०१४ चतुःसमुद्रमाहात्म्यवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
स्नात्वा चतुःसमुद्रे तु पश्येद्राजस्थलं शिवम् ॥
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः ॥ १ ॥
समुद्राः सन्ति चत्वारः क्षारक्षीरदधीक्षवः ॥
समीपे तस्य देवस्य सुद्युम्नेन प्रतिष्ठिताः ॥ २ ॥
॥ व्यास उवाच ॥ ॥
राजस्थल समीपे तु समुद्राः केन हेतुना ॥
कथय त्वं मुनिश्रेष्ठ सुद्युम्नेन प्रतिष्ठिताः ॥ ३ ॥
लक्षयोजनपर्यन्तं जम्बुद्वीपं सुशोभनम् ॥
मर्यादायां स्थापितोऽयं समुद्रः क्षारसञ्ज्ञितः ॥४॥
शाकद्वीपे द्विलक्षे तु क्षीराब्धिः सम्प्रतिष्ठितः ॥
दध्यब्धिस्तु कुशद्वीपे चतुर्लक्षः प्रतिष्ठितः॥
शाल्मले त्विक्षुजलधिर्ह्यष्टलक्षः प्रतिष्ठितः ॥ ५ ॥
चत्वारस्ते समाख्याताः समुद्रा भूमिमण्डले ॥
राजस्थलसमीपे तु कथमेकत्र सङ्गताः ॥ ६ ॥
॥ सनत्कुमार उवाच ॥ ॥
सुद्युम्नो नाम राजासीत्पुरा कल्पे सुधार्मिकः ॥
तस्य पत्नी वरारोहा नाम्ना ख्याता सुदर्शना ॥ ७ ॥
मुनिं दाल्भ्यं च सा दृष्ट्वा पप्रच्छ सुतकाम्यया ॥
भगवन्केन दानेन स्नानेन विधिनाऽथवा ॥ ८ ॥
सर्वलक्षणसम्पूर्णः पुत्रो लभ्यो मया कथम् ॥
एतदाख्याहि विप्रर्षे याथातथ्यं सविस्तरम् ॥ ॥ ९ ॥
॥ दाल्भ्य उवाच ॥ ॥
विहितास्ते पुरा पुत्र्यब्धयः पुत्रेप्सयोत्तमाः ॥
स्वयम्भुवेन देवेन ब्रह्मणा लोककारिणा ॥ 5.1.14.१० ॥
तेषु राज्ञा कृते स्नाने तव पुत्रो भविष्यति ॥
शङ्कराराधने पुत्रि तस्मात्प्रेरय वल्लभम् ॥ ११ ॥
दाल्भ्यस्यैव तु वाक्येन विचित्राख्यानकेन च ॥
प्रस्थापयामास पतिं शङ्कराराधने द्रुतम्॥ १२ ॥
स गत्वा तोषयामास शङ्करं गन्धमादने ॥
सन्तुष्टः शङ्करः प्राह शशिसूर्याग्निलोचनः ॥१३॥
अवन्तीं गच्छ राजेद्र पुत्रं प्राप्स्यसि शोभनम्॥
मच्छासनाज्जलधयो गमिष्यन्ति कुशस्थलीम् ॥ १४ ॥
मेरुरूपे स्थले राजन्समीपे शङ्करस्य च ॥
द्रक्ष्यसि त्वं नरश्रेष्ठ जलधींस्तत्र सङ्गतान्॥
अभ्यर्थितास्त्वया तत्र स्थास्यन्ति कलया सदा ॥ १५ ॥
एवमुक्त्वा महादेवो जगामादर्शनं विभुः ॥
सुद्युम्नो भार्यया सार्धमाजगाम कुशस्थलीम् ॥ १६ ॥
आगतस्तु कुशस्थल्यां समुद्रांश्च ददर्श ह ॥
तांस्तु दृष्ट्वा नमश्चक्रे राजस्थलसमीपतः ॥ १७ ॥
ते वै दृष्ट्वा च सुद्युम्नं प्रणतं भक्तवत्सलम् ॥
प्रोचुर्वारिधयः सर्वे वरं वरय सुव्रत ॥१६॥
स वव्रे मनसा पुत्रं सर्वलक्षणसंयुतम् ॥
उवाच च पुना राजा यावत्ति ष्ठति मेदिनी ॥
तावदत्रैव स्थातव्यं राजस्थलसमीपतः ॥ १९ ॥
॥ समुद्रा ऊचुः ॥ ॥
तावत्स्थास्यामहेऽत्रैव यावत्कल्पावसानकम् ॥ 5.1.14.२० ॥
भविष्यति च ते पुत्रः सर्वलक्षणसंयुतः ॥
अत्र ते स्नानमात्रेण तस्मात्स्नानं समाचर ॥ २१ ॥
स्थले चात्र शुभे राजन्स्थास्यामः कलया सह ॥।
एवं व्यास समुद्रास्तु सुद्युम्नेनावतारिताः ॥ २२ ॥
कुरुते तेषु यो यात्रां तस्य पुण्यफलं शृणु ॥
स्नानं कृत्वा महापुण्ये समुद्रे क्षारसञ्ज्ञके ॥। ॥ २३ ॥
कुर्याच्छाद्धं ततो व्यास पितॄणां भक्तितत्परः ॥
पूजयेच्च महादेवं स्थलस्थं पार्वतीपतिम् ॥ २४ ॥
मण्डकांश्च ततो दद्याद्ब्राह्मणे वेदपारगे ॥।
पात्रं ताम्रमयं कार्यं लवणेन प्रपूरितम् ॥ २५ ॥
सहिरण्यं च दातव्यं ब्राह्मणे वेदपारगे ॥
सप्तधान्यसमायुक्तं वेणुजं वस्त्रवेष्टितम् ॥ २६ ॥
सदक्षिणं फलैर्युक्तमर्घ्यं दद्यात्प्रयत्नतः ॥
क्षीराब्धिं च ततो गत्वा स्नानं कुर्याच्च पूर्ववत् ॥ २७ ॥
क्षीरं तत्र प्रदातव्यं ताम्रपात्रेण पूरितम् ॥
दध्यब्धौ च तथा कृत्वा दद्याद्दध्योदनं शुभम् ॥ २८ ॥
इक्ष्वब्धौ च तथा कृत्वा दद्याद्विप्रे गुडं शुभम् ॥
यात्रां कृत्वा तु वै व्यास गां च दद्यात्पयस्विनीम् ॥ २९ ॥।
एवं यः कुरुते यात्रां राजस्थलसमीपतः ॥
भव्यां हि लभते लक्ष्मीं पुत्रांश्चापि मनोरमान् ॥ 5.1.14.३० ॥
मृते स्वर्गमवाप्नोति यावदिन्द्राश्चतुर्दश ॥
तावत्स्वर्गफलं भुक्त्वा पश्चान्मोक्षं प्रयास्यति ॥ ३१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहा त्म्ये राजस्थलेश्वरसमीपे चतुःसमुद्रमाहात्म्यवर्णनन्नाम चतुर्दशोऽध्यायः ॥ १४ ॥ छ ॥