॥ व्यास उवाच ॥ ॥
कथं तन्माहिषं कुण्डं मातॄणामाकृतिः कथम्॥
रुद्रस्यैव कथं क्षेत्रे महिषो दानवो हतः ॥१॥
॥ सनत्कुमार उवाच ॥ ॥
कपालखण्डमादायं महादेवोऽप्यतिप्रभम् ।
ब्रह्मतेजो मयं दिव्यं ज्वलन्तमिव चार्चिषा ॥२॥
क्रीडमानो जगन्नाथो मोहयामास वै सुरान्॥
निमेषात्स इमं लोकं योगात्मा योगलीलया॥३॥
प्राप्य पुण्यतमं क्षेत्रं यत्रातिष्ठन्महाप्रभुः ॥
तत्रतत्र महद्दिव्यं कपालं देवताधिपः ॥ ४ ॥
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥
त्वत्स्थापितमथो दृष्ट्वा गताः सर्वे महौजसः ॥ ५ ॥
विनदत्समहानादं नादयन्त दिशो दश ॥
क्षोभार्णवाशनिप्रख्यं नभो येन विदीर्यते ॥ ६ ॥
तेन शब्देन घोरेण दानवो देवकण्टकः ॥
हालाहल इति ख्यातो देशं तमभिधावितः ॥ ७ ॥
अमृष्यमाणः क्रोधार्तो दुरात्मा दुर्जयः सुरैः ॥
ब्रह्मदत्तवरश्चैव माहिषं वपुरास्थितः ॥ ८ ॥
दैत्यैः परिवृतो घोरै कोटिभिश्चोद्यतायुधैः ॥
तमायान्तं तु सक्रोधं महिषं देवकण्टकम् ॥ ९ ॥
समावेक्ष्याह वै देवो गणान्सर्वा न्पिनाकधृक् ॥
मायावी गणपा दैत्यस्त्रैलोक्यस्यापि कण्टकः ॥ 5.1.9.१० ॥
आयाति त्वरितो यूयं तस्मादेनं विनिघ्नथ ॥
कपालस्य गतिं सर्व आश्रिता गणनायकाः ॥ ११ ॥
ततो देवगणा दृष्ट्वा तमायान्तं महासुरम् ॥
गर्जमानं महानादं भ्रममाणं महाभुजम् ॥ १२ ॥
बिभिदुः शलसङ्घातैरसिभि र्मुसलैस्तथा ॥
सम्मुह्य शरजालेन ततो भूमौ न्यपातयन् ॥ १३ ॥
हते तस्मिन्महादेवो देवान्प्रोवाच वै तदा ॥
अहो दर्पातिमूढः स दर्पेण निधनं गतः ॥ १४ ॥
एतस्मिन्नन्तरे व्यास तत्कपालात्सुभैरवाः ॥
दीप्तास्या मातरः सर्वाः प्रचण्डास्त्रा महाबलाः ॥ १५ ॥
अभ्यधावंस्तमुद्देशं महादेवं निवेद्य वै ॥
दैत्यं ता भक्षयन्ति स्म भित्त्वा भित्त्वा महाबलाः ॥ १६ ॥
कपालमातरस्तस्मात्ख्याताः क्षेत्रे महाबलाः ॥
महाकपालस्तस्माद्वै तादृशः परि कीर्तितः ॥ १७ ॥
स्थापितस्य कपालस्य भित्त्वा समभवत्पुरा ॥
ख्यातं शिवतडागं च सर्वपापप्रणाशनम् ॥ १८ ॥
तदद्यापि महद्दिव्यं सरस्तत्र प्रकाशते ॥
त्रिषु लोकेषु विख्यातं गणगन्धर्वसेवितम् ॥ १९ ॥
पात्रस्थमुद्धुतं वापि शीतोष्णं क्वथितं जलम् ॥
रौद्रं सरः पुनातीहाश्वमेधावभृथो यथा ॥ 5.1.9.२० ॥
प्रागाद्ब्रह्मापि तं देशं देवतानां शतैर्वृतः ॥
स्वर्गलोकस्य निःश्रेणी कीर्तिता ब्रह्मणा स्वयम् ॥ २१ ॥
अत्र त्यजन्ति ये प्राणान्रुद्र लोकं व्रजन्ति ते ॥
धन्या व्यास नरा मर्त्ये महाकालवने स्थिताः ॥ २२ ॥
रौद्रे सरसि ये स्नान्ति जलं वापि पिबन्ति ये ॥
स्वधर्माचारनिरताः पश्यन्तीशानमीश्वरम् ॥ २३ ॥
इति स्वर्गगता देवाः स्पृहां कुर्वन्ति नित्यशः ॥ २४ ॥
इदं शुभं दिव्यमधर्मनाशनं महाकपालं सुरदैत्यपूजितम् ॥
महाप्रभं पापहरं सनातनं सुरेशलोकादपि दुर्लभं सदा ॥ २५ ॥
तपोरतैः सिद्धगणैरभिष्टुतं यथा नभःस्थं दिननाथमण्डलम् ॥
य एकचित्तः शृणुयात्प्रसादतस्त्रिविष्टपं गच्छति सोऽभिनन्दितः ॥२६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये महिषकुण्डरुद्रसरोमाहात्म्यवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥ ॥ छ ॥