०१० कुटुम्बिकेश्वरमाहात्म्यवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि तीर्थ त्रैलोक्य विश्रुतम्॥
स्वयम्भूतं महेशस्य विख्यातं कुटुम्बिकेश्वरम्॥ १ ॥
मुच्यते सर्वपापैस्तु सप्तजन्मकृतैरपि ॥
शुचिः पश्यति यो देवं कृत्वा श्राद्धं यथा विधि ॥ २ ॥
सर्वाल्ँलोकानतिक्रम्य शिवलोकं स गच्छति ॥
यस्तु सर्वाणि शाकानि कन्दानि विविधानि च ॥ ३ ॥
तीरे तस्य प्रयच्छेत स प्राप्नोति परां गतिम् ॥
पौषे प्रतिपदि सिते अष्टम्यां वा समाहितः ॥ ४ ॥
एकेनैवोपवासेन अश्वमेधफलं लभेत् ॥
आश्विन्यां पौर्णमास्यां च शुचिः पश्यति मानवः ॥ ५ ॥
पट्टबन्धं महेशस्य स विपाप्मा दिवं व्रजेत् ॥
चैत्रे मासि सिते पक्षे पञ्चम्यां समुपोषितः ॥ ६ ॥
कर्पूरं कुङ्कुमं चैव मृगनाभि सचन्दनम्॥
निवेदयति देवाय नैवेद्यं घृतपायसम् ॥ ७ ॥
स्वरूपं चैव विप्रेन्द्र सभार्यं भोजयेद्द्विजम् ॥
रुद्रलोकमवाप्नोति यावदिन्द्राश्चतु र्दश ॥ ८ ॥
इति श्रीस्कान्दे महापुराणएकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुटुम्बिकेश्वरमाहात्म्यवर्णनन्नाम दशमोऽध्यायः ॥ १० ॥ ॥ छ ॥ ॥