॥ सनत्कुमार उवाच ॥ ॥
शुक्रेश्वरं समभ्यर्च्य सितपुष्पैर्विलेपनैः ॥
प्रणिपत्य ततो भक्त्या रुद्रलोके महीयते ॥ १ ॥
भीमेश्वरं नरो दृष्ट्वा भक्त्या सम्पूज्य यत्नतः ॥
न भयं लभते व्यास रणे रात्रौ जलेऽनले ॥ २ ॥
गर्गेश्वरं स्नापयित्वा तिलतैलेन मानवः ॥
बिल्वपत्रैस्तु सम्पूज्य धर्मवृद्धिमवाप्नुयात् ॥ ३ ॥
उपोषितश्चतुर्दश्यां तिलप्रस्थतिलाम्भसा ॥
स्नापयित्वा तिलैरिष्ट्वा सदा सौख्यमवाप्नुयात् ॥ ४ ॥
गोसहस्रं नरो दत्त्वा भावं कृत्वा विशेषतः ॥
भवबन्धविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ ५ ॥
कामेश्वरं समभ्यर्च्य कुङ्कुमादिविलेपनैः ॥
कामिकेन विमानेन याति स्वर्गं न संशयः ॥ ६ ॥
चूडामणिं नमस्कृत्य नवम्यां कार्तिके सिते ॥
न वियोनिं नरो याति धर्मबुद्धिः स जायते ॥ ७ ॥
चण्डीश्वरं समभ्यर्च्य कृष्णाष्टम्यामुपोषितः ॥
निर्माल्योल्लङ्घनोत्थेन न शोकेनापि लिप्यते ॥ ८ ॥
इत्यादितीर्थानि महेश्वरस्य पुण्यानि सर्वाणि नरोऽभिगम्य ॥
विशुद्धचित्तो भुवि भावितात्मा प्रयाति शम्भोर्भुवनं सुरम्यम्॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शुक्रेश्वरभीमेश्वर गर्गेश्वरकामेश्वर चूडामणीश्वर चण्डीश्वरादितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ । छ ॥