०२६ मन्दाकिनीक्षेत्रमाहात्म्यवर्णनम्

॥ व्यास उवाच ॥ ॥
गुह्यस्थाने पवित्राणि कीर्तितानि त्वया मुने ॥
प्रमाणं कथयस्वाद्य महाकालवनस्य मे ॥ १ ॥
॥ सनत्कुमार उवाच ॥ ॥
यथाश्रुतं मया पूर्वं गदतो ब्रह्मणः स्वयम् ॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणु त्वं गदतो मम ॥ २ ॥
योजनस्यैव पर्यन्तं चतुर्दिक्षूपशोभितम् ॥
सौवर्णैस्तोरणैश्चैव मुक्तादामविलम्बिभिः ॥ ३ ॥
द्वाराणि तत्र शोभन्ते काञ्चनैः कलशैः स्थितैः ॥
सितपद्ममुखैर्द्वारैरनेकमणिमण्डितैः ॥ ४ ॥
महेश्वरप्रयुक्ताश्च द्वाराध्यक्षा महाबलाः ॥
द्वारेषु तेषु शोभन्ते लोकानुग्रहकारकाः ॥ ५ ॥
पिङ्गलेशः स्थितः पूर्वे बालरूपो विभावसुः ॥
तीर्थस्याभिमुखो गौरो गुरुर्गणैरथानुगः ॥ ॥ ६ ॥
दक्षिणेऽपि महायोगी कायावरोहणेश्वरः ॥
वित्तेशः पश्चिमे द्वारे क्षेत्रस्याभिमुखः स्थितः ॥ ७ ॥
नियुक्तो वै महेशेन वारुणीं दिशमास्थितः ॥
उत्तरां दिशमाश्रित्य स्थितश्चैवोत्तरेश्वरः ॥ ८ ॥
साधकः सर्वकार्याणामादिष्टः शङ्करेण सः ॥
मानवा ये वसन्त्यत्र क्षेत्रमध्ये सुधार्मिकाः ॥ ९ ॥
मृता रुद्रपुरं यान्ति विमानैः सार्वकामिकैः ॥
कृष्णपक्षे चतुर्दश्यामथ वार्केन्दुसङ्गमे ॥ 5.1.26.१० ॥
पञ्चेशानीं नमस्कृत्य प्रतिलोमानु लोमतः ॥
उपोषितो दिनैकेन ध्यायमानो महेश्वरम् ॥ ११ ॥
मुच्यते सर्वपापैस्तु बहुजन्मकृतैरपि ॥
एवं च विप्र यो यात्रां पञ्चेशानीं समारभेत् ॥ १२ ॥
अनेनैव स्वदेहेन रुद्रलोकं स गच्छति ॥
पञ्चेशानीमथान्यां ते सुखेन क्रियते यथा ॥ १३ ॥
तथा शृणु प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ॥
प्रातः स्नात्वा रुद्रसरस्येकादश्यां समाहितः ॥ १४ ॥
श्राद्धं कृत्वा महाकालं नत्वा चेशानमीश्वरम् ॥
पिङ्गलेशं ततः प्राप्य स्नात्वा श्राद्धं समाचरेत् ॥ १५ ॥
उपगम्य ततो देवं गणेशं पिङ्गलेश्वरम् ॥
गन्धैः पुष्पैश्च धूपैश्च तमभ्यर्च्य निवर्तयेत् ॥ १६ ॥
महाकालेश्वरं प्राप्य भूयः स्नातो जितेन्द्रियः ॥
अर्चयेद्देवदेवेशं स्वयम्भुवं सनातनम् ॥ १७ ॥
ईशाने गमयेद्रात्रिं कृत्वा वै नक्तभोजनम् ॥
ध्यायमानो महेशानं भूमौ विन्यस्य विग्रहम् ॥ १८ ॥
द्वादश्यां पूर्ववत्सर्वं प्रातः स्नात्वा व्रजेन्नरः ॥
कायावरोहणं गत्वा पिङ्गलेश्वरवद्यजेत् ॥ १९ ॥
त्रयोदश्यामथाप्येवं बिल्वेशं पश्चिमेऽर्चयेत् ॥
चतुर्दश्यां तथा सौम्ये पूजयेदुत्तरेश्वरम् ॥ 5.1.26.२० ॥
