००६ कपालमोक्षणवर्णनम्

॥ सनत्कुमार उवाच ॥ ॥
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम् ॥
इह देवो ऽत्र देवोऽत्र विविशुस्ते दिदृक्षवः ॥ १ ॥
अद्भुतस्य वनस्यान्ते न ते ददृशिरे सुराः ॥
विचिन्वन्तो महादेवं देवैर्बहुविलोकितः ॥२॥
तमुवाच स भद्रं वै द्रक्ष्यध्वं न तपो विना ॥
विचिन्वन्तो विरूपाक्षं नैनं पश्यत शङ्करम् ॥ ३ ॥
स युक्तं हृदये स्मृत्वा ब्रह्मा देवांस्ततोऽब्रवीत् ॥
त्रिविधो दर्शनोपायस्तस्य देवस्य सर्वदा ॥ ४ ॥
श्रद्धाज्ञानेन तपसा योगेनैव निगद्यते ॥
सकलं निष्कलं चापि देवाः पश्यन्ति योगिनः ॥ ५ ॥
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम् ॥
समुत्पन्नेऽपि विज्ञाने मन्दश्रद्धो न पश्यति ॥ ६ ॥
भक्त्या परमयोपेताः परं पश्यन्ति योगिनः ॥
द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः ॥ ७ ॥
नादीक्षितैरतो देवाः शैवीं दीक्षां प्रपद्यत ॥
कर्मणा मनसा वाचा नित्ययुक्ता महेश्वरे ॥ ८ ॥
तपश्चरत भद्रं वो रुद्राराध नतत्पराः ॥
शिवदीक्षां प्रपन्नानां भक्तानां च तपस्विनाम् ॥ ९ ॥
सर्वकालं विजानाति दातव्यं दर्शनं मया ॥
ब्रह्मणो वचनं श्रुत्वा हितमेव यदु क्तवान् ॥ 5.1.6.१० ॥
शिवेक्षाविष्टमतयो ब्रह्माणमिदमबुवन् ॥
मार्गेण विधिना चैव शिवदीक्षासु तत्पराः ॥ ११. ॥
प्रयच्छ ब्रह्मन्सर्वेषां दीक्षां नः शिवतोषदाम्॥
श्रुत्वेति वचनं ब्रह्मा प्रत्युवाच विचारितम् ॥ १२ ॥
सन्दिदीक्षयिषुः क्षिप्रममराञ्छिवदीक्षया ॥
शिवयज्ञार्थसम्भारानानयध्वमलं सुराः ॥ १३ ॥
वेदी प्रकल्प्यतामत्र यष्टव्योऽष्टतनुः शिवः ॥
पद्मयोनेर्वचः श्रुत्वा चक्रुः सर्वमतः सुराः ॥ १४ ॥
विनीतवेषाः प्रणता अनेन सस्तमन्वगुः ॥
शिवप्रसादसम्प्राप्त्यै पुष्करज्ञानमीरितम् ॥ १५ ॥
यज्ञं चकार विधिना वेधाश्चन्द्रार्धधारिणः ॥
पद्मयोनिः पुरस्कृत्य तदा दीक्षां प्र योगतः ॥१६॥
अनुग्रहेण देवांस्तानकारयत भावतः ॥
ततो व्रतानां प्रवरं व्रतं दिव्यं महाप्रभुः ॥१७॥
तेभ्यो ददौ देवताभ्यः स तदप्यविरोधवित् ॥
पठ्यते शिवशालायां महापाशुपतं व्रतम्॥१८॥
शैवं यथोदितं यच्च आगमाचारचेष्टितम् ॥
शिवाराधनमुख्यानां मुनीनां तीव्रतेजसाम् ॥१९॥
सर्वानुग्राहकः शम्भुः सर्वदेवैः प्रकल्पितम् ॥
तदेवं प्रार्थितं बुद्ध्या व्रतं रौद्रं शिवं समम् ॥ 5.1.6.२० ॥
