॥ सनत्कुमार उवाच ॥ ॥
मासमेकं नरो भक्त्या पश्येद्वा वटयक्षिणीम् ॥
पूजयेत्स्वर्णपुष्पैश्च तस्य सिद्धिर्न हीयते ॥ १ ॥
इति वटयक्षिणीमाहात्म्यम् ॥
पिशाचके नरः स्नात्वा चतुर्दश्यां विशेषतः ॥
तिलान्ददाति यो भक्त्या न पिशाचः प्रजायते ॥ २ ॥
यं समुद्दिश्य यद्दत्तं तदक्षयतरं भवेत् ॥
तत्कुलं हि पिशाचत्वान्मुच्यते नात्र संशयः ॥ ३ ॥
यस्य नाम्ना नरः स्नाति पिशाच त्वात्स मुच्यते ॥
कुम्भान्वा करकान्वापि योऽत्र दद्यात्समण्डकान् ॥ ४ ॥
तस्य वै शाश्वती मुक्तिः कुले प्रेतो न जायते ॥
शिप्रागुम्फेश्वरं दृष्ट्वा रुद्र भक्तो जितेन्द्रियः ॥ ५ ॥
मुच्यते सर्वपापेभ्यः कञ्चुकेन फणी यथा ॥
स्नात्वागस्त्येश्वरं पश्येद्योऽतिभक्त्या च मानवः ॥ ६ ॥
त्यक्त्वा यमगृहं व्यास रुद्रलोकं स गच्छति ॥
शिप्रायां यो नरः स्नात्वा पश्येड्ढुण्ढेश्वरं शिवम् ॥ ७ ॥
सोऽश्वमेधफलं व्यास लभते नात्र संशयः ॥
देवेनात्र पुरा व्यास वादितो डमरुर्यतः ॥ ८ ॥
देवस्तेन समाख्यातो नाम्ना डमरुकेश्वरः ॥
भक्त्या पश्येन्नरो यस्तु देवं डमरुकेश्वरम् ॥ ९ ॥
नैव व्याधिभयं तस्य मृतः शिवपुरं व्रजेत् ॥
अनादिकल्पेश्वरं यस्तु भक्त्या पश्यति मानवः ॥ 5.1.20.१० ॥
राज्यं स लभते स्वर्गं यथा देवः पुरन्दरः ॥
देवानामप्यसौ व्यास स्पर्धनीयः सदा भवेत् ॥ ११॥
कल्पकोटिशतं साग्रं भोगयुक्तस्तु मोदते ॥
पश्येत्सिद्धेश्वरं यस्तु वीरभद्रं च चण्डिकाम्॥ ॥ १२ ॥
सोत्रैव लभते सिद्धिं जयं सर्वत्र मानवः ॥
स्वर्णजालेश्वरं दृष्ट्वा स्नातस्तीर्थे त्रिविष्टपे ॥१३॥
स्वर्णेन पूजयेद्देवं सर्वपापैः प्रमुच्यते ॥
स्नात्वा पश्येन्नरो भक्त्या यः कर्कोटेश्वरं शिवम् ॥ १४ ॥
सर्पतो न भयं तस्य दारिद्यं नैव जायते ॥
यः पश्येत्परया भक्त्या महामायां सनातनीम् ॥ ॥ १५ ॥
विष्णुमायाविनिर्मुक्तः स याति परमं पदम् ॥
अर्चयेत्परया भक्त्या यः कपालेश्वरं नरः ॥ १६ ॥
स मुच्येत महापापैर्यद्यपि ब्रह्महा भवेत् ॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ॥ १७ ॥
दर्शनात्तस्य देवस्य शतयज्ञफलं भवेत् ॥ १८ ॥
इतिश्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये चतुर्दशतीर्थयात्रावर्णनन्नाम विंशोऽध्यायः ॥ २० ॥ ॥ छ ॥