अमावास्यां शुचिः स्नातो महाकालेश्वरं यजेत् ॥
गन्धैः पुष्पैश्च धूपैश्च नैवेद्यैर्विविधैस्तथा ॥ २१ ॥
गीतनृत्यादिकं कृत्वा प्रणिपत्य क्षमापयेत् ॥
यात्रां कृत्वा तु पूर्वोक्तां ततो निजगृहं व्रजेत् ॥ २२ ॥
ब्राह्मणान्भोजयेत्पञ्च शिवभक्तिपरायणान् ॥
प्रणम्य देवतारूपान्महाकालोषितान्द्विजान् ॥ २३ ॥
पूजयित्वा हिरण्येन सूक्ष्मवस्त्रगुणैर्नवैः ॥
रथं पिङ्गलके दद्याद्गजं कायावरोहणे ॥ २४ ॥
दत्त्वा बिल्वेश्वरे चाश्वं वृषं दत्त्वा तु चोत्तरे ॥
धेनुं दत्त्वा महाकाले सर्वोपस्करसंयुतम् ॥ २५ ॥
य एवं कुरुते व्यास तस्य पुण्यफलं शृणु ॥ २६ ॥
पितृकैर्मातृकैः सार्धं कुलैः स दिवि मोदते ॥
अप्सरोगीतनृत्याद्यैर्विमानैः सार्वकामिकैः ॥ २७ ॥ ॥
इति पञ्चेशानीयात्रामाहात्म्यम् ॥ ॥
यस्तु प्रदक्षिणां कुर्यान्नियमेन कुशस्थलीम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ २८ ॥
यस्तु पद्मावतीं पश्येद्दर्चयेत्पङ्कजैर्नरः ॥
दत्त्वा धूपं सनैवेद्यं मृतो ब्रह्मपुरं व्रजेत् ॥ २९ ॥
स्वर्णशृङ्गाटिकां व्यास कुसुमैः स्वर्णसन्निभैः ॥
समभ्यर्च्य महाभक्त्या स याति शिवमन्दिरम् ॥ 5.1.26.३० ॥
अवन्तिनीं तु यः पश्येद्देवीं त्रैलोक्यविश्रुताम् ॥
कामिकेन विमानेन याति पौरन्दरं पुरम् ॥ ३१ ॥
अर्चयेत्पङ्कजैर्भक्त्या यो देवीममरावतीम् ॥
अमरैः सह संहृष्टो मोदते दिवि सर्वदा ॥ ३२ ॥
देवीमुज्जयनीं भक्त्या यः पश्यति समाहितः ॥
सर्वैश्वर्यसमायुक्तो रुद्रलोके महीयते ॥ ३३ ॥
विशालां चैव यः पश्येद्रुद्रभक्त्या समाहितः ॥
मुच्यते त्रिविधैः पापैर्नात्र कार्या विचारणा ॥ ३४ ॥ ॥
इति श्रीकल्पसप्तकमहिमा ॥ ॥
शृणु व्यास महातीर्थं पुरा यद्ब्रह्मणार्चितम् ॥
अकूरेश्वरमित्याख्यं यत्र सिद्धः पितामहः ॥ ३५ ॥
तत्र देवार्चनं कृत्वा कृष्णाष्टम्यामुपोषितः ॥
जितेन्द्रियः शुचिर्दान्तो रुद्रलोकमवाप्नुयात् ॥ ३६ ॥
न वदेत्केनचित्सार्धं नरः प्रातर्गृहे स्थितः ॥
दृष्ट्वाऽक्रूरेश्वरं देवं हेमदानफलं लभेत् ॥३७॥ ॥
इत्यक्रूरेश्वरमाहात्म्यम् ॥ ॥
यस्तु पश्यति ब्रह्माणं शुचिः स्नातो जितेन्द्रियः ॥
मुच्यते पातकाद्धोराद्ब्रह्मलोकं मृतो व्रजेत् ॥ ३८ ॥
पद्मासनस्थितो ब्रह्मा ध्यायमानः परं पदम् ॥
वसिष्ठाद्यैर्मुनिवरैर्विज्ञप्तः कर्मसम्भवान् ॥ ३९ ॥
॥ ऋषय ऊचुः ॥ ॥
आदित्या मरुतः साध्यास्तथा चैवाश्विनावुभौ ॥
पितरो ये च लोकानां पूज्यन्ते भुवि मानवैः ॥ 5.1.26.४० ॥
