॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महातीर्थं नाम्ना शङ्करवापिका ॥
क्रीडमानेन देवेन निर्मितं तीर्थमुत्तमम् ॥ १ ॥
प्रक्षिप्तं देवदेवेन कपालक्षालनं जलम् ॥
वापीगतं कृतं यस्मादतः शङ्करवापिका ॥ २ ॥
अर्काष्टम्यां नरः स्नात्वा दिशासु विदिशासु च ॥
पूर्वादिक्रमतो यावद्वापीमध्ये तथैव च ॥ ३ ॥
हविष्यान्नयुतान्व्यास दद्याच्च करका न्नवान्॥
शाकमूलांश्च विप्रेभ्यस्तस्य पुण्यफलं शृणु ॥ ४ ॥
परत्र चेह ये लोकाः सर्वभावसमन्विताः ॥
तत्रतत्र समायाति भुनक्त्यैश्वर्यमुत्तमम् ॥ ॥ ५ ॥
ये नरा कीर्तयिष्यन्ति माहात्म्यमतिभाविकाः ॥
रुद्रलोकेऽपि ते पूज्यास्तेभ्योऽपि सततं नमः ॥ ६ ॥
॥ सनत्कुमार उवाच ॥ ॥
ततो वै देवदेवेशः पिनाकी वृषभध्वजः ॥
तुष्टाव प्रयतो भूत्वा देवदेवं दिवाकरम् ॥ ७ ॥
आजगाम दिवानाथः सन्तुष्टः प्राह शङ्करम् ॥ ८ ॥ ॥
॥ सूर्य उवाच ॥ ॥
वरं वरय भूतेश वरदोऽस्मि ददामि ते ॥
तमाह वरदश्चेत्त्वं याच्यमानं कुरुष्व मे ॥ ९ ॥
अंशेन स्थीयतामत्र हितार्थं सर्वदेहिनाम् ॥
अवतीर्णो रविस्तत्र श्रुत्वा माहेश्वरं वचः ॥ 5.1.15.१० ॥
ततो देवाधिदेवस्य शङ्करस्य महौजसः ॥
वाक्येन भास्करस्तत्र ययौ ख्यातिं महाद्युतिः ॥ ११ ॥
शङ्करादित्यनामेति लोकानुग्रहकारकः ॥
देवा दैत्याश्च गन्धर्वा विस्मिताः सह किन्नरैः ॥ १२ ॥
अहो धन्यमिदं स्थानं यत्रास्ते त्रिपुरान्तकः ॥
भास्करोऽपि च तत्रस्थस्तीर्थमध्ये च वर्तते ॥ १३ ॥
ततस्तुष्टाश्च ते सर्वे ब्रह्माद्याः सुरसत्तमाः ॥
देवेशं पूजयामासुरादित्यं शङ्करं तथा॥१४॥
मूर्तिमन्तश्च ते देवा अवतीर्य च शोभनम् ॥
स्थापयित्वाऽब्रवीद्वाक्यं येऽत्र स्नास्यन्ति मानवाः ॥१५॥
न दुःखं जायते तेषां जरामरण शोकजम् ॥
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम्॥
तस्माच्चैवाधिकं ह्यत्र शङ्करादित्यदर्शनात्॥१६॥
व्याधयो नाधयश्चैव दारिद्र्यं न कदाचन ॥
ऐश्वर्यं चातुलं तेषां जायते भुवि सर्वदा ॥१७॥
न रोगो न च दारिद्र्यं वियोगो न च बन्धुभिः ॥
जायते मुनिशार्दूल शङ्करादित्यदर्शनात्॥१८॥
इत्येवं देवदेवेन पुरा वै शूलपाणिना ॥
शङ्करादित्यनाम्ना च स्थापितं परमं पदम् ॥ १९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शङ्करादित्यमाहात्म्यवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥ छ ॥