॥ सनत्कुमार उवाच ॥ ॥
दशाश्वमेधिके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मान वः ॥ १ ॥
मनुना मानवेन्द्रेण राज्ञा चैव ययातिना ॥
रघुणोशनसा चैव लोमशेन महर्षिणा ॥ २ ॥
अत्रिणा भृगुणा व्यास दत्तात्रेयेण धीमता ॥
पुरूरवसा पुण्येन नहुषेण नलेन च ॥ ३ ॥
अत्र स्नानेन सम्प्राप्तं दशाश्वमेधिकं फलम् ॥
सम्प्राप्ते द्वापरस्यान्ते राज्ञा बाष्कलिना तथा ॥ ४ ॥
दशानामश्वमेधानां फल प्राप्तं द्विजोत्तम ॥
कृष्णवर्णं तथा लिङ्गं पूजितं भक्तितः सदा ॥ ५ ॥
दृष्ट्वा स्पृष्ट्वा च तं देवं प्रागुक्तं लभते फलम् ॥
चैत्रे मासि सिताष्टम्यां देवं सम्पूज्य भक्तितः ॥ ६ ॥
अश्वं दद्याच्च विप्राय सुरूपं च गुणान्वितम् ॥
यावन्ति तस्य रोमाणि गण्यन्ते सङ्ख्यया द्विज ॥ ७ ॥
तावद्वर्षसहस्राणि शिवलोके महीयते ॥
शिवलोकात्परिभ्रष्टः सार्वभौमो भवेद्भुवि ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्यवर्णनन्नाम सप्तदशोऽध्यायः ॥ १७ ॥