००७ महाकालवनवासविधिवर्णनम्

॥ व्यास उवाच ॥ ॥
भगवन्केन विधिना महाकालवने नरैः ॥
रुद्रलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः ॥१ ॥
किं मनुष्यैरुत स्त्रीभिः सिद्ध्यर्थं ह्याश्रमान्वितैः॥
वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि नः ॥ २ ॥
नरैः स्त्रीभिश्च वस्तव्यं वर्णैश्चाश्रमवासिभिः ॥
स्वधर्माचारनिरतैर्दम्भमोहविवर्जितैः ॥ ३ ॥
कर्मणा मनसा वाचा रुद्रभक्तैर्यतेन्द्रियैः ॥
अनुश्रुतिभिरक्षुद्रैः सर्वभूत हिते रतैः ॥
किं कुर्वाणैर्नरैः कर्म रुद्रभक्तिं ब्रवीहि नः ॥ ४ ॥
॥ सनत्कुमार उवाच ॥ ॥
त्रिविधा कथिता ह्यत्र मनोवाक्कायसम्भवा ॥
लौकिकी वैदिकी चान्या भवेदाध्यात्मिकी तथा ॥ ५ ॥
ध्यानधारणया बुद्ध्या रुद्राणां स्मरणं हि तत् ॥
रुद्रभक्तिकरी चैषा मानसी भक्तिरु च्यते ॥ ६ ॥
व्रतोपवासनियमैर्यतेद्रियनिरोधिभिः ॥
कायिका भक्ती रुद्रस्य ज्ञानध्यानस्य धर्मिणाम् ॥ ७ ॥
गोघृतक्षीरदधिभिर्गन्धरक्तकुशो दकैः ॥
गन्धमाल्यैश्च विविधैर्धातुभिश्चोपपादिता ॥ ८ ॥
घृतगुग्गुलधूपैश्च कृष्णागरुसुगन्धिभिः ॥
भूषणैर्हेमरत्नानां चित्राभिः स्रग्भिरेव च ॥ ९ ॥
वासप्रविसरास्तोत्रैः पताकाव्यजनोच्छ्रितैः ॥
नृत्यवादित्रगीतैश्च सर्वप्रत्युपहारकैः ॥ 5.1.7.१० ॥
भक्ष्यभोज्यानुपानैश्च यावत्पूजाक्षतैर्नरैः ॥
महेश्वरं पुरस्कृत्य भक्तिः सा लौकिकी मता ॥ ११ ॥
वेदमन्त्रहविर्यागैर्या क्रिया वैदिकी मता ॥ १२ ॥
दर्शे च पूर्णमास्यां वा कर्तव्यं चाग्निहोत्रकम् ॥।
प्राशनं दक्षिणादानं पुरोडाशश्च सत्क्रिया ॥ १३ ॥
इष्टवृत्तिः सोमपानं याज्ञिकं सर्वकर्म च॥
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च ॥१४॥।
क्रियते रुद्रमुद्दिश्य सा भक्तिर्वैदिकी स्मृता ॥
अग्निभूम्यनिलाकाशनिशाकरदिवाकरान् ॥ १५ ॥
समुद्दिश्य कृतं कर्म तत्सर्वं दैविकं भवेत् ॥।
आध्यात्मिकी तु द्विविधा रुद्रभक्तिः स्थिता मुने ॥ १६ ॥
साङ्ख्याख्या यौगिकी चान्या विभागं तत्र मे शृणु ॥
चतुर्विंशतितत्त्वानि प्रधानादीनि सङ्ख्यया ॥ १७ ॥
अचेतनानि योज्यानि पुरुषः पञ्चविंशकः ॥
चेतनः पुरुषो भोक्ता न कार्यं तस्य कर्मणः ॥ १८ ॥
रुद्रः षड्विंशकः कर्ता सर्वज्ञश्चेतनः प्रभुः ॥
अजन्मा नित्यमव्यक्तमधिष्ठाता प्रयोजकः ॥ १९ ॥
पुरुषो नित्यव्यक्तः स्यात्कारणं च महेश्वरः ॥
तत्त्वसर्गं भवेत्सर्गं भूतसर्गं च तत्त्वतः ॥ 5.1.7.२० ॥
सङ्ख्यया परिसर्गाय प्रधानं च गुणात्मकम् ॥
साधर्म्यमात्मनैश्वर्यं प्रधानं वै विधर्मि च ॥२१ ॥
कारणं तच्च रुद्रस्य काम्य त्वमिदमुच्यते ॥
सर्वत्र कर्तृता रुद्रे पुरुषे चाप्यकर्तृता ॥ २२ ॥
अचैतन्यं प्रधाने च तच्च तत्त्वमिदं स्मृतम् ॥
तत्त्वान्तरेण मुच्यन्ते कार्यं कारणमेव च ॥ २३ ॥
प्रयोजने च वैजात्यं ज्ञात्वा तत्त्वमसङ्ख्यया ॥
सङ्ख्यास्तीत्युच्यते प्राज्ञै रुद्रतत्त्वार्थचिन्तकैः ॥ २४ ॥
इति तस्य तत्त्वभावं तत्त्वसङ्ख्या च तत्त्वतः ॥
रुद्रतत्त्वाधिकं चापि ज्ञानतत्त्वं विदुर्बुधाः ॥ २५ ॥
साङ्ख्ये कृता भक्तिरेषा सद्भिराध्यात्मिकी मता ॥
योगिनामपि मे भक्त्या शृणु भक्तिं महासुर ॥ २६ ॥
प्राणायामपरो नित्यं ध्यायते नियतेन्द्रियः ॥