ग्रहार्कतारका यक्षा दिग्गजाश्च्यानलानिलाः ॥
अमी देवा वयं सर्वे त्वदंशाः परिपठ्यते ॥ ४१ ॥
कथं ध्यायसि देवेश एतत्सर्वं ब्रवीहि नः ॥ ४२ ॥
॥ ब्रह्मोवाच ॥ ॥
द्वे विद्ये तत्त्वरूपे ये परा चैवापरा तथा ॥
ते द्वे च मम रूपे द्वे नित्ये मूर्तात्मिके मम ॥ ४३ ॥
॥ ऋषय ऊचुः ॥ ॥
पितामह कथं विद्मो भवन्तं परमं विभुम् ॥
येनास्माकं परा सिद्धिर्जायते तव दर्शनात् ॥ ४४ ॥
॥ ब्रह्मोवाच ॥ ॥
माहेश्वरं परं क्षेत्रं कुशस्थलीति शब्दितम् ॥
यज्ञार्थिना मया देवः श्रीकण्ठः पार्वती पतिः ॥ ४५ ॥
याचितस्तेन देवेन उक्तोऽहं परमेष्ठिना ॥
समन्ताद्योजनं साग्रं क्षेत्रमेतत्पितामहः ॥ ४६ ॥
मया दत्तं तव विभो महाकालवनादृते ॥
वारितः स मया तत्र वने गुप्तो हि रोषतः ॥
कपर्दिना च तत्रोक्तो यास्यामो न तवान्तिकम् ॥ ४७ ॥
आरब्धो वै ततो यज्ञो नारायणपरिग्रहात् ॥
ज्ञातस्तथापि मे यज्ञो देवदेवेन शम्भुना ॥ ४८ ॥
यज्ञवाटं कपर्दीशस्ततो भिक्षार्थमागतः ॥
याज्ञिकैः सोऽथ तत्रोक्तो मात्र तिष्ठ जुगुप्सितः ॥ ४९ ॥
कपर्दिना च ते तत्र उक्ता यास्याम्यहं पुनः ॥
एवमुक्त्वा कपालं स भूमौ संस्थाप्य तत्र हि ॥5.1.26.५०॥
स्नातुं नदीं ययौ शिप्रां कपर्दी परमेश्वरः॥
उक्तं तस्मिन्गते शिप्रां कपर्दिनि द्विजातिभिः॥५१॥
कथं हि क्रियते होमः कपाले सदसि स्थिते॥
अकपालानि शौचानि पुरा प्रोक्तं मनीषिभिः ॥ ५२ ॥
तत्कपालं सदस्येन उक्षिप्तं पाणिना स्वयम् ॥
तस्मिन्क्षिप्तेऽभवच्चान्यत्पुनः क्षिप्तेऽभवत्पुनः ॥ ५३ ।
एवं नान्तं कपालानां प्राप्यते मुनिसत्तमाः ॥
रुद्रं कपर्दिनं मत्वा शरणं तं समागताः ॥ ५४ ॥
ततः स दर्शनं प्रादाद्भक्त्या तुष्टो महेश्वरः ॥
कपालपाणिर्भगवान्मामुवा च ततः प्रभुः ॥ ५५ ॥
वरं वरय भो ब्रह्मन्यत्ते मनसि वर्तते ॥
नास्त्यदेयं मया तुभ्यं सर्वं दास्यामि तत्त्वतः ॥५६॥
ब्रह्मोत्तरमिदं स्थानं मया दत्तं चतुर्मुख ॥
कारयस्व यथाकामं यथावर्णचतुष्टयम् ॥ ५७ ॥
एवं वदन्तं वरदमीशानं परमेश्वरम् ॥
तथेति चोक्त्वा सदसि न मयाऽन्यो वरो वृतः । ॥ ५८ ॥
उज्जयिनीति वै नाम कुशस्थल्या निवेशितम् ॥
कुण्डं मन्दाकिनी तत्र मया कृतमनन्तरम् ॥ ५९ ॥
तत्र विप्राः कृते स्नाने सर्वपापैः प्रमुच्यते ॥
तस्यां संस्थापयेद्दिक्षु चतुरोऽर्थघटाञ्छुभान् ॥ 5.1.26.६० ॥
सतिलास्तान्सवस्त्रांश्च सफलान्मण्डकैः सह ॥
कार्तिक्यामथ माघ्यां च चातु र्विद्ये प्रदापयेत् ॥ ६१ ॥
प्रथमं च ऋग्वेदाय यजुर्वेदाय दक्षिणम् ॥
पश्चिमं सामवेदाय अथर्वणे तथोत्तरम् ॥ ६२ ॥
वेदानुद्दिश्य चाप्येवं प्रीयतां मे पितामहः ॥
कृते चैवं हि यत्पुण्यं तच्छृणुध्वं समाहिताः ॥ ६३ ॥
सर्वतीर्थेषु यत्पुण्यं मन्दाकिन्यां तथा भवेत् ॥
सहस्रगुणितं स्नानं जाप्यं लक्षगुणं भवेत् ॥ ६४ ॥
दानं कोटिगुणं ज्ञेयं मन्दाकिन्यां न संशयः ॥
कौमुदे मासि सम्प्राप्ते गोदानं तत्र कारयेत् ॥ ६५ ॥
घृतधेनुं च कार्तिक्यां माघ्यां तिलमयीं तथा ॥
जलधेनुं तु वैशाख्यां दत्त्वा मुच्येत पातकैः ॥ ६६ ॥
वाचिकं मानसं पापं कर्मजं यच्च दुष्कृ तम् ॥
विनश्येत्किल्बिषं सर्वं मन्दाकिन्यास्तु दर्शनात् । ६७ ॥
मन्दाकिनीसमं तीर्थं पृथिव्यां नैव दृश्यते ॥
यस्य दर्शनमात्रेण ब्रह्मलोके स मोदते ॥ ६८ ॥
मन्दाकिन्यां तु यः स्नानं कृत्वा श्राद्धं प्रदास्यति ॥
दर्शे च पूर्णिमायां वा पितृलोके स मोदते ॥ ॥ ६९ ॥
पितामहं तु यो भक्त्या नित्यं पश्यति मानवः ॥
अश्वमेधसहस्रेण राजसूयशतेन च ॥ 5.1.26.७० ॥
युज्यते नात्र सन्देहः सत्यमेतत्तपोधनाः ॥
ततो मन्वन्तरेऽतीते प्राप्ते वैवस्वते पुनः ॥ ७१ ॥
तेनैवोन्मत्तवेषेण ऊर्ध्वशेषो महेश्वरः ॥
प्रविष्टो ब्रह्मणः सत्रे दृष्टस्तैर्द्विज सत्तमैः ॥ ७२ ॥
ते ब्राह्मणाः शपन्ति स्म निन्दां कुर्वन्ति चापरे ॥
अपरे पांशुभिः शिश्नं घ्नन्ति तस्याशपन्द्विजाः ॥ ७३ ॥
लोष्ठैर्लगुडकैश्चा न्ये घ्नन्ति तं बलगर्विताः ॥
जटामुकुटकं केचिद्धृत्वा कर्षन्ति चापरे ॥ ७४ ॥
पृच्छन्ति ब्रतचर्यां वै केन व्रतं च दर्शितम् ॥
अत्र चैव स्त्रियः सन्ति कथमेतत्त्वया कृतम् ॥ ७५ ॥
ब्रह्मणा चेदृशी चर्या विष्णुना वा कृता स्वयम् ॥
गिरिशेनापि देवेन केनेदं दुष्कृतं कृतम् ॥ ७६ ॥
मा विडम्बय देवेशं वध्यो हि नस्त्वमद्य वै ॥
एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शङ्करः ॥ ७७ ॥
स्मितं कृत्वाऽब्रवीत्सर्वान्ब्राह्मणान्परमेश्वरः ॥
किं यूयं मामभि हथ ह्युन्मत्तं नष्टचेतसम् ॥ ७८ ॥
यूयं कारुणिकाः सर्वे मैत्रभावे व्यवस्थिताः ॥
तमेवं वादिनं देवं जाल्मरूपधरं हरम् ॥ ७९ ॥
मायया तस्य देवस्य मोहितास्ते द्विजातयः ॥
पुनः कपर्दिनं जघ्नुः पाणिपादेन वै द्विजाः ॥ 5.1.26.८० ॥
ताड्यमानस्तु तैर्विप्रैः परं कोपमुपागमत् ॥
ततो देवेन ते शप्ता यूयं वेदविवर्जिताः ॥ ८१ ॥
ऊर्ध्वजूटाः सलगुडाः परदारोपजीविनः ॥
रता द्यूते च वेश्यायां पितृमातृविवर्जिताः ॥ ८२ ॥
न पुत्रे पितृ वित्तं च विद्या वापि भविष्यति ॥
शेषो मम हतो यैश्च ते सर्वेन्द्रियवर्जिताः ॥ ८३ ॥
रौद्रां भिक्षां तु भिक्षन्तः परपिण्डोपजीविनः ॥
आत्मानं वर्णयिष्यन्ति धनधान्यविवर्जिताः ॥ ८४ ॥
यैश्च तत्र कृता विप्रैर्हन्यमाने कृपा मयि ॥
तेषां धनं च पुत्राश्च दासीदासादयश्च वै ॥८५॥
कुलोत्पन्नाश्च वै नार्यो भविष्यन्ति वरान्मम ॥
एवं शापं वरं दत्त्वा गतोंऽतर्धानमीश्वरः ॥ ८६ ॥
ततो द्विजा गते देवे मत्वा तं शङ्करं विभुम् ॥
अन्वेषयन्तो यत्नेन महाकालवनं गताः ॥ ८७ ॥
स्नात्वा सरसि रुद्रस्य जपतः शतरुद्रियम् ॥
जाप्यावसाने तान्देवोऽशरीरिण्या गिराऽब्रवीत् ॥ ८८ ॥
अनृतं न मया प्रोक्तं स्वैरेष्वेपि कुतः सुखम् ॥
भूयोऽप्यनुग्रहं विप्रा युष्माकं करवाण्यहम् ॥ ८९ ॥
शान्ता दान्ताश्च ये विप्रा भक्तिमन्तो मयि स्थिताः ॥
न तेषां छिद्यते वंशो न धनं न च सन्ततिः ॥ 5.1.26.९० ॥
अग्निहोत्ररता ये च भक्तिमन्तो जनार्दने ॥
पूजयन्ति च ब्रह्माणं तेजोराशिं दिवाकरम् ॥९१॥
नाशुभं विद्यते तेषां येषां सख्ये स्थिता मतिः ॥
एतावदुक्त्वा देवेशस्तूष्णीमासीज्जगत्प्रभुः ॥ ९२ ॥
एवं शापं वरं लब्ध्वा देवदेवान्महेश्वरात् ॥
आजग्मुः सहिताः सर्वे यत्र देवः पितामहः ॥ ९३ ॥
विरञ्चिमथ ते जाप्यैस्तोषयन्तोऽग्रतः स्थिताः ॥
तुष्टस्तानब्रवीद्ब्रह्मा मत्तोऽपि व्रियतां वरः ॥ ९४ ॥
ब्रह्मणस्तेन वाक्येन तुष्टाः सर्वे द्विजोत्तमाः ॥
को वरो याच्यतां विप्राः परितुष्टे पितामहे ॥ ९५ ॥
एके तत्राब्रुवन्विप्रा वेदान्वै वृणवामहै ॥
ततोऽन्ये च धनं धान्यं व्रियतामविशङ्कितैः ॥ ९६ ॥
अन्ये प्राहुः किमस्माकं धनैस्तुष्टे पितामहे ॥
अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च ॥ ९७ ॥
शान्ता आढ्याश्च लोकाश्च वरदानाद्भवन्तु नः ॥
एवं प्रजल्पतां तत्र विप्राणां कोप आविशत् ॥ ९८ ॥
परस्परं वरार्थेऽथ युद्धं कर्तुं समुद्यताः ॥
युध्यन्ते सायुधाः केचित्केचित्तत्रोपसर्पकाः ॥ ९९ ॥
केचिद्विप्रा उदासीनाः केचिद्वै मौनमास्थिताः ॥
दृष्ट्वैवं भगवान्प्राह विप्रान्युद्धं प्रकुर्वतः ॥ 5.1.26.१०० ॥
यस्मात्कुमन्त्रिता विप्राः शालाया बाह्यसंस्थिते ॥
तस्मादामूलतो विप्रा गुल्मे युद्धोपसर्पकाः ॥ १ ॥
उदासीनस्तु यो गुल्मो वृत्तिहीनो भविष्यति ॥
वेदास्तस्य भवेयुर्वै यस्त्वस्ति मौनसंस्थितः ॥ २ ॥
