०१३ वर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ॥
श्राद्धं तत्रैव कुर्वीत पितॄनुद्दिश्य भक्तितः ॥ १ ॥
पितॄंश्च स नरो व्यास तारयेदात्मना सह ॥
स्वर्गद्वारेण योऽभ्येति रुद्रस्य परमं पदम् ॥ २ ॥
भैरवस्याग्रतो देवी पूर्वे तिष्ठति चाम्बिका ॥
तां तु दृष्ट्वा नरः स्त्री वा मुच्यते सर्वपातकैः ॥ ३ ॥
महानवम्यां पुरुषः कृत्वा बस्तमयं बलिम् ॥
महिषं वा सुरां मांसं मालां बिल्वमयीं शुभाम् ॥
भक्त्या निवेद्य देव्यै तु सर्वासिद्धिमवाप्नुयात् ॥ ४ ॥
तत्र स्नात्वा नरो भक्त्या पूजां कृत्वा महेश्वरे ॥
स्वर्गद्वारेण सोऽभ्येति रुद्रस्य भवनं द्विज ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये स्वर्गद्वारमाहात्म्य वर्णनन्नाम त्रयोदशोध्यायः ॥ १३ ॥ ॥छ॥