॥ सनत्कुमार उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि हरसिद्धिं सुसिद्धिदाम् ॥
पार्वत्या हरणे यत्र सिद्धिः प्राप्ता हरेण च ॥ १ ॥
बलिनौ दानवौ जातौ नाम्ना चण्डप्रचण्डकौ ॥
उत्खाय त्रिदिवं सर्वं गिरिं कैलासमागतौ ॥ २ ॥
दृष्ट्वा तत्र गिरीशं तु उद्यताक्षाक्षहस्तकम् ॥
नागेशं शशिखट्वाङ्गं गृहीत्वा दक्षिणे करे ॥ ३ ॥
देविदेवीति जल्पन्तं दासस्तेऽस्मीति वादिनम् ॥
यावदेकं तु फलकं तावद्द्यूतं प्रवर्तताम् ॥ ४ ॥
रागीभूते तदा देवे तौ प्राप्तौ देवकण्टकौ ॥
उत्सादिताः शिवगणा नन्दिना प्रतिषेधितौ ॥ ५ ॥
ततस्ताभ्यां तदा नन्दी शूलाभ्यां प्रविदारितः ॥
समं सव्यदक्षिणं वै सुस्राव रुधिरं बहु ॥ ६ ॥
नन्दिनं ताडितं दृष्ट्वा तदा शिलादनन्दनम् ॥
ध्याता हरेण सा देवी प्रणता साऽग्रतः स्थिता ॥ ७ ॥
वध्यतां तौ महादैत्यौ वधामीति वचोऽब्रवीत् ॥
गृहीत्वा मुद्गरं घोरमतिक्रोधादताडयत् ॥ ८ ॥
यदा तया हतौ दृष्टौ दानवौ बलगवितौ ॥
हरस्तामाह हे चण्डि संहृतौ दुष्टदानवौ ॥ ९ ॥
हरसिद्धिरतो लोके नाम्ना ख्यातिं गमिष्यसि ॥
ततः प्रभृति सा देवी हरसिद्धि प्रदायिनी ॥
हरसिद्धिरिति ख्याता महाकाले बभूव ह ॥ 5.1.19.१० ॥
यः पश्येत्परया भक्त्या हरसिद्धिं नरोत्तमः ॥
सोऽक्षयाल्ँलभते कामान्मृतः शिवपुरं व्रजेत् ॥ ११ ॥
आदिसिद्धिं महादेवीं नित्यां व्योमस्वरूपिणीम् ॥
हरसिद्धिं प्रपश्येद्यः सोऽभीष्टं लभते फलम् ॥ १२ ॥
यः स्मरेद्धरसिद्धीति मन्त्रं च चतुरक्षरम् ॥
न वैरिणो भयं तस्य दारिद्र्यं नैव जायते ॥ १३ ॥
नरो महानवम्यां यो हरसिद्धिं प्रपूजयेत् ॥
महिषं च बलिं दद्यात्स भवेद्भूपतिर्भुवि ॥ १४ ॥
नवम्यां पूजिता देवी हरसिद्धिर्हरप्रिया ॥
तुष्टा नृणां सदा व्यास ददात्यनवमं फलम् ॥ १५ ॥
सा पुण्या सा पवित्रा च सर्वत्र सुखदायिनी ॥
स्मृता सम्पूजिता दृष्टा धनपुत्रसुखप्रदा ॥ १६ ॥
महानवम्यां ये व्यास हन्यन्ते महिषादयः ॥
सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते ॥ १७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये हरसिद्धिमाहात्म्य वर्णनन्नामैकोनविंशोऽध्यायः ॥ १९ ॥ छ ॥