तृतीयः सायुधो गुल्मो योद्धुकामस्तु यः स्थितः ॥
परदारेषु वेश्यायां द्यूते चौर्ये सदा रतः ॥३॥
चतुर्विधः स वै विप्रो वृत्तिहीनो भविष्यति ॥
एवमुक्त्वा ययौ ब्रह्मा वैराजं भवनोत्तमम् ॥ ४ ॥
एवं मे परमं क्षेत्रं मुनयोऽवन्तिमण्डले ॥
यां देवनगरीं लोके प्रवदन्तीह मानवाः ॥ ५ ॥
तस्यां तु ये द्विजाः शान्ता वसन्ति क्षेत्रवासिन ॥
न तेषां दुर्लभं किञ्चिन्म म लोके भविष्यति ॥ ६ ॥
कोलामुखे कुरुक्षेत्रे नैमिषे पुष्करेषु च ॥
वाराणस्यां प्रभासे च तथा बदरिकाश्रमे ॥ ७ ॥
गङ्गाद्वारे प्रयागे च गङ्गासा गरसङ्गमे ॥
रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने ॥ ८ ॥
तीर्थेष्वेतेषु क्षेत्रेषु या सिद्धिर्द्वादशाब्दिका ॥
प्राप्यते मानवैर्लोके सा मासेनेह लभ्यते ॥
उज्जयिन्यां न सन्देहो ब्रह्मचर्ये मनो यदि ॥ ९ ॥
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम् ॥
सदाभिरुचितं मह्यमेतद्वै मुनिसत्तमाः ॥ 5.1.26.११०॥
मन्दाकिन्यास्तु माहात्म्यं क्षेत्रस्योत्पत्तिरुत्तमा ॥
भूयः किमन्यदिच्छास्ति श्रोतुं वै द्विजसत्तमाः ॥ ११ ॥
॥ सनत्कुमार उवाच ॥ ॥
एतत्ते ब्रह्मणो वाक्यं श्रुत्वा व्यास तथाविधम् ॥
वसिष्ठाद्याश्च मुनयः परं ध्यानमथो गताः ॥ १२ ॥
ध्यात्वा तु सुचिरं कालं तत्र वासे मनो दधुः ॥
साग्निहोत्राः सपत्नीका गताश्चावन्तिमण्डले ॥ १३ ॥
महाकालवनं दृष्ट्वा शिप्रां चैव महानदीम् ॥
श्मशानमूषरं चैव नदीं गन्धवतीं तथा ॥ १४ ॥
कोटितीर्थमुपस्पृश्य चकुर्वासं च तत्र वै ॥
स्मृत्वा तद्ब्रह्मणो वाक्यं रुचिस्तेषां तदाऽभवत् ॥ १५ ॥
अरुन्धत्या वसिष्ठश्च गमनं प्रति नोदितः ॥
उवाच तां महात्मासौ स्वां भार्यां मुनिसत्तमाः ॥ १६ ॥
महाकालः सरिच्छिप्रा गतिश्चैव सुनिर्मला ॥
उज्जयिन्यां विशालाक्षि वासः कस्य न रोचते ॥ १७ ॥
स्नानं कृत्वा नरो यस्तु महानद्यां हि दुर्लभम् ॥
महाकालं नमस्कृत्य नरो मृत्युं न शोचयेत् ॥ १८ ॥
मृतः कीटः पतङ्गो वा रुद्र स्यानुचरो भवेत् ॥
यत्रैषा श्रूयते मुक्तिः कथं सा त्यजते मया ॥ १९ ॥
एवं प्रजल्प्याथ मुनिप्रधानस्तत्रैव वासं सहसा चकार ॥
वनस्य व्युष्टिं परिकीर्तयंस्तु स्थितः सहैवात्र मुनिप्रधानैः ॥ 5.1.26.१२० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षे त्रमाहात्म्ये मन्दाकिनीक्षेत्रमाहात्म्यवर्णनन्नाम षड्विंशोऽध्यायः ॥ २६ ॥ ॥छ॥