०२२ रुद्रसरोमाहात्म्यवर्णनम्

॥ श्रीसनत्कुमार उवाच ॥ ॥
यमेश्वरं तु यः पश्येत्स्नापयित्वा तिलाम्भसा ॥
कुङ्कुमेन समालिप्य पूजयेदुत्पलैस्ततः ॥ १ ॥
दहेत्कृष्णागरुं धूपं दापयेत्तिलतण्डुलान् ॥
य एवमर्चयेद्देवमीश्वरं शूलहस्तकम्॥ २ ॥
यत्र कुत्र मृतस्यापि यमः पितृसमो भवेत् ॥ ३ ॥
॥ इति यमेश्वरमाहात्म्यम्॥
॥ सनत्कुमार उवाच ॥ ॥
कथयामि परं व्यास तीर्थं तीर्थेषु चोत्तमम् ॥
नाम्ना रुद्रसरः प्रोक्तं त्रिषु लोकेषु विश्रुतम् ॥ ४ ॥
तत्र स्नात्वा शुचिर्भूत्वा पश्येत्कोटेश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ५ ॥
श्राद्धं तत्रैव कृत्वा तु शृणु यत्फलमाप्नुयात् ॥
दशानामश्वमेधानां वाजपेयशतस्य च॥६॥
फलं कोटिगुणं व्यास लभते नात्र संशयः॥
पितॄनुद्दिश्य यत्किञ्चित्कोटितीर्थे प्रदीयते॥७॥
तत्सर्वं कोटिगुणितं जायते नात्र संशयः॥
कोटितीर्थे नरः स्नात्वा ध्यायेद्यः परमाक्षरम्॥८॥
मुच्यते सर्वपापेभ्यो निर्मोकेन यथोरगः ॥
प्रातरुत्थाय यो विप्र तत्र स्नानं करोति वै ॥९॥
दृष्ट्वा देवं महाकालं गोसहस्रफलं लभेत्॥
कोटितीर्थे नरः स्नात्वा सप्तरात्रोषितः शुचिः ॥5.1.22.१०॥
चान्द्रायणसहस्रस्य फलं प्राप्नोति मानवः ॥
जागरं तत्र कुर्याद्यो ह्यनन्तफलमश्नुते ॥ ११ ॥
गन्धपुष्पार्चनं कृत्वा महास्नपनपूर्वकम् ॥
य एवं नयते रात्रिं सोपवासो जितेन्द्रियः ॥ १२ ॥
लभते सर्वकामित्वं यत्सुरैरपि दुर्लभम् ॥
कार्तिक्यामथ वैशाख्यां देवं तत्र प्रपूजयेत् ॥ १३ ॥
गन्धपुष्पैश्च कालीनैस्तथा वस्त्रैः सुशोभनैः ॥
कर्पूरं कुङ्कुमं चैव श्रीखण्डमगरुं तथा ॥ १४ ॥
समभागानि कृत्वा तु शिलापृष्ठे च पेषयेत् ॥
अनुलिप्य महाकालं रुद्रस्यानुचरो भवेत् ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये रुद्रसरोमाहात्म्यवर्णनन्नाम द्वाविंशोऽध्यायः ॥ ॥ २२ ॥ ॥ छ ॥