तत्तेभ्यो विस्मयं त्यक्त्वा प्रायच्छत्कनकाण्डजः ॥
कामिकं भस्मनामाढ्यं सर्वदा कीर्तितं शुभम्॥ २१ ॥
पापघ्रं दुःखशमनं पुष्टिश्रीबलवर्धनम्॥
सिद्धिदं कीर्तिकृत्कान्तं कलिकल्मषमोक्षणम्॥२२॥
तस्मात्सर्वप्रयत्नेन भस्मस्नानं समाहिताः ॥
कुर्वन्तो मानवा दान्ता दीक्षिताः संयतेन्द्रियाः ॥ २३ ॥
सर्वे कमण्डलुधराः सर्वे रुद्राक्षधारिणः ॥
अनिष्टदर्शनालाप सङ्गत्या परिवर्जिताः ॥ २४ ॥
एवं व्रतधराः सर्वे वने तस्मिन्महेश्वरम् ॥
आराधयंस्तमीशानं व्रतेनैव उमाधवम् ॥ २५ ॥
भक्त्या परमया युक्ता विधिना परमेण च ॥
कालेन महता ध्यानादेवं ज्ञात्वा मनोगतम् ॥ २६ ॥
रुद्रध्यानाग्निनिर्दग्धकल्मषाश्च श्रियान्विताः ॥
तदा हत्वाऽसुरं शम्भुः प्रत्यक्षो भगवानभूत् ॥ २७ ॥
॥ सनत्कुमार उवाच ॥ ॥
ब्रह्मदत्तं वरं देवाः सर्वे शर्वानुभाविताः ॥
समचीकरन्प्रत्युक्ता ब्रह्मापीशानभावितः ॥ २८ ॥
गते वर्षसहस्रे स दिव्ये देवेश्वरेश्वरः ॥
जातानुकम्पो देवानां दीपो दर्शनमेयिवान् ॥ २९ ॥
गणैर्नानाविधैः सार्धं नानाभूषणभूषितैः॥
सुदर्पोद्भूतदर्पघ्रैघोरैर्घोरविघातिभिः ॥ 5.1.6.३० ॥
कामरूपैरकामैश्च सर्वकामसमन्वितैः ॥
करीन्द्रकरटाटोपपाटनैः सिंहदेहिभिः ॥ ३१ ॥
अणिमादि गुणैर्दिव्यैर्योगैश्वर्यादिनामभिः ॥
व्यालोलकेशरशनादंष्ट्राकटकटोद्भवैः ॥ ३२ ॥
व्याघ्रव्यालाननै रौद्रैः काककङ्कवटैस्तथा ॥ ३३ ॥
अरूपैः समरूपैश्च सुरूपैर्बहुरूपकैः ॥
एकद्वित्रिशिरोभिश्च बहुशीर्षैरशीर्षकैः ॥ ३४ ॥
एकद्वित्रिशिखैश्चैव नानारूपविराजितैः ॥
बहुनेत्रैरनेत्रैश्च एकद्वित्रिविलो चनैः ॥ ३५ ॥
एककर्णैर्द्विकर्णैश्च बहुकर्णैर्विकर्णकैः ॥
एकद्वित्रिसुनासैश्च बहुनासैरनासिकैः ॥ ३६ ॥
एकजङ्घैर्द्विजङ्घैश्च बहुजङ्घैरजङ्घकैः ॥
एक पादैर्द्विपादैश्च बहुपादैरपादकैः ॥ ३७ ॥
गौरश्यामैः श्यामगौरैरसितैः कर्बुरैस्तथा ॥
भुजङ्गहारवलयैः कृतयज्ञोपवीतकैः ॥ ३८ ॥
शूलासिपट्टिश धरैर्भुशुण्डीपीरघायुधैः ॥
चक्रक्रकचकोदण्डकाण्डदण्डास्त्रपाणिभिः ॥ ३९ ॥
गदामुद्गरपाषाणमुशलायुधहस्तकैः ॥
वज्रशक्त्यशनिप्रासकुन्तकर्तृक धारिभिः ॥ 5.1.6.४० ॥
भम्भाभेरीर्वादयद्भिर्वीणापणववेणुकान् ॥
मृदङ्गविमलाढक्काकाहलानकदुन्दुभीन् ॥ ४१ ॥
हुडङ्काशृङ्गिकाद्यानि नानावाद्यानि वादकैः ॥
एवं नानाविधै रौद्रैर्भीमैर्भीमपराक्रमैः ॥४२॥