धारणां हृदये धृत्वा ध्यायते यो महेश्वरम् ॥ २७ ॥
हृत्कञ्जकर्णिकासीनं पञ्चवक्त्रं त्रिलोचनम् ॥
शशाङ्कज्योतिजठरं व्यालवृत्तकटीतटम् ॥ २८ ॥
श्वेतं दशभुजं भद्रं वरदाभयहस्तकम् ॥
योगजा मानसी व्यास रुद्रभक्तिः परा स्मृता ॥ २९ ॥
य एव भक्तिमान्रुद्रे रुद्रभक्तः स उच्यते ॥
विधिं तु शृणु मे व्यास यः स्मृतः क्षेत्रवासिनाम् ॥ 5.1.7.३० ॥
स्वयं रुद्रेण विहितो ब्रह्मादीनां समागमे ॥
कथितो विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ ॥३१॥
निर्ममा निरहङ्कारा निःसङ्गा निष्परिग्रहाः ॥
बन्धुवर्गेण निः स्नेहाः समलोष्टाश्मकाञ्चनाः ॥ ३२ ॥
भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः ॥
साङ्ख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः ॥ ३३ ॥
यजन्तो विवि धैर्यज्ञैर्ये विप्राः क्षेत्रवासिनः ॥
महाकालवने तेषां मृतानां यत्फलं शृणु ॥ ३४ ॥
व्रजन्त्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमक्षयम् ॥
सम्प्राप्य न पुन र्जन्म लभन्ते मोक्षमव्ययम् ॥ ३५ ॥
पुनरावर्तनं हित्वा विधिं माहेश्वरं स्थिताः ॥
पुनरावृत्तिरन्येषां प्रपञ्चाश्रमवासिनाम् ॥ ३६ ॥
गार्हस्थ्यं विधिमासाद्य षट्कर्मनिरताः सदा ॥
जुह्वते विधिना सम्यङ्मन्त्रस्तोत्रैर्नियन्त्रिताः ॥ ३७ ॥
अधिकं फलमायान्ति सर्वदुःखविवर्जिताः ॥
सर्व लोकेषु चान्यत्र गतिस्तस्य न हन्यते ॥ ३८ ॥
दिव्येनैश्वर्ययोगेन स्वारूढः स्वपरिग्रहः ॥
बहुसूर्यप्रकाशेन विमानेन सुवर्चसा ॥ ३९ ॥
वृतः स्त्रीणां सहस्रैश्च स्वच्छन्दगमनालयः ॥
विचरत्यविचार्यैव सर्वलोकान्दिवौकसाम् ॥ 5.1.7.४० ॥
स्पृहणीयतमः पुंसां सर्ववर्णोत्तमो धनी ॥
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान् ॥ ४१ ॥
धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः ॥
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च ॥ ४२ ॥
वेदाध्ययनसंयुक्तो च भैक्षवृत्तिर्जितेन्द्रियः ॥
नित्यं सत्यव्रते युक्तः स्वधर्मे च प्रमोदवान् ॥ ४३ ॥
मृतः काले समृद्धेन सर्वभोगावलम्बिना ॥
सूर्येणेव द्वितीयेन विमानेन विचारितः ॥ ४४ ॥
गुह्यकोनाम रुद्रस्य गणः परमसम्मतः ॥
अप्रमेयबलैश्वर्यो देवदानवपूजितः ॥ ४५ ॥
तेषां च समतां याति तुल्यैश्वर्यसम न्वितः ॥
देवदानवमर्त्येषु स च पूज्यतमो भवेत। ॥ ४६ ॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ॥
ऐवमैश्वर्यसंयुक्तो रुद्रलोके महीयते ॥ ४७ ॥
वसित्वासौ विभूत्या वै यदा च च्यवते नरः ॥
रुद्रलोकाच्च्युतो भूमौ वसते नात्र संशयः ॥ ४८ ॥
महाकालवने क्षेत्रे ब्रह्मचर्याश्रमे स्थितः ॥।
महेश्वरपरो नित्यं वसेद्वाऽथ म्रियेत वा ॥ ४९ ॥
मृतोऽसौ याति दिव्ये वै विमाने सूर्यवर्चसि ॥
पूर्णचन्द्रप्रकाशो वै शशिवत्प्रियदर्शनः ॥ 5.1.7.५० ॥
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते ॥
ऐश्वर्यं च महद्भुङ्क्ते सर्वस्य जगतः प्रभुः ॥ ५१ ॥
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते ॥
प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु ॥ ५२ ॥
नित्यं प्रमुदितस्तत्र भुक्त्वा लोकमनामयम् ॥
द्विजानां साधने नित्यं कुले महति जायते ॥ ५३ ॥।
