॥ सनत्कुमार उवाच ॥ ॥
एकानंशां नमस्कृत्य देवीं त्रैलोक्यविश्रुताम् ॥
पूजां कृत्वा विधानेन सर्वसिद्धिफलं लभेत् ॥ १ ॥
अणिमादिगुणान्सर्वान्गुटिकासिद्धिमञ्जनम् ॥
खड्गं च पादुके चैव विलवासं रसायनम् ॥
सर्वं तुष्टा प्रयच्छेत नात्र कार्या विचारणा ॥ २ ॥
सुरामांसोपहारैश्च भक्ष्यभोज्यैश्च पूजिता ॥
सर्वान्कामान्नृणां देवी तुष्टा दद्याच्च सर्वदा ॥ ३ ॥
महानवम्यां यो देवीं महिषेण प्रपूजयेत् ॥
मेषेण वा यथालाभं सर्वान्कामानवाप्नुया त् ॥ ४ ॥
॥ व्यास उवाच ॥ ॥
कथं देवी समुत्पन्ना एकानंशेति विश्रुता ॥
तत्सर्वं श्रोतुमिच्छामि सर्वपापप्रणाशिनी ॥ ५ ॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ॥
निशां सस्मार भगवान्स्वां तनूं पूर्वसम्भवाम् ॥ ६ ॥
ततो भगवती रात्रिरुपतस्थे पितामहम् ॥
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ॥ ७ ॥
॥ ब्रह्मोवाच ॥ ॥
विभावरी महामाये विबुधानामुपस्थितम् ॥
यत्कर्तव्यं त्वया देवि शृणु चार्थस्य निश्चयम्॥ ८ ॥
तारकोनाम दैत्येन्द्रः सुरशत्रुरनिर्जितः ॥
तस्य भयेन वै देवास्त्रस्ताः सर्वे दिवौकसः ॥ ९॥
तस्माद्भद्रे महेशो वै जनयिष्यति चेद्वरम् ॥
सुतं स भविता तस्य तारकस्यान्तकः किल ॥ 5.1.18.१० ॥
शङ्करम्याभवत्पत्नी सती दक्षसुता तु या ॥
सा पितुः कुपिता भद्रे कस्मिंश्चित्कारणान्तरे ॥ ११ ॥
भवित्री हिमशैलस्य दुहिता लोकपावनी ॥
विरहेण हरस्तस्या मत्वा शून्यञ्जगत्त्रयम् ॥ १२ ॥
अतपद्धिमशैलस्य कन्दरे सिद्धसेविते ॥
प्रतीक्षमाणस्तज्जन्म किञ्चित्कालं वसिष्यति ॥ १३ ॥
तस्मात्सुतप्ततपसोर्भविता यो महाप्रभुः ॥
स भविष्यति दैत्यस्य तारकस्य निवारकः ॥ १४ ॥
जातमात्रा तु सा देवी स्वल्पसञ्ज्ञैव भामिनी ॥
विरहोत्कण्ठिता गाढं हरसङ्गमलालसा ॥ १५ ॥
तयोः सुतप्ततपसोः संयोगः स्यात्सुयुक्तयोः ॥
पार्वतीहरयोस्तस्मात्सुरतं शक्तिकारणम् ॥ १६ ॥
भवेत्तत्र सुराणां च कार्यार्थे विप्रमाचर ॥
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु ॥ १७ ॥
गर्भस्थानेऽथ तां मातः स्वेन रूपेण रञ्जय ॥
ततो रहसि शर्वस्तां बिभ्रदानन्दपूर्वकम् ॥१८॥
हासयिष्यति कालीति ततः सा कुपिता सती ॥
प्रयास्यति तपः कर्तुं ततः सा तपसा युता ॥ १९ ॥
जनयिष्यति यं शर्वादिन्दुवज्ज्योतिमण्ड लम् ॥
स भविष्यति हन्ता वै सुरारीणां न संशयः ॥ 5.1.18.२० ॥
त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः ॥
यावच्च न सती देहे सङ्क्रान्तगुणसञ्चया ॥ २१ ॥
तत्सङ्गमेन तावत्त्वं दैत्यान्हन्तुं भविष्यसि ॥
एवं कृते त्वया देवि तपः काली करिष्यति ॥ २२ ॥
समाप्तनियमा सा च यदा गौरी भविष्यति ॥
तदा तवापि सारूप्यं शैलजा सम्प्रदास्यति ॥ २३ ॥
ततस्तवापि सहजा सैकानंशा भविष्यति ॥
रूपांशेन च संयुक्ता त्वमुमाख्या भविष्यसि ॥ २४ ॥
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति ॥
भेदैर्बहुविधाकारैः सर्वगां कामसाधनीम् २५ ॥
ॐकारवक्त्रा गायत्री त्वमेव ब्रह्मवादिनी ॥
आक्रान्तरुचिराकारा राज्ञां चाहवशालिनी ॥२६॥
विशां त्वं कमलादेवी शूद्राणां जननी स्वयम् ॥
ज्ञानिनां ज्ञेयरूपा त्वं त्वं गतिः सर्वदेहिनाम् ॥ २७ ॥
त्वं च कीर्तिमतां कीर्तिस्त्वं भूतिः सर्वदेहिनाम् ॥
रतिदा रक्तचित्तानां प्रीतिस्त्वं स्नेहवर्तिनाम्॥ २८ ॥
त्वं कान्तिः कृतभूषा णां त्वं शान्तिर्हृष्टकर्मणाम् ॥
त्वं च भ्रान्तिरबोधानां त्वं कीर्तिः क्रमयाजिनाम् ॥ २९ ॥
महावेला समुद्राणां विलासस्त्वं विलासिनाम् ॥
सम्भूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकशालिनाम् ॥ 5.1.18.३० ॥
इत्यनेकविधैर्देवि रूपैर्लोकेषु चर्चिता ॥
ये त्वां पश्यन्ति वरदे पूजयिष्यन्ति चापि ये ॥
कामा नाप्स्यन्ति ते सर्वे नियतं नात्र संशयः ॥ ३१ ॥
इत्येवं सा समुत्पन्ना ब्रह्मणा संस्तुता सती ॥
एकानंशा महादेवी ध्यातव्या सापि भक्तितः ॥३२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्य एकानंशामाहात्म्यवर्णनन्नामाष्टादशो ऽध्यायः ॥ १८ ॥ ॥ छ ॥