०२३ महाकालेश्वरयात्रामाहात्म्यवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अथ यात्रां प्रवक्ष्यामि महाकालस्य यत्नतः ॥
शिवां श्रेयस्करीं पुण्यां पुण्यलोकप्रदायिनीम् ॥ ॥ १ ॥
स्नात्वा सरसि रुद्रस्य दृष्ट्वा कोटेश्वरं शिवम्॥
नमस्कृत्य ततो गच्छेन्महाकालं सनातनम् ॥ २ ॥
गन्धैः पुष्पैर्नमस्कारैः सम्पूज्य त्रिदशेश्वरम्॥
प्रणिपत्य ततो गच्छेद्देवं कपालमोचनम् ॥ ३ ॥
तत्रैव देवदेवेशः कपालं न्यस्तवान्क्षितौ ॥
कपाले तत्क्षणान्न्यस्ते तत्राभूल्लिङ्गमुत्तमम् ॥ ॥ ४ ॥
कपालमोचनं नाम सर्वपापप्रणाशनम् ॥
तत्र वै स्नपनं कुर्यादाज्यपलशतेन वै ॥ ५ ॥
तदर्धार्धेन पादेन वित्तशाठ्यविवर्जितः ॥
काले पूर्णे स विप्रेन्द्र शिवलोके महीयते ॥ ६ ॥
नमस्कृत्य ततो गच्छेत्कपिलेश्वरमुत्तमम् ॥
दर्शनादस्य देवस्य मुच्यते ब्रह्महत्यया ॥ ७ ॥
हनुमत्केश्वरं देवं ततो गच्छेत्समाहितः ॥
ऐश्वर्यमतुलं व्यास दर्शनादस्य जायते ॥ ८ ॥
ततो गच्छेन्महादेवं पैप्पलाख्यं सनातनम् ॥
यस्य दर्शनमात्रेण मुक्तिः स्याद्द्विजसत्तम ॥ ९ ॥
स्वप्नेश्वरं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ॥
दर्शनादस्य देवस्य दुःस्वप्नं च विनश्यति ॥ 5.1.23.१० ॥
ततो गच्छेन्महादेवमीशानं विश्वतोमुखम्॥
यस्य दर्शनमात्रेण विश्वस्यैव पतिर्भवेत् ॥ ११ ॥
सोमेश्वरं ततो गच्छेज्जितक्रोधो जितेन्द्रियः ॥
कुष्ठरोगादिदोषेभ्यो दर्शनादस्य मुच्यते ॥ १२ ॥
वैश्वानरेश्वरं व्यास ततो गच्छेत्समाहितः ॥
तस्य वृद्धिः सदा लोके जायते तस्य दर्शनात् ॥ १३ ॥
बीजपूरकहस्तं तु लकु लीशं ततो व्रजेत् ॥
रुद्रत्वं दर्शनात्तस्य जायते नात्र संशयः ॥ १४ ॥
ततो गच्छेन्महादेवं गद्याणेश्वरमुत्तमम् ॥
यस्य दर्शनमात्रेण जायन्ते सर्व सिद्धयः ॥१५॥
अभ्यर्थितः सदा देवैः पूजितः सिद्धिकारणात् ॥
तेनाभ्यर्थितेश्वरोऽयं विख्यातो विघ्ननायकः ॥१६॥
वयोवृद्धं ततो गच्छेन्महाकालं सनातनम् ॥
न रोगो न जराव्याधिर्दर्शनान्नात्र संशयः ॥ १७ ॥
विघ्ननाशं ततो गच्छेत्प्राणीशं बलमुत्तमम् ॥
स्नानं घटशतैस्तस्य कुर्याद्भक्त्या समाहितः ॥ १८ ॥
तस्य चैव कृते स्नाने लभ्यन्ते सर्वसिद्धयः ॥
स्वर्गश्चापि सदा व्यास दर्शनादस्य जायते ॥ १९ ॥
तनयं तमनूल्लङ्घ्य दण्ड पाणिं ततो व्रजेत् ॥
यस्य दर्शनमात्रेण यमलोको न दृश्यते ॥ 5.1.23.२० ॥
पुष्पदन्तं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ॥
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥ २१ ॥
गुह्यं चैव महाकालं ततो गच्छेत्समाहितः ॥
यस्य दर्शनमात्रेण गुह्यपापैः प्रमुच्यते ॥ २२ ॥
ततो गच्छेत्समाधिस्थो दुर्वासेश्वरमुत्तमम् ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ॥ २३ ॥
श्वासावरोधनं कृत्वा दुर्वाससः समीपतः ॥
गौरीं गत्वा महादुर्गां त्यजेच्छ्वासमनन्तरम् ॥ २४ ॥
तत्रोच्छ्वासो विमोक्त्यस्तामभ्यर्च्य तु सर्वथा ॥
कालेश्वरं ततो गच्छेद्देवदेवं महेश्वरम् ॥ २५ ॥
यस्य दर्शनमात्रेण यमलोकं न पश्यति ॥
विधीशं च ततो गच्छेद्देवदेवं महेश्वरम् ॥ २६ ॥
यस्य दर्शनमात्रेण बधिरत्वं न जायते ॥
कीर्तयेदात्मनो नाम स्थानं गोत्रं च तस्य वै ॥ २७ ॥
न कीर्तयेद्यदा नाम सा यात्रा विफली भवेत् ॥
देवस्याग्रे ततो व्यास उपविश्य समाहितः ॥ ॥ २८ ॥
भक्तियुक्तस्ततो ब्रूयान्नमस्कृत्वा पुनःपुनः ॥
मया समर्पिता यात्रा त्वत्प्रसादान्महेश्वर ॥ २९ ॥
संसारसागराद्धोरान्मामुद्धर जगत्पते ॥
अनेन विधिना यस्तु महाकालं प्रदक्षयेत् ॥ 5.1.23.३० ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
गोलक्षं द्विजलक्षाय दत्त्वा यल्लभते फलम् ॥ ३१ ॥
तत्फलं देवदेवस्य सकृद्दत्त्वा प्रदक्षिणम्॥
भक्त्या परमया युक्तो महाकालं प्रदक्षयेत् ॥ ३२ ॥
पदेपदे यज्ञफलमिति मे शङ्करोऽब्रवीत् ॥
षष्टिकोटि सहस्राणि षष्टिकोटिशतानि च ॥ ३३ ॥
पूजितानि भवन्त्यत्र यात्रेश्वरसमर्चनात् ॥
य एवं कुरुते यात्रां शिवध्यानपरायणः ॥ ३४ ॥
सहस्रदक्षिणां दद्यात्तस्य पुण्यफलं शृणु ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ ३५ ॥
एवं यात्रां समाप्याथ गत्वा निजगृहं नरः ॥
यात्रादैवत सङ्ख्यान्वै षड्विंशतिद्विजोत्तमान्॥ ३६ ॥
भोजयेच्छिवभक्तांश्च शिवध्यानपरायणान् ॥
सवस्त्रां दक्षिणां दत्त्वा प्राप्यानुज्ञां विसर्जयेत् ॥ ३७ ॥
यात्राक्रमेण चैकैकं द्वारान्तरमनुव्रजेत् ॥
धर्मोपदेशके पश्चात्सर्वोपस्करसंयुताम् ॥ ३८ ॥
धेनुं पयस्विनीं दद्याद्वित्तशाठ्यविवर्जितः ॥
भुञ्जीताथ स्वयं व्यास सर्वभृत्यसमन्वितः ॥ ३९ ॥
दीनानाथदरिद्रान्धविकलाद्यांश्च भोजयेत् ॥
यदत्र फलमुद्दिष्टं तद्वदामि शृणुष्व मे ॥ 5.1.23.४० ॥
कुलानां शतमुद्धृत्य मातापित्रोः समाहितः ॥
कल्पकोटिसहस्राणि शिवलोके स मोदते ॥ ४१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालेश्वरयात्रामाहात्म्यवर्णनन्नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ ॥ छ ॥