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव ॥
आविर्भूतो महादेवः स्वगणैः परिवारितः ॥
तं पश्य तां तदा व्यास ब्रह्मादीनां दिवौकसाम् ॥ ४३ ॥
अथ ब्रह्मादयो देवा दृष्ट्वाग्रे गणनायकम् ॥
तेजसाध्यासितास्तस्य बभूवुर्भ्रान्तचेतसः ॥ ४४ ॥
ततो ऽवलम्ब्य ते धैर्यं दृष्ट्वा देवं यथाविधि ॥
षडङ्गवेदयोगेन हृष्टचित्तवपुर्धराः ॥ ४५ ॥
शिरोगतैरञ्जलिभिः पादेभ्यश्च महीं गतैः ॥
तुष्टुवुः सृष्टिसंहार स्थितिकर्तारमीश्वरम् ॥ ४६ ॥
॥ देवा ऊचुः ॥ ॥
नमः शिवाय शान्ताय सगणाय सनन्दिने ॥
वृषासनाय सौम्याय शूलशक्तिधराय ते ॥४७॥
नमो दिक्चर्मवस्त्राय शुचये तीव्रतेजसे ॥
ब्रह्मणे ब्रह्मदेहाय ब्रह्मणा योजिताय च ॥ ४८ ॥
नमोन्धकविनाशाय परेशाय नमोनमः ॥
रुद्राय पञ्च वक्त्राय सर्वरोगापहारिणे ॥ ४९ ॥
गिरिशाय सुरेशाय ईशानाय नमोनमः ॥
भीमोग्रादिस्वरूपाय विजयाय नमोनमः ॥ 5.1.6.५० ॥
सुरासुराधिपतये यतीनां पतये नमः ॥
चण्डाय चण्डदण्डाय वरखट्वाङ्गदण्डिने ॥ ५१ ॥
विरूपाक्षशुभाख्याय विश्वरूपाय वै नमः ॥
शान्ताय च मनोज्ञाय त्रिनेत्राय नमोनमः ॥ ५२ ॥
वेधसे विश्वरूपाय दैत्यसंहारिणे नमः ॥
भक्तानुकम्पिनेऽत्यर्थं रुद्रज्ञानपराय च ॥ ५३ ॥
विरूपाय सुरूपाय रूपाणां शतधारिणे ॥
पञ्चास्याय शुभास्याय चन्द्रास्याय नमोनमः ॥ ५४ ॥
वरदाय वराहाय सुकूर्माय नमोनमः ॥ ५५ ॥
त्रिनेत्र त्राणमस्माकं त्रिपुरघ्न विधीयताम् ॥
वाङ्मनःकायभावैस्त्वां प्रपन्नानां महेश्वर ॥ ५६ ॥
॥ सनत्कुमार उवाच ॥ ॥
एवं स्तुतस्तदा देवैर्विरिञ्च्याद्यैस्तथा हरः ॥
शरीराणि विलोक्येशः कृशान्यथ दिवौकसाम् ॥ ५७ ॥
दिव्यप्रतापधारेण त्रिवेधेनान्तरात्मना ॥ ५८ ॥
आराधनं समीक्ष्याह ब्रह्मादीनां सुरेश्वरः ॥
साधुसाधु महाभागाः शश्वद्व्रतमुपासितम् ॥ ५९ ॥
दिव्येनानेन विधिना भृशमाराधितो ह्यहम् ॥
भवद्भिः श्र द्धयात्यर्थं मम दर्शनकाङ्क्षया ॥ 5.1.6.६० ॥
व्रतस्था मां हि पश्यन्ति मानुषा देवता अपि ॥
यदि यच्च प्रयच्छामि कांश्चिद्वो हि वराञ्छुभान् ॥ ६१ ॥
एकैकशो द्वित्रिशो वा समस्तेभ्यः समेन वः ॥
सर्वकामप्रसिद्ध्यर्थं दास्याम्येनं वरं हि वः ॥ ६२ ॥
हिताय भवतां चाहमागामुज्जयिनीं प्रति ॥
क्षिप्तं कपालं च मया किं पुनर्भद्रमस्तु वः ॥ ६३ ॥
॥ देवा ऊचुः ॥ ॥
किं कृतं हितमस्माकं कपालं क्षिपता त्वया ॥ ६४ ॥
किमर्थं कम्पिता भूमिस्त्रैलोक्यं व्याकुलीकृतम् ॥
नैतन्निरर्थकं देव कथ्यतामत्र कारणम् ॥ ६५ ॥
॥ महादेव उवाच ॥ ॥
युष्मद्धितार्थमेतद्वै भयं विनिहितं कृतम् ॥
देवतानां तु रक्षार्थं श्रूयतामत्र कारणम् ॥ ६६ ॥
असुरो द्रोहणोनाम बलवान्योगमायिकः ॥
अवस्थितस्त्ववष्टभ्य रसातलतला श्रयम् ॥ ६७ ॥
तस्य दैत्यस्य बलिनो दैत्याः परपुरञ्जयाः ॥
युष्माञ्ज्ञात्वा तपस्थांश्चाप्यभ्यगुर्बहवो हि ते ॥ ६८ ॥
सेन्द्रान्निहन्तुमिच्छन्तो माया प्रच्छन्नचारकाः ॥
पुरीं कनकशृङ्गाढ्यामेनामधि कुशस्थलीम्॥
समुद्ययुः सुरान्हन्तुमुद्यता उद्यतायुधाः ॥ ६९ ॥
तेषां कपालपातेन भूमिनिष्कं पनेन च ॥
शब्देन चातिघोरेण देहात्प्राणा विनिर्ययुः ॥ 5.1.6.७० ॥
लोकस्थितिविनाशाथ तेषामासीत्समुद्यमः ॥
राज्यैश्वर्येण दर्पिष्ठास्तेन ते निहता मया ॥ ७१ ॥
॥ देवा ऊचुः ॥ ॥
विश्वस्तानां पुनश्चैवमेव चानुग्रहः कृतः ॥
देवानुग्रहकर्ता त्वं गुणस्मृतिनिषेवितः ॥ ७२ ॥
दिव्यदृष्टिभिरत्यर्थं यशोऽर्थं भीम नन्दिताः ॥
इत्युक्त्वा प्रणतान्देवानुत्थाप्योचे पुनर्भवः ॥ ७३ ॥
॥ शिव उवाच ॥ ॥
परिचर्याभिसंयुक्तं नित्यमुग्रनिषेवितम्॥
ध्यानसाधननिष्पन्नं यदन्येषां न विद्यते ॥ ७४ ॥
मनोवाक्कायभावेन दुष्करं दुश्चरं तपः ॥
अनेन तपसा युक्ताः कष्टेन दुःसहेन च ॥ ७५ ॥
महता तनुसाध्येन बहुकालार्जितेन वः ॥
समन्तादभिवर्धेतां युष्मत्तेजस्तपोऽपि च ॥ ७६ ॥
॥ सनत्कुमार उवाच ॥ ॥
इत्युक्ता देवदेवेन देवा ब्रह्मपुरोगमाः ॥
ऊचुरुन्नाम्य वक्त्राणि स्थिता जानुभिरीश्वरम् ॥ ७७ ॥
॥ देवा ऊचुः ॥ ॥
प्राणदस्त्वं कारणस्त्वं तपसां देव दृश्यसे ॥
तदस्माकं प्रवृत्तानां मानुषाणां वरप्रद ॥ ७८ ॥
रक्षां कुरुष्व देवेश भक्तानामभयङ्कर ॥ ७९ ॥
॥ ईश्वर उवाच ॥ ॥
यत्नेन विधिना दत्तं सुव्यक्तं दर्शनं हि वः ॥
सुदुर्लभान्यपि पुनर्दास्यामि वो वरान्बहून् ॥ 5.1.6.८० ॥
एवमुक्ते भगवता ब्रह्मा वचनमब्रवीत् ॥
देवानामग्रतः स्थित्वा श्रुतशब्दोद्भवं भवम् ॥ ८१ ॥
प्राप्ता वयं च भगवन्सुपर्याप्तो महावरः ॥
जायतां नः सदैश्वर्यं वासस्थानमथाक्षयम् ॥ ८२ ॥
॥ ॥ शिव उवाच ॥ ॥
लोकेऽस्मिन्मम ये भक्ता मया विनिहताश्च ये ॥
नैवं ते दुर्गतिं यान्ति लभन्ते सुमतिं पराम् ॥ ८३ ॥
सार्धं तत्र जटाजूटैः शिरोभिः शूलपाणयः ॥
भान्ति मद्वामपार्श्वस्था इमे ते दारुणा गणाः ॥ ८४ ॥
