॥ व्यास उवाच ॥ ॥
आचारः परमो धर्मः सर्वधर्मपरायणः ॥
स्वधर्मनिरताश्चैव जितक्रोधा जितेन्द्रियाः ॥ १ ॥
रुद्रलोकं व्रजन्तीह नात्र चित्रा मतिर्मम ॥
असंशयं च गच्छन्ति लोकानन्याञ्छशिप्रभैः ॥ २ ॥
विनापि क्षेत्रवासेन तथैव नियमेन च ॥
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः ॥ ३ ॥
मूका जडान्धबधि रास्तपोनियमवर्जिताः ॥
एषां तु का गतिश्चेत्ते महाकालवने मृताः ॥ ४ ॥
॥ सनत्कुमार उवाच ॥ ॥
स्त्रियो म्लेच्छाश्च मूढाश्च पशवः पक्षिणो मृगाः ॥
कालेनैव मृता व्यास रुद्रलोकं व्रजन्ति ते ॥ ५ ॥
शरीरैर्दिव्यरूपैश्च सर्वभोगसमन्विताः ॥
रमन्ते शम्भुना सार्धं स्मशाने प्रेतसङ्कुले ॥ ६ ॥
निर्भत्सिता पुरा देवी कालीति पार्वतीति च ॥
तदा सा कुपिता देवी कटके शङ्करं प्रति ॥७॥
एवं हि कलहो जातः शिवगौर्योर्हि यत्र तु ॥
देवस्तत्र समुद्भूतो नाम्ना कलकलेश्वरः ॥ ८ ॥
कृतमग्रे तदा कुण्डं नाम्ना कलहनाशनम् ॥
स्नाने तत्र कृते व्यास जाताऽकलहिनी प्रिया ॥ ९ ॥
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा महेश्वरम् ॥
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥5.1.8.१०॥
तत्र यच्छति यो दानं त्रुटिमात्रं च चन्दनम् ॥
आत्मना तारि तास्तेन दश पूर्वे दशापरे ॥ ११ ॥
भूमिदानं च यस्तत्र प्रदास्यति नरो मुने ॥
अपि गोचर्ममात्रेण सर्वभूम्यधिपो भवेत् ॥ १२ ॥
गामेकां रक्ति कामेकां भूमेरप्येकमङ्गुलम् ॥
यः प्रदास्यति भक्त्या हि स वै राजा भविष्यति ॥ १३ ॥
धेनुमश्वांस्तिलान्वस्त्रं भाजनं ताम्रदोहनम् ॥
उपानहश्च च्छत्रं च तथा च श्रेष्ठपादुके ॥ १४ ॥
ये प्रदास्यन्ति विप्रेभ्यस्तेषां लोकाः सदाऽक्षयाः ॥
तस्य दक्षिणपार्श्वे तु पृष्ठे मात्राख्य देवताः ॥ १५ ॥
सा तत्र सर्वलोकानां देवी दुरितहारिणी ॥
सर्वतीर्थं तु विज्ञेयं मणिकर्णिकमुत्तमम् ॥ १६ ॥
तस्मिन्स्नात्वा तु यः पश्येत्पृष्ठमातर आदरात्॥
स मुक्तः सर्वपापेभ्यः सिद्धिमाप्नोति वाञ्छिताम् ॥ १७ ॥
तासां तु दर्शनं कृत्वा मार्गे गमनमाचरेत्॥
न भयं तस्य चोरेभ्यो रक्षोभूतभयं तथा ॥ १८ ॥
स्वदेशे परदेशे वा पर्वतेष्वटवीषु च ॥
न समुद्रे भयं तस्य तथा वै दुष्टभावना ॥ १९ ॥
ग्रहपीडासु सर्वासु तथा राजभयादिकम् ॥
बस्तं वा यदि वा मेषं महिषं चापि घातयेत् ॥ 5.1.8.२० ॥
देवीमुद्दिश्य यो विप्र सोऽभीष्टफलमश्नुते ॥
आश्विनस्य सिताष्टम्यामर्धरात्रिगते नरः ॥ ॥ २१ ॥
यः स्नाति पुरतो देव्याः स सिद्धि लभते पराम् ॥
मृतपुत्रा च या नारी कुण्डे स्नात्वा सभर्तृका ॥ २२ ॥
स्नाति वै फलकुम्भेन अग्रे देव्या विधानतः ॥
स्नात्वा नान्यमुखं पश्येत्कुम्भस्नानेन वै मुने ॥ २३ ॥
तस्य सञ्जायते पुत्रो यथा देवः षडाननः ॥
पृष्ठे मातुः परं पुण्यं तीर्थमप्सरसां शुभम् ॥ २४ ॥
रूपसौभाग्यसम्पन्नस्तत्र स्नातो भवेन्नरः ॥
उर्वश्या वै पुरा व्यास तीर्थस्यास्य प्रभावतः ॥ २५ ॥
भर्ता पुरूरवा लब्धं ऐलेयोंऽसौ महीपतिः ॥
इति कौतूहलं श्रुत्वा व्यासो वचनमब्रवीत् ॥ २६ ॥
॥ व्यास उवाच ॥ ॥
कथमप्सरसां तीर्थं तत्र जातं महामुने ॥
कारणेन यथा तेन यस्मिन्काले प्रतिष्ठितम् ॥
तथा तन्मे सविस्तारं सरहस्यं प्रकीर्तय ॥ २७ ॥
कथं पुरूरवाश्चासौ भार्यास्तस्य वराप्सराः ॥
उर्वशीनाम का सा तु केन जाता वराङ्गना ॥
सर्वमेतद्यथावृत्तं वद कौतूहलं हि मे ॥ २८ ॥
॥ सनत्कुमार उवाच ॥ ॥
नरनारायणौ पूर्वं यत्र वै तेपतुस्तपः ॥ २९ ॥
बदरिकाश्रमस्थौ तौ तेनेन्द्रो भयमागतः ॥
सर्वाश्चाप्सरसो हृद्या रूपयौवनदर्पिताः ॥ 5.1.8.३० ॥
आदिष्टा या मघवता विघ्नार्थं च समागताः ॥
तौ दृष्ट्वाप्सरसस्तत्र रमन्तीर्मदविह्वलाः ॥ ३१ ॥
विघ्नार्थमिह आयातास्तदा देवौ जजल्पतुः ॥
अस्माकं न स्त्रियः सन्ति तेन वै विघ्नकारणम् ॥ ३२ ॥
एवं सञ्जल्प्य च नरो नारायणमुवाच ह ॥
करिष्याम्यहमेकां वै आसां तु रूपतोऽधिकाम्॥३३॥
मञ्जर्या सहकारस्य स्त्रीमूरुभ्यां चकार ह ॥
रूपेणाप्रतिमां लोके सर्वाभरणभूषिताम् ॥ ३४ ॥
उत्थितां प्रमदां दृष्ट्वा ज्वलनाभां वराङ्गनाम् ॥
गत्वा शशंसुस्ताः शक्रं न र्तौ लोभयितुं क्षमाः ॥ ३५ ॥
शक्रस्तासां वचः श्रुत्वा गत्वा देवावुवाच ह ॥
प्रणामावनतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ॥ ३६ ॥
अहमर्थी स्त्रियाश्चास्याः प्रसादः क्रियतामिति ॥
ततस्तां ददतुर्देवाविन्द्राय परमेश्वरौ ॥ ३७ ॥
अस्मद्वचनसामर्थ्याद्गृहाणेमां त्वमुर्वशीम् ॥
ऊरुभ्यां जनिता यस्मान्नरेणेयं वराङ्गना ॥ ३८ ॥
मञ्जर्या सहकारस्य तेनेयमुर्वशी स्मृता ॥
पुरन्दरो गृहीत्वा तामुर्वशीं परमाङ्गनाम् ॥ ३९ ॥
गत्वा स्वर्गमथाहूय चित्राङ्गदमुवाच ह ॥
शिक्षाऽस्याः क्रियतां चित्र यथा नृत्ये विचक्षणा ॥ 5.1.8.४० ॥
क्रियतामचिरादेषा यत्नमास्थाय शोभनम् ॥
एवमुक्ते तु शक्रेण कृता तेन विचक्षणा ॥
वरं प्रवीणा सा जाता नृत्ये गीते च कोविदा ॥ ४१ ॥
एवं सा न्यवसत्तत्र सुरसद्मनि सुन्दरी ॥
गते बहुतिथे काले तत्रा गात्स नरेश्वरः ॥ ४२ ॥
इलस्यपुत्रो धर्मात्मा नाम्ना चैव पुरूरवाः ॥
इन्द्रस्यार्द्धासनगतो नृत्यं पश्यति तत्र ह ॥ ४३ ॥
नृत्यन्तीं वासवस्याग्रे उर्वशीं वीक्ष्य कामुकः ॥
हृतचित्तस्तया राजा न किञ्चित्प्रत्यपद्यत ॥ ४४ ॥
धैर्यं चित्ते समावेश्य मुहूर्तं पर्यवस्थितः ॥
उर्वशी च तदा तेन दर्शनाहतमानसा ॥ ४५ ॥
तत्प्रदेशाद्विनिष्क्रम्य कामार्ता चातिविह्वला ॥
भूमौ सा पतिता बाला उच्छ्रिताद्रङ्गमण्डलात् ॥ ४६ ॥
अथात्मानं च संवेद्य उत्थिता भूमिमण्डलात् ॥
दृष्टा सा राजसिंहेन मन्मथेन प्रपीडिता ॥ ४७ ॥
गतः पुरूरवा भूमिं तामेव मनसा स्मरन् ॥
स्मरन्ती राजशार्दूलं गता साप्युर्वशी गृहम् ॥ ४८ ॥
चित्राङ्गदगृहे गत्वा दूतं साथ चकार ह ॥
चित्राङ्गदेन सा नीता रात्रौ यत्र पुरूरवाः ॥ ४९ ॥
उर्वश्या रहितः स्वर्गः शून्योऽप्यासीद्दिवौकसाम् ॥
रात्रावेव च सा तेन आनीता त्रिदिवं पुनः ॥ 5.1.8.५० ॥
तया विरहितः सोऽपि शून्यचित्तः परिभ्रमन् ॥
उन्मत्ततां गतो व्यास षष्टिवर्षाणि पार्थिवः ॥५१॥
परिभ्रमन्स तीर्थानि महाकालवनं गतः ॥
गन्ध वेण्णोर्वशी स्वर्गे नीता सा परमाप्सराः ॥ ५२ ॥
नापि शेते न वा स्नाति हे राजन्निति जल्पति ॥
तावदप्सरसः सर्वास्ताः प्राप्ता यत्र चोर्वशी ॥ ५३ ॥
रम्भा च मेनका चैव प्रम्लोचा पुञ्जिकस्थली ॥
जलपूर्णाश्रुपूर्णा च वसन्ता चन्द्रिका तथा ॥ ५४ ॥
सूर्यदत्ता विशालाक्षी चन्द्रा चन्द्रप्रभा तथा ॥
आगत्य तास्तु सहिता उर्वशीं वाक्यमब्रुवन् ॥ ५५ ॥
किं रोदिषि वरारोहे मर्त्यहेतोः सुलोचने ॥
तद्वाक्यमुर्वशी तासां श्रुत्वा वचनम ब्रवीत् ॥ ५६ ॥
सौख्यं षण्ढो न जानाति सङ्गात्स्त्रीपुंसयोर्हि यत् ॥
अनयोपमया ज्ञेयं तस्यार्थे कृतनिश्चया ॥ ५७ ॥
श्रुत्वा चेति वचस्तस्यास्ताः सम्मन्त्र्य समाहिताः ॥
अविदिते च देवानां महाकालवने गताः ॥ ५८ ॥
नृपं च ददृशुस्तत्र वृक्षच्छायानिषेवितम् ॥
दृष्ट्वा चाथ नृपं सर्वा भृशं जाताः सुविह्वलाः ॥ ५९ ॥
दृष्ट्वा तथाविधाः सर्वाः कामार्ता सुरयोषितः ॥
मूढचित्ताः प्रहस्यैवमुर्वशी वाक्यमब्रवीत् ॥5.1.8.६०॥
॥ उर्वश्युवाच ॥ ॥
अयं स पुरुषव्याघ्रो विना येनाहमीदृशी ॥
ऐलः पुरूरवा नाम विख्यातो जगतीपतिः ॥ ६१ ॥
एवं ब्रुवन्त्यां वै तस्यामुर्वश्यामप्सरोगणः ॥
मौनीभूतश्चिरं तस्थौ लज्जयानतकन्धरः ॥ ६२ ॥
एतस्मिन्नन्तरे प्रायाद्भगवांस्तत्र नारदः ॥
दृष्ट्वा तथागताः सर्वा उर्वश्या सहितं नृपम् ॥ ६३ ॥
सम्प्रेक्ष्य च ततः प्राह कि यूयमिह निस्वनाः ॥
त्यक्त्वा तथाविधं रम्यमिन्द्रस्यालयमुत्तमम् ॥ ६४ ॥
वरं च व्रियतां शीघ्रं वियोगो न भवि ष्यति ॥
माहात्म्यं चास्य तीर्थस्य कथयामास नारदः ॥ ६५ ॥
अस्मिन्हि दुर्भगा तीर्थे स्नात्वा स्त्री पुरुषोऽपि वा ॥
सौभाग्यं लभते सम्यक्सर्वभोगांस्तथोत्तमान् ॥ ६६ ॥
आत्मानं तोलयेद्यस्तु तिलैर्वा लवणेन वा ॥
शर्कराभिश्च बह्वीभिर्वित्तशाठ्यविवर्जितः ॥ ६७ ॥
गुडेन मधुना वापि देवीमुद्दिस्य पार्वतीम् ॥
लवणेन स्वरूपाढ्यस्तिलैः सर्वाङ्गशोभनः ॥ ६८ ॥
द्रव्यवृद्धिः शर्करया गुडेनाङ्गेषु पूर्णता ॥
मधुना चैव सौभाग्यं तीर्थस्यास्य प्रभावतः ॥ ६९ ॥
द्वादशैव तु युग्मानि देव्या देवस्य भोजयेत् ॥
कूपीं नखरिणीं दद्यात्ताटङ्कं कतकाञ्जनम् ॥ 5.1.8.७० ॥
वेत्रजां कञ्चुकीं चैव वस्त्रे कौसुम्भके तथा ॥
श्वेतानुलेपनं पुंसां स्त्रीणां दद्याच्च कुङ्कुमम् ॥ ७१ ॥
आषाढे श्रावणे वापि मासि भाद्रपदे तथा ॥
शुक्लाश्विनतृतीयाया मुत्तमं व्रतमाचरेत् ॥ ७२ ॥
उत्तमा जायते नारी यथा देवी उमा तथा ॥
उमामहेश्वरौ कार्यौ सौवर्णौ च स्वशक्तितः ॥ ७३ ॥
धार्यौ नार्या हि तौ देवौ स्वयं तुलावरोहणे ॥
फलानि चैव देयानि शाकानि विविधानि च ॥ ७४ ॥
तत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् ॥
एवं या कुरुते तत्र तीर्थे नारी समाहिता ॥ ७५ ॥
गन्धर्वाप्सरसां लोके मृता याति न संशयः ॥
अत्र तीर्थे च द्वे लिङ्गे पूजिते देवदानवैः ॥ ७६ ॥
दृष्ट्वा ते परमां सिद्धिं प्राप्नुतो दम्पती तदा ॥
कार्तिक्यां तु विशेषेण कृत्वा तत्र प्रजागरम् ॥
सम्पूज्य गन्धपुष्पैश्च रुद्रलोकमवाप्नुयात् ॥ ७७ ॥
यथा देव्याः स्वरूपेण वियोगो नैव दृश्यते ॥
तथा तयोर्वियोगश्च दृश्यते न कदाचन ॥ ७८ ॥
एवं कृत्वाथ तां विप्र सर्वाश्च त्रिदिवं गताः ॥
उक्तमप्सरसां तीर्थं तीर्थान्तरमथोच्यते ॥ ७९ ॥
दक्षिणे पृष्ठदेव्या वै माहिषं कुण्डमुच्यते ॥
महिषो दानवः पूर्वं निहतो गणनायकैः ॥ 5.1.8.८० ॥
तत्र तीर्थे नरः स्नात्वा मातॄः सम्पूज्य यत्नतः ॥
प्रेतरक्षः पिशाचानां पीडया स विमुच्यते ॥८१ ॥