॥ सनत्कुमार उवाच ॥ ॥
अथान्यत्सम्प्रवक्ष्यामि देवं त्रिदशपूजितम् ॥
हनुमत्केश्वरन्नाम भुक्तिमुक्तिफलप्रदम् ॥ १ ॥
शैवे सरसि यः स्नात्वा पश्येद्धनुमत्केश्वरम् ॥
कल्पकोटिसहस्राणि वायुलोके स मोदते ॥ २ ॥
॥ व्यास उवाच ॥ ॥
हनुमत्केश्वरो यस्तु ह्युक्तः पूर्वं त्वयाऽनघ ॥
कथां कथय ह्येतस्य वृत्तपूर्वां सनातनीम् ॥ ३ ॥
॥ सनत्कुमार उवाच ॥ ॥
त्रैलोक्यकण्टकः पूर्वं रावणो नाम राक्षसः ॥
विष्णुना रामरूपेण लङ्कायां विनिपातितः ॥ ४ ॥
घातयित्वा तु तं दुष्टं सीतामादाय जानकीम् ॥
वानरैः सह ऋक्षैश्च नगरीं स्वामुपागतः ॥ ५ ॥
तत्र राज्यमनुप्राप्य ऋषिभिः परिवारितः ॥
कथावसाने रामेण ह्यगस्त्यो मुनिसत्तमः ॥ ६ ॥
पप्रच्छ च द्वयोर्वीर्यं शम्भुवातजयोस्तदा ॥
तदा दाशरथिं प्राह अग स्तिर्मुनिसत्तमः ॥ ७ ॥
अनौपम्यो यथा देवो युद्धे शौर्यम्? महेश्वरः ॥
ज्ञेयो वायुसुतस्तद्वत्सत्यमेतद्ब्रवीमि ते ॥ ८ ॥
एतच्छुत्वाथ हनुमान्यद्धरेणो पमा मम ॥
कृता मुनिवरेणेह प्रत्यक्षं राघवस्य ह ॥ ९ ॥
गमिष्ये नगरीं लङ्कां लिङ्गमेकं प्रयाचितुम् ॥
राक्षसेन्द्रं महाभागं विभीषणमकल्म षम् ॥ 5.1.21.१० ॥
ततो गतः स लङ्कायां विभीषणमुवाच ह ॥
देहि मे त्वं महाभाग लिङ्गमेकं च शोभनम् ॥ ११ ॥
उक्तं च राक्षसेन्द्रेण गृहाणैतद्यथा रुचि ॥
एतानि षट् च लिङ्गानि रावणस्थापितानि वै ॥ १२ ॥
त्रैलोक्यविजयात्पूर्वं मम भ्रात्रा महात्मना ॥
एतेषु यदभीष्टं ते लिङ्गं कथय सुव्रत ॥
तत्प्रयच्छामि तेऽद्यैव सत्यमेतत्प्लवङ्गम ॥ १३ ॥
ततो जग्राह हनुमाल्ँलिङ्गं मौक्तिकसन्निभम् ॥
यदेतद्दृश्यते वीर तत्प्रयच्छ ममानघ ॥ ॥ १४ ॥
श्रुत्वा हनुमतो वाक्यमथोवाच विभीषणः ॥
दत्तमेतन्महावीर लिङ्गं यद्धृतवानसि ॥ १५ ॥
श्रूयते हि पुरावृत्तं लिङ्गमेतद्धनेश्वरः ॥
रुद्र भक्त्या समायुक्तस्त्रिकालमप्यपूजयत् ॥ १६ ॥
रावणेन यदा बद्धस्तदानीं हि धनेश्वरः ॥
लिङ्गस्यास्य प्रभावेन विमुक्तः समपद्यत ॥ १७ ॥
प्रसादात्तस्य लिङ्गस्य धनेशो धनरक्षकः ॥
गृहीत्वा तन्महालिङ्गं स्वस्थो जातोऽथ वानरः ॥ १८ ॥
॥ सनत्कुमार उवाच ॥ ॥
गृहीत्वा तु ततो लिङ्गं प्रस्थितो विमलेंऽबरे ॥
सप्तमे दिवसे चैव सम्प्राप्तोऽवन्तिकां पुरीम् ॥ १९ ॥
तत्र रुद्रसरस्तीरे स्थाप्य स्नानमथाकरोत् ॥
महाकालस्य पूजार्थं गमनं प्रत्यचिन्तयत् ॥ 5.1.21.२० ॥
उद्धर्तुकामस्तल्लिगमुद्धर्तुं न शशाक सः ॥ २१ ॥
ततो व्यवस्थितो देवः प्राह तं वायुनन्दनम् ॥
अस्मिन्क्षेत्रे हनूमन्मां त्वन्नाम्नैव प्रतिष्ठापय ॥ २२ ॥
हनुमत्केश्वरं चाथ लोके ख्यातं भविष्यति ॥
शैलवच्चोन्नतं लिङ्गं स्थापितं वायुसूनुना ॥ २३ ॥
शनौ पश्येन्नरो यस्तु हनुमत्केश्वरं शिवम् ॥
तस्य शत्रुभयं नास्ति सङ्ग्रामे जयमाप्नुयात् ॥ २४ ॥
न च चौरभयं तस्य न दारिद्र्यं न दुर्गतिः ॥
तैलाभिषेकं यः कुर्याद्धनुमत्केश्वरे शिवे ॥२५॥
तस्य रोगाः प्रलीयन्ते ग्रहपीडा न जायते ॥
ये द्रक्ष्यन्ति नराः भक्त्या तेषां मोक्षो भविष्यति ॥२६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये हनुमत्केश्वरमाहात्म्यवर्णनन्नामै कविंशोऽध्यायः ॥२१॥ ॥ छ ॥