येषां विनिग्रहार्थाय युष्मत्सम्बोधनाय च ॥
सविकारं मया क्षिप्तं कपालं धरणीतले ॥८५॥
कृतो मेऽनुग्रहस्तेषां भक्तानां भक्तिमिच्छताम् ॥
वनेऽस्मिन्नित्यवासो मे वृक्षैरभ्यर्थितस्य च ॥ ८६ ॥
महाकालवने देवा आगतस्य ममानघाः ॥
तपस्यतां च भवतां महाकालवनं ततः ॥ ८७ ॥
नामद्वययुतं गुह्यं लोके ख्यातं भविष्यति ॥
गुह्यं वनं श्मशानं च क्षेत्राणां प्रवरं महत् ॥८८॥
कपालव्रतचर्या च मया ह्येषा प्रकीर्तिता ॥
कपालपात्रे भुञ्जानः कपालव्रतभूषणः ॥८९॥
कपालपाणिः सन्तुष्टो भिक्षा व्रतसमन्वितः ॥
श्मशाननिलयो रौद्रो व्रतोन्मत्तविमूढधीः॥5.1.6.९०॥
नन्दितः सर्वभूतेषु प्रियाप्रियसमः सदा ॥
भस्मभूषितसर्वाङ्गो ज्ञानी चैव विशेषतः ॥९१॥
जितेन्द्रियोऽसर्वसङ्गो मृद्भस्मोदकसङ्ग्रही ॥
नित्ययुक्तः सदाव्यापी जापी जितवरासनः ॥ ९२ ॥
पुण्यतीर्थाश्रमोपेतः स्वरे देवे समाहितः ॥
लोकातीतं परं ज्ञानं महापाशुपतं व्रतम् ॥ ९३ ॥
कपालव्रतमास्थाय पुरा चीर्णं मया स्वयम् ॥
कपालं परमं गुह्यं पवित्रं पापनाशनम् ॥ ९४ ॥
कपालव्रतमेतद्धि दुर्धरं परमाद्भुतम् ॥
अत्यन्तमुत्कटं रौद्रमघोरं लोमहर्षणम् ॥ ९५ ॥
महाव्रतं द्विषन्मोहात्पापेनैव स्थितो नरः ॥
न मुच्यते स पापेन जन्मकोटिशतैरपि ॥ ९६ ॥
महापाशुपतं तस्मान्न हन्यान्न च दूषयेत् ॥
एतस्मिन्निहते तस्मात्कोटिर्भवति घातिता ॥ ९७ ॥
एवं महाव्रतं यस्तु भोजयेच्छ्रद्धयान्वितः ॥
तस्य भुक्ता भवेत्कोटिर्विप्राणां वेदपाठिनाम् ॥ ९८ ॥
कपालपूरणीं भिक्षां यतीनां यः प्रयच्छति ॥
विमुक्तः सर्व पापेभ्यो नासौ दुर्गतिमाप्नुयात् ॥ ९९ ॥
कपाले भोजनं श्रेष्ठं मार्गोऽयं ब्रह्मसम्भवः ॥
वदन्ति लोके वेदेषु पूजितं देवदानवैः ॥ 5.1.6.१०० ॥
धारयिष्यन्ति ये विप्राः कपालं भूतमोहनम् ॥
मम तुल्यास्तु ते ब्रह्मन्विचरन्ति महीतले ॥ १ ॥
जपैकनिरता धीराः कपालकृतभूषणाः ॥
महापाशुपता लोके रुद्राः संसारतारकाः ॥ २ ॥
धर्माधर्मविमुक्ताश्च कृत्याकृत्यविवर्जिताः ॥
दीक्षया ज्ञानयोगेन प्राणिनस्तारयन्ति ते ॥ ३ ॥
यानि तीर्थानि लोकेऽस्मिन्यज्ञकोटिशतानि च ॥
विशुद्धस्य विज्ञानस्य कलां नार्हन्ति षोडशीम् ॥ ४ ॥
यथाहं सर्वदेवानां सम्पूज्यो वै पितामह ॥
तथैव सर्वयोगेभ्यः सम्पूज्योऽयं महाव्रती ॥ ५ ॥
संसारबन्धमोक्षार्थं शिवगुह्यमिदं व्रतम् ॥
