०११ विद्याधरतीर्थमाहात्म्यवर्णनम्

अथातः सम्प्रवक्ष्यामि तीर्थं विद्याधरस्य तु ॥
तत्र स्नात्वा शुचिर्भूत्वा विद्याधरपतिर्भवेत् ॥ १ ॥
॥ व्यास उवाच ॥ ॥
कथं तीर्थमिदं क्षेत्रे जातमत्र महामुने ॥
प्रसादाद्ब्रूहि मे ब्रह्मञ्छ्रोतुमिच्छामि साम्प्रतम् ॥ २ ॥
॥ सनत्कुमार उवाच ॥ ॥
विद्याधरपतिः कश्चिदासीद्रूपधरः पुरा ॥
ग्रथिता पारिजातस्य माला तेन मनोरमा ॥ ३ ॥
गृहीत्वा च स तां मालां गतो वासववेश्मनि ॥
नृत्यन्ती वासवस्याग्रे दृष्टा तेन च मेनका ॥ ४ ॥
दत्ता तस्यै तदा तेन सा माला नृत्यमाश्रितः ॥
सा मेनकास्तुताऽस्थाने मालया मोहिता भवत्। ५ ॥
कोपाविष्टेन शक्रेण शप्तो विद्याधरस्तदा ॥
पृथिव्यां गच्छ पापिष्ठ नृत्यभङ्गस्त्वया कृतः ॥ ६ ॥
विद्याधरपदं त्यक्त्वा मम शापाच्च साम्प्रतम्॥
एवमुक्तस्तु शक्रेण वाक्यं विद्याधरोऽब्रवीत॥ ७ ॥
अजानता मया नाथ अपराधः कृतोऽधुना ॥
अनुग्रहमतो देव कुरु मे त्वं प्रसा दतः ॥ ८॥
एवमुक्तः स शक्रो वै विद्याधरमुवाच ह ॥
गच्छावन्तीं त्वमद्यैव यत्रास्ते गाङ्गटी गुहा ॥९॥
तस्याश्चोत्तरभागे तु विद्यते तीर्थमुत्तमम् ॥
ख्यातं तत्त्रिषु लोकेषु नाम्ना विद्याधरं शुभम् ॥ 5.1.11.१० ॥
भक्त्या तत्र कृते स्नाने विद्याधरपतिर्भवेत् ॥
अतस्त्वमपि तत्रैव कुरु स्नानं प्रयत्नतः ॥११॥
एवमुक्तः स शक्रेण आगतोऽवन्तिमण्डले ॥
स्नानं कृत्वा च तेनैव तीर्थे तस्मिन्मनोरमे ॥ १२ ॥
प्रभावात्तस्य तीर्थस्य पुनः प्राप्तं पदं स्वकम् ॥
एवं व्यास समाख्यातं तीर्थं विद्याधरं शुभम्॥१३॥
तत्र पुष्पाणि यो दद्याच्चन्दनं च विलेपनम् ॥
लभेत्समस्तभोगान्स इहलोके परत्र च ॥१४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवन्त्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये विद्याधरतीर्थमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥११॥