै।
तूर्णमभ्येत्य तत्रान्तरे रणे वारयामास कृष्णं तदा॥७३॥
मा मुञ्चेत्यब्रवीद्वेधाः कालं कालायुधं बल॥
त्वया बलवता वीर चराचरधरा धरा॥७४॥
धार्यते शिरसा देव संसारे नास्ति ते समः ॥
त्वया विश्वपतिर्विष्णुरुत्सङ्गेन सदोह्यते॥
कोऽन्योस्ति त्वत्समो राम यो जगद्दहने क्षमः ॥
जगत्स्रष्टा जगद्गोप्ता जगद्धर्ता जगत्पतिः ॥७६॥
पाल्यते यत्त्वया सोपि विष्णुर्विश्वैकनायकः ॥
कस्ते स्तुतिकरोऽस्तीह को गुणान्वक्तुमर्हति ॥ ७७ ॥
ततो वयं त्वदङ्कस्थविष्णुनाभिभवा यतः ॥
इत्युक्त्वा बलदेवं च वासुदेवं पुनर्वचः ॥ ७८ ॥
उवाच चतुरास्यस्तु स्तुतिश्च वृतः सुरैः ॥
कृष्णकृष्ण करालस्य कालस्यास्य कृपां कुरु ॥ ७९ ॥
यतो भवन्तमायान्तं विष्णुं विश्वैकनायकम् ॥
वेत्ति नायं जगन्नाथं नरकार्णवतारकम् ॥ 5.1.27.८० ॥
त्वया वै भगवन्पूर्वं यमः संस्थापितः पदे ॥
नृणां दुष्कृतकर्तॄणां नरकाय यमः प्रभो ॥ ८१ ॥
तस्मादस्य जगन्नाथ क्षम्यतां पुरुषोत्तम ॥
विभो कृपां कुरुष्वास्य ब्रूहि यत्ते विवक्षितम् ॥ ८२ ॥
एतच्छुत्वाऽब्रवीत्कृष्णो धातः शृणु गुरोर्मम ॥
सान्दीपनेः समानीतः सुतस्तेनागताविह ॥ ८३ ॥
समर्प्यतां गुरुश्रेष्ठ श्रेष्ठाय गुरुदक्षिणा ॥
आवाभ्यां वै प्रतिज्ञातो तस्मात्सा पाल्यतां विभो ॥ ८४ ॥
एतत्पितामहः श्रुत्वा यमं समरनिर्जितम् ॥
समाहूयाब्रवीद्विष्णुर्यद्ब्रवीति कुरुष्व तत् ॥ ८५ ॥
तच्छ्रुत्वा धर्मराजस्तु विरञ्चिमिदमब्रवीत् ॥
भगवन्विश्वकृल्लोके नैष मार्गस्त्वया कृतः ॥ ८६ ॥
यमलोकमनुप्राप्य कायहीनः शरीरवान् ॥
यत्कायरहितो याति नैतदत्र प्रपद्यते ॥ ८७ ॥
तच्छुत्वा हि पुनर्ब्रह्मा विश्वस्यास्य विभुः स्वयम् ॥
विश्वकृद्विश्वहद्यस्माद्यदिच्छति करोतु तत् ॥ ८८ ॥
तस्मादर्पय पुत्रं त्वं मुनेः सान्दीपनेश्च यः ॥
नरके यं पुनः कृत्वा तं चानय महामते ॥ ८९ ॥
तच्छुत्वा धर्मराजस्तु पुत्रं सान्दीपनेस्तथा ॥
ससर्ज बाल रूपं च तदात्मानं तदुद्भवम् ॥ 5.1.27.९० ॥
अर्पयामास कृष्णस्य बालं रूपसमन्वितम् ॥
स सर्वदेवतानां च तदद्भुतमिवाभवत् ॥ ९१ ॥
ततः प्राप्य गुरोः पुत्रं प्रभुः प्रीतः प्रजापतिम् ॥
प्राह प्राप्तो मया ब्रह्मन्स्वरूपो द्विजदारकः ॥ ९२ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
अद्यप्रभृति लोकेश देशे मच्चरणां किते ॥
अवन्त्यामङ्कपादाख्ये मृता नेक्षन्ति ते यमम् ॥ ९३ ॥
महाकालपुरे देवमाद्यं वै पुरुषोत्तमम् ॥
विश्वरूपं च गोविन्दं शङ्खोद्धारं च केश वम् ॥ ९४ ॥
ये पश्यन्ति कुशस्थल्यामेतेषां मूर्तिपञ्चकम् ॥
ते नरा न गमिष्यन्ति विरञ्चे निरयं क्वचित् ॥ ९५ ॥
तथैवागमनादत्र मम रामस्य ना रकाः ॥
विमुक्तास्ते त्वघाद्घोरात्प्राप्नुवन्त्वखिला दिवम् ॥ ९६ ॥
इत्युक्ते वचने वेधाः प्रोवाच प्रीतिमान्हरिम् ॥
यत्त्वयोक्तं वचः कृष्ण तदस्तु सकलं सदा ॥ ९७ ॥
ये च त्वामादिपुरुषं प्रथमं पुरुषोत्तमम् ॥
प्रणम्य पश्चाद्रक्ष्यन्ति स्नात्वा शिवसरस्यपि ॥ ९८ ॥
अधोज्वालं महाकालं सोऽश्वमेधफलं लभेत् ॥
एवमुक्तो हरिः पुत्रमादाय बलिना सह ॥ ९९ ॥
सम्मान्य वेधसं कालं समारोहद्रथं ततः ॥
शङ्खमापूरयामास कृतकार्यो जनार्दनः ॥ 5.1.27.१०० ॥
मोक्षाय निरयस्थानां नृणां वै पापकर्मणाम् ॥
ततस्ते शङ्खशब्देन स्मरणेनाच्युतस्य च ॥ १ ॥
दिव्यान्विमानानारुह्य दिवमेवाखिला गताः ॥
शून्यं तन्मण्डलं जातं नारायणसमागमे ॥ २ ॥
कालोऽपि दण्डमासाद्य बलदेवात्पुनः पुरम् ॥
प्रविवेश ततो धाता तत्रैवान्तरधीयत ॥ ३ ॥
कृष्णोपि बलवान्धीरः प्राप्त उज्जयिनीं पुरीम् ॥
बलदेवसहायस्तु सत्वरेणाशुगामिना ॥ ४ ॥
ततः सान्दीपनेः पुत्रमर्पयामास केशिहा ॥
गुरवे यत्प्रतिज्ञातं स तस्मादनृणोऽभवत् ॥ ५ ॥
एवं सान्दीपनिः पुत्रं दृष्ट्वा च पुनरागतम् ॥
नागरास्तत्र राजा च विस्मयं परमं ययुः ॥ ६ ॥
तौ वीरावर्चयामासुर्मत्वा देवोत्तमोत्तमौ ॥
सान्दीपनिरुवाचेदं तौ च रामजनार्दनौ ॥ ७ ॥
इह स्थास्यति वां कीर्तिर्यावदाभूतसम्प्लवम् ॥
स्थाने मदीय एतस्मिंस्तिष्ठन्तौ यदुनन्दनौ ॥८॥
न विज्ञातौ मया वीरौ यदुवृष्णिकुलोद्भवौ ॥
नरनारायणौ देवौ देवकार्यार्थमागतौ ॥९॥
नाल्पमृत्युर्भवेत्तस्य न व्याधिर्न च दुर्गतिः ॥
प्राप्य ह्यत्र च यः स्नाति स्वर्गलोके स मोदते ॥5.1.27.११०॥
शङ्खिनं विश्वरूपं च गोविदं चक्रिणं तथा ॥
चत्वारि विष्णुक्षेत्राणि अङ्कपादस्तु पञ्चमः ॥ ११ ॥
एषां यात्रां प्रवक्ष्यामि यथा कार्या मनीषिभिः ॥
मन्दाकिन्यां कृतस्नानो दृष्ट्वा रामजनार्दनौ ॥ १२ ॥
शङ्खोद्धारे ततः स्नात्वा प्रपश्येद्बलकेशवौ ॥
स्नानं कृत्वा ततः कुण्डे गोविन्दं च समर्चयेत ॥ १३ ॥
चक्रिणं च ततो दृष्ट्वा देवदेवं च शङ्खिनम् ॥
अङ्कपादौ ततो दृष्ट्वा विश्वरूपं ततो व्रजेत् ॥ १४ ॥
तस्याग्रतः करीकुण्डे स्नानं कृत्वा यथाविधि ॥
पुनस्तेन प्रकारेण प्रपश्येद्बलकेशवौ ॥ १५ ॥
स्नानं कृत्वा ततः कुण्डे गोविन्दं च समर्चयेत् ॥
तथैव चक्रिहलिनौ दृष्ट्वा तं केशवं व्रजेत् ॥ १६ ॥
शिप्राम्भसि नरः स्नात्वा भक्त्या सम्पूज्य केशवम् ॥
परावृत्याङ्कपादे तु तां रात्रिं गमयेच्छुचिः ॥ १७ ॥
प्रातर्वै भोजयेत्तत्र पञ्च विप्रांश्च सुव्रतान् ॥
गोदक्षिणां शङ्खिने तु विश्वरूपाय वै हयम् ॥ १८ ॥
गोविन्दाय गजं दद्यात्सर्वं दद्याच्च केशवे ॥
उपोष्य द्वादशीं विप्र योंऽकपादं समर्चयेत् ॥ १९ ॥
गन्धपुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा ॥
श्राद्धं यः कुरुते सर्वं तस्य पुण्यफलं शृणु ॥ 5.1.27.१२० ॥
कुलानां शतमुद्धृत्य विमानैः सर्वकामिकैः ॥
गीतनृत्यादिभोगैश्च वैकुण्ठे सुचिरं वसेत् ॥ २१ ॥
पुनर्लोक मिमं प्राप्य पवित्रे जायते कुले ॥
प्राप्नोत्यनन्तसन्तानं विष्णुलोकं पुनर्व्रजेत् ॥१२२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्सयखण्डेऽवन्तीक्षेत्रमाहात्म्येंऽकपादमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥२७॥ ॥ छ ॥