यदेतत्सर्वधर्मेण अपुनर्भवकारणम्॥ ६ ॥
कपालव्रतमादाय यस्त्यजेदजिते न्द्रियः ॥
रौरवं स प्रयात्याशु प्रणीतो यमकिङ्करैः ॥ ७ ॥
आलापयति भावेन न तु कर्म करोति यः ॥
सरागचित्तः शृङ्गारी न च धर्मप्रियङ्करः ॥ ८ ॥
एकत्र भोजी मिष्टाश्ी कैतवेन प्रियस्तथा ॥
कुग्रामनगरे वासी कृषिवाणिज्यसेवकः ॥ ९ ॥
इत्यादिदुष्टदोषश्च तस्य सम्भाषणादपि ॥
नरो नरकगामी स्याद्यतो मद्व्रतदूषकः ॥ 5.1.6.११० ॥
दृष्ट्वा च शिष्टमथ ३ महाव्रतधरो नरः ॥
न स्पृशेदङ्गमङ्गेन स्पृष्ट्वा स्नायात्तु चाम्बुभिः ॥ ११ ॥
एवं च सर्वमाख्यातं कपालस्य च मोक्षणम् ॥
यथा मयात्र निक्षिप्तमज्ञानेन हतं स्वयम् ॥ १२ ॥
॥ सनत्कुमार उवाच ॥ ॥
एवमुक्त्वा स भगवान्ब्रह्माद्यैरमरैः सह ॥
क्षेत्रं निवासयामास यथावत्कथयामि ते ॥१३॥
आद्यमेततत्स्मशानं च पठ्यते मुनिसत्तमैः ॥
महाकालवनं व्यास यत्र सन्नि हितो हरः ॥१४॥
अनुग्रहस्य भुवनं भूमिभागो न संशयः ॥
अनुग्रहार्थं भूतानां क्षेत्रान्तर्मृत्युधर्मिणाम् ॥१५॥
सुवर्णवज्रपर्यङ्कवेदिका च महीकृता ॥
विचित्रकुसुमारत्नैः कारिता सर्वशोभना ॥१६॥
स्वर्णवज्राङ्किततला श्रेष्ठा हरितशाद्वला ॥
त्रिंशच्चत्वारिंशपूर्णाः कलशाः कोणसंस्थिताः ॥ १७ ॥
द्वाराणि तत्र चत्वारि प्रवर्णानि तपन्ति च ॥
कुम्भाः शोभन्ति तत्रस्थाः उदिता भास्करा इव ॥१८॥
रमते तत्र भगवान्वनानामुत्तमे वने ॥
सनन्दिदेवगणपः कालदण्डादिसंयुतः ॥१९॥
एतत्कृतयुगे सर्वं प्रत्यक्षं दृश्यते वने ॥
त्रेतायां धर्मनिरतास्तापसा ब्रह्मचारिणः ॥5.1.6.१२०॥
द्वापरे धर्मशीला ये श्रुतवि ज्ञानशालिनः ॥
कलौ तु शुद्धविज्ञानशालिनः शङ्करं हरम्॥२१॥
तपोधिकाः प्रपश्यन्ति देवदेवं महेश्वरम् ॥
महाकालवने नित्यं शूलपट्टिशधारिणम् ॥ ॥ २२ ॥
एतत्ते तथ्यमाख्यातं लोकानुग्रहकारकम् ॥
सहितानुक्रमेणात्र मन्त्रैश्च विधिपूर्वकम् ॥ २३ ॥
समर्चयन्ति ये विप्रा भक्त्या शम्भुमहापदम् ॥।
वसन्तीह समीपं ते महाकालानुभाविताः ॥ २४ ॥
पठति य इह लोके तस्य संस्थानमेतत्प्रथितगुणगणौघैरर्चितं दोषहं तत् ॥
शुभमतिरभिषिक्तः सोऽमरैरर्च्यमानो व्रजति हरपुरं यः संशृणोत्येकचित्तः ॥१२५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्ती क्षेत्रमाहात्म्यं कपालमोक्षणवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥ छ ॥