०१२ माहात्म्यवर्णनम्

सनत्कुमार उवाच॥
उत्तरे तु प्रवक्ष्यामि मर्कटेश्वरमुत्तमम्॥
तत्र तीर्थं च विख्यातं सर्वकामप्रदायकम् ॥ १ ॥
तस्मिंस्तीर्थे नरः स्नात्वा गोशतस्य फलं लभेत्॥
विस्फोटानां प्रशान्त्यर्थं बालानां चैव कारणे ॥२ ॥
मापेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत् ॥
शीतलायाः प्रभावेन बालाः सन्तु निरामयाः ॥ ३ ॥
ये पश्यन्ति नरा भक्त्या शीतलां दुरितापहाम् ॥
न तेषां दुष्कृतं किञ्चिन्न दारिद्र्यं द्विजोत्तम ॥ ४ ॥
न च रोगभयं तेषां ग्रहपीडा तथैव च ॥५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शीतला माहात्म्यवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥ ॥ छ ॥