मानवेषु च धर्मेषु वसेद्भूयांश्च रूपवान् ॥
स्पृहणीयवपुः स्त्रीणां महाभोगपतिर्भवेत् ॥ ५४ ॥
वानप्रस्थसमाचारो वनौषधिविवर्जितः ॥
शीर्णपर्ण समाहारः फलपुष्पाम्बुभोजनः ॥ ५५ ॥
कणाशनोऽश्मकुट्टो वा दन्तोलूखलकोऽथ वा ॥
येन केनाप्युपायेन जीर्णवल्कलधारकः ॥ ५६ ॥
जटी त्रिषवणस्नायी मुक्तकेशः सुदण्डवान् ॥
जलशायी पञ्चतपा वर्षास्वभ्रावकाशकः ॥ ५७ ॥
कीटकण्टकपाषाणभूम्यां तु शयनं तथा ॥
स्थानं वीरासनरतः संविभागी दृढबतः ॥ ५८ ॥
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः ॥
नित्यं धर्मपरो मौनी जितक्रोधो जितेन्द्रियः ॥ ५९ ॥
रुद्रभक्तः क्षेत्रवासी महाकालवने मुनिः ॥
सर्वसङ्गपरित्यागी स्वारामो विगतस्पृहः ॥ 5.1.7.६० ॥
यश्चात्र वसते व्यास शृणु तस्य हि या गतिः ॥
तरुणार्कप्रदीप्तेन वेदिकास्तम्भशोभिना ॥ ६१ ॥
रुद्रभक्तो विमानेन याति कामप्रचारिणा ॥
विराजमानो नभसि द्वितीय इव चन्द्रमाः ॥ ६२ ॥
गीतवादित्रशब्देन संवृतोऽप्सरसां गणै ॥
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ६३ ॥
रुद्रलोकाच्च्युतश्चापि विष्णुलोके महीयते ॥
विष्णुलोकात्परिभ्रष्टो ब्रह्मलोकं स गच्छति ॥ ६४ ॥
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते ॥
स्वर्गषु च तथान्येषु भोगान्भुङ्क्ते यथेच्छया ॥ ६५ ॥
भुक्तैश्वर्यो नरस्तेषु मर्त्यामर्त्येषु जायते ॥
राजा वा राजतुल्यो वा जायते धनवान्सुखी ॥
सुरूपः सुभगः कान्तः कीर्तिमान्रुद्रभावितः ॥ ६६ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः ॥
स्वधर्मनिरता व्यास स्वभृत्या चारजीविनः ॥ ६७ ॥
सर्वात्मना रुद्रभक्ता भूतानुग्रहकारिणः ॥
महाकालवने क्षेत्रे ये वसन्ति मुमुक्षवः ॥ ६८ ॥
मृतास्ते रुद्रभवने विमानैर्यान्ति शोभनैः ॥
अप्सरोगणसंयुक्तैः कामगैः कामरूपिभिः ॥ ६९ ॥
अथवा संविदग्नौ च शरीरं विजुहोति यः ॥
रुद्रध्यायी महासत्त्वः स रुद्र भवने वसेत्॥ 5.1.7.७० ॥
रुद्रलोकोऽक्षयस्तेषां शाश्वतो गुह्यकैः सह ॥
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः ॥ ७१ ॥
ये त्यजन्ति महाकाले प्राणान नशनैर्नराः ॥
तेषामप्यक्षयो व्यास रुद्रलोको महात्मनाम् ॥ ७२ ॥
साङ्ख्याः स्तुवन्ति ते रुद्रं सर्वदुःखविवर्जिताः ॥
सर्वामरयुतं देवं नन्दिदेवगणै र्युतम्॥
अनाशकमृताः शूद्रा महाकालवने नराः ॥ ७३ ॥
सिंहयुक्तैस्तु ते यान्ति विमानैरर्कसन्निभैः ॥ ७४ ॥
नानावर्णसुवर्णाढ्यैर्हृष्टगन्धाधिवा सितैः ।
अनौपम्यगुणै रम्यैरप्सरोगीतवादिभिः ॥ ७५ ॥
पताकाध्वजविन्यस्तैर्नानाघण्टानिनादितैः॥
सुप्रभैर्गुणसम्पन्नैर्मयूरवरचारिभिः ॥ ७६ ॥
रुद्रलोके नरा धीराः सर्वे चानशनैर्मृताः ॥
तत्रोषित्वा चिरं कालं भोगान्भुक्त्वा यथेप्सितान् ॥
धनी विप्रकुले भोगी जायते मर्त्यमागतः ॥ ७७ ॥
करीषं साधयेद्यस्तु महाकालवने नरः ॥
सर्वभोगविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ ७८ ॥
रुद्रलोके वसेत्तावद्यावत्कल्पक्षयो भवेत् ॥ ७९ ॥
तत्र भुक्त्वा महाभोगानिह जातो महीपतिः ॥
पृथिव्याः सकलायाश्च रूपवान्सुभगो भवेत् ॥ 5.1.7.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनवासविधिवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥ छ ॥