॥ व्यास उवाच ॥ ॥
युद्धे निवारिते तत्र रक्तस्वेदजयोः पुरा ॥
किं कृतं ब्रह्मणा तत्र प्रायश्चित्तं च कर्मणाम् ॥ १ ॥
जनार्दनेन किं कर्म शङ्करेण च यन्मुने ॥
एतत्सर्वं समाख्याहि प्रसीद वदतांवर ॥ २ ॥
॥ सनत्कुमार उवाच ॥ ॥
ब्रह्मा जुह्वन्नग्निहोत्रं वनौषधिफलच्छदैः ॥
शस्तैः कुशसमिद्भिश्च यथोक्तं हरिणा पुरा ॥ ३ ॥
बदर्याश्रममासाद्य नरनारायणावृषी ॥
तेपतुस्तौ तपश्चोग्रं हितार्थं सर्वदेहिनाम् ॥ ४ ॥
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम् ॥
कुशस्थलीं समासाद्य प्रविष्टस्तद्वनोत्तमम् ॥ ५ ॥
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥
नानापक्षिरवाकीर्णं नानामृगसमाकुलम् ॥ ६ ॥
द्रुमपुष्पभरामोदवासितं यत्सुवायुना ॥
बुद्धिपूर्वमिव न्यस्तैः फलपुष्पैः सुपूजितम्॥ ७ ॥
नानागन्धरसाढ्यैश्च पक्वापक्वफलोद्भवैः ॥
फलैः सुवर्णरूपाढ्यैरासमन्तान्मनोरमैः ॥ ८ ॥
जीर्णपत्रतृणादीनि शुष्क काष्ठफलानि च ॥
बहिः क्षिपन्ति जातानि मरुतोनुग्रहाणि च ॥ ९ ॥
नानापुष्पसमूहानां गन्धमादाय मारुतः ॥
शीतलो वाति तं भूमिदेशं यत्र विवेश सः ॥ 5.1.5.१० ॥
हरितस्निग्धनिच्छिद्रैः पर्णैरञ्छिद्रकोटरैः ॥
वृक्षैरनेकसङ्ख्यैश्च भूषितं शिरसान्वितैः ॥ ११ ॥
अरोगिदर्शनीयैश्च सुवृत्तैः क्वचि दुद्धतैः ॥
कुटुम्बैरिव विप्राणां सिद्धिर्वै भाति सर्वतः ॥ १२ ॥
शोभनैर्वायुसङ्कीर्णैरङ्कुरैः प्रावृता द्रुमाः ॥
कुलीनैरिव निच्छिद्रैः स्वगणैः प्रावृता नराः ॥ १३ ॥
पवनोद्धूतशिखरैः स्पर्शयन्ति परस्परम् ॥
आरात्पवनतोऽन्योन्यस्पृष्टशाखावतंसकाः ॥ १४ ॥
नागवृक्षाः क्वचित्पुष्पैर्भ्रमरालीनकेस रैः ॥
नयनैरिव शोभन्ते धवलैः कृष्णतारकैः ॥ १५ ॥
पुष्पसन्नद्धशिखराः कर्णिकारद्रुमाः क्वचित् ॥
युग्मयुग्मविवाहे च शोभन्ते साधु दम्पतीः॥१६॥
सुपुष्पविभवाटोपैः सिन्दुवारस्य पङ्क्तयः ॥
मूर्तिमत्य इवाभान्ति पूजिता वनदेवताः ॥ १७ ॥
क्वचित्क्वचित्कुन्दलताः सुपुष्पाभरणोज्ज्वलाः ॥
दिक्षुदिक्षु प्रशोभन्ते बालचन्द्रा इवोद्यताः ॥ १८ ॥
अतिविद्रुमशोभाढ्या कासन्त्यो यूथिकालताः ॥
पुष्पिताः पुष्पविटपान्वीज यन्त्य इवोत्थिताः ॥ १९ ॥
शालार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः ॥
धौतकौशेयवासोभिः प्रावृताः पुरुषोत्तमाः ॥ 5.1.5.२० ॥
अविमुक्तं तु वल्लीभिः पुष्पितास्तु द्रुमास्तथा ॥
उपगूढा विराजन्ते नारीभिरिव सुप्रिया ॥ २१ ॥
चूताश्च तिलकाश्चैव मञ्जरीभिः करैरिव ॥
वायुप्रत्ताभिरन्योन्यं ढौकन्तीव हि सज्जनान् ॥ २२ ॥
परस्परं च संयुक्तैस्तिलकाशोकपल्लवैः ॥
हस्तैर्हस्तान्स्पृशन्तीव सुहृदश्चित्तसङ्गताः ॥ २३ ॥
फलपुष्पनगा नम्राः पेशलेनेव सज्जनाः ॥
अन्योन्यमर्पयन्तीव सपुष्पाणि फलानि च ॥ २४ ॥
मारुताश्लिष्टसन्तुष्टैः पादपाः शालिवारिभिः ॥
आर्याः समागता लोके प्रीतिदाय इव स्थिताः ॥ २५ ॥
पुष्पाणामिव वेगेन स्वशोभार्थं व्रजन्ति वै ॥
समसन्नाहमासाद्य पुरुषाः स्पर्धयेव हि ॥ २६ ॥
पुष्पशोभाभरनतैः शिखरैः कम्पसंयुतैः ॥
नृत्यन्ति पक्षिणो मत्ता युक्ताः शोभनशेखरैः ॥ २७ ॥
भृङ्गाः पवनविक्षिप्तामृतवल्लीलताश्रिताः ॥
सवल्लिकाः प्रनृत्यन्ति मानवा इव सप्रियाः ॥ २८ ॥
पुष्पाभिः कुन्दवल्लीभिः पादपाः क्वचिदावृताः ॥
भाति तारागणैश्चित्रैः शरदीव नभस्तलम् ॥ २९ ॥
द्रुमा णामप्यथाग्रेषु पुष्पिता माधवी लता ॥
शिखरा इव शोभन्ते रचिता बुद्धिपूर्वकम् ॥5.1.5.३०॥
हरिताः काञ्चनच्छायाः फलिताः पुष्पिता द्रुमाः॥
सौहृदं दर्शयन्तीव नराः साधुसमागमे ॥ ३१ ॥
पुष्पकिञ्जल्कबहुलाः किञ्जल्कबहुलोदराः ॥
किञ्जल्कमत्तमधुपा विशदा इव शारिका ॥ ३२ ॥
शिरीष पुष्पसङ्काशाः शुका मिथुनतः क्वचित्॥
कीर्तयन्ति गिरश्चित्राः पूजिता ब्राह्मणा यथा ॥ ३३ ॥
संयुक्ताः सहचारिण्या मयूराश्चित्रबर्हिणः ॥
वनान्तरे व्यतिष्ठन्त एकान्त इव संस्थिताः ॥ ३४ ॥
कूजन्ति पत्रिसङ्घाता नानाद्भुतविराविणः ॥
कुर्वन्ति रमणीयं हि रमणीयतरं वनम् ॥ ३५ ॥
नाना मृगगणाकीर्णं नित्यं समुदिताण्डजम् ॥
तद्वनं नन्दनसमं मनोदृष्टिविवर्धनम् ॥ ३६ ॥
कपालपाणिर्भगवांस्तथारूपं वनोत्तमम् ॥
ददर्श शङ्करो दृष्ट्या सौम्यया नन्दनोपमम् ॥ ३७ ॥
ता वृक्षपङ्क्तयः सर्वा दृष्ट्वा रुद्रं समागतम् ॥
निवेद्य शम्भवे भक्त्या मुमुचुः पुष्पसम्पदम् ॥ ३८ ॥
पुष्पप्रतिग्रहं कृत्वा पादपानां महेश्वरः ॥
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः ॥ ३९ ॥
एवमुक्ते भगवता तरवो निरवग्रहाः ॥
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्य महेश्वरम् ॥ 5.1.5.४० ॥
वरं ददासि देवेश प्रसन्न जनवत्सल ॥
इहैव भगवन्नित्य वने सन्निहितो भव ॥ ४१ ॥
एष नः परमः कामो देवदेव नमोऽस्तु ते ॥
त्वं चेद्वससि देवेश वनेऽस्मिन्विश्वभावन ॥ ४२ ॥
सर्वात्मना प्रपन्ना वै याचामहे वरोत्तमम् ॥
किमन्यवरकोटीभिरेष नो दीयतां वरः ॥ ४३ ॥
इत्युक्तः पादपैः सर्वैः शरणागतवत्सलः ॥
वरं ददौ पादपेभ्यः प्रोच्यमानं मया शृणु ॥ ४४ ॥
॥ महेश्वर उवाच ॥ ॥
बाढं मे मनसा वासो नित्यमत्र वनोत्तमे ॥
वरं ददामि भूयो वो न वृथा दर्शनं मम ॥ ४५ ॥
नाग्निर्न वायुर्न जलं न सूर्यकिरणातपः ॥
न विद्युदशनिः शीतं रुजं वो जनयिष्यति ॥ ४६ ॥
नित्यं पुष्पवरोपेता नित्यं सुस्थिरयौवनाः ॥
कामगाः कामरूपाश्च कामरूपफलप्रदाः ॥ ४७ ॥
कामसन्दर्शनाः पुंसां तपःसन्ध्याज्वलदृशाम् ॥
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ ॥ ४८ ॥
एवं स वरदः शम्भुरनुजग्राह पादपान् ॥
स्थित्वा वर्षसहस्रं तु कपालं चाक्षिपद्भुवि ॥ ४९ ॥
क्षितिं निपतता तेन कम्पते स्म रसातलम् ॥
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः ॥ 5.1.5.५० ॥
शक्राशनिहतानीव व्याघ्रव्यालान्वितानि च ॥
शिखराणि व्यशीर्यन्त पर्वतानां सहस्रशः ॥ ५१ ॥
देवसिद्धविमानानि गन्धर्वनगराणि च ॥
प्रस्फुरन्ति विनिष्पेतुर्विनिनेशुर्धरातले ॥ ५२ ॥
कपोतमेषाश्चात्यन्तं पुनः सङ्घातदर्शनाः ॥
ज्योतिर्ग्रहाश्छादयन्तो बभूवुस्तीर्णभास्कराः ॥ ५३ ॥
महता तस्य शब्देन जडान्धबधिरं कृतम् ॥
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम् ॥ ५४ ॥
सुरासुराणां सर्वेषां शरीराणि मनांसि च ॥
अवसे दुश्चकम्पुश्च किमेतदिति जज्ञिरे ॥ ५५ ॥
धैर्यमालम्ब्य सर्वेऽपि समागम्येन्द्रपूर्वकाः ॥
ब्रह्मलोकं समासाद्य ब्रह्माणमिदमूचिरे ॥ ५६ ॥
किं निमित्तं तु भगवन्नेतदुत्पातदर्शने ॥
त्रैलोक्यं कम्पितं येन संयुक्तं कालकर्मणा ॥ ५७ ॥
जातं कल्पावसानं च भिन्नमर्यादसागरम् ॥
चत्वारो दिग्गजाः किं नु बभूवुरचलाश्चलाः ॥ ५८ ॥
धरा समाधृता कस्मात्सप्तसागरवारिणा ॥
उत्पत्तिर्नास्ति सर्वस्य भगवन्न प्रयोजनम् ॥ ५९ ॥
यादृशोऽयं श्रुतः शब्दो न भूतो नापि विश्रुतः ॥
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण भूयसा ॥ 5.1.5.६० ॥
एवमुक्तोऽब्रवीद्ब्रह्मा परमेशानुभावितः ॥
तत्प्रसादात्प्रति ज्ञानी ज्ञात्वा रुद्रमुपस्थितम् ॥ ६१ ॥
यत्पृष्टं मरुतः सर्वे शृणुध्वं तत्र कारणम् ॥
निश्चयेनात्र विज्ञेयं श्रद्दधानैर्यथाविधि ॥ ६२ ॥
मुखं छित्त्वा नखाग्रेण मद्देहात्पञ्चमं शिरः ॥
कपालपाणिर्भगवान्विष्णोराश्रममभ्यगात् ॥ ६३ ॥
ययाचे पात्रमादाय भिक्षां नारायणं प्रभुम् ॥
उत्पपात मुनिस्तत्र नरोनाम धनुर्धरः ॥ ६४ ॥
ततः कुशस्थलीमेत्य भगवांस्तद्वनोत्तमम् ॥
विवेश तरुमार्गेण पुष्पामोदाभिनन्दितः ॥ ६५ ॥
अनुगृह्याथ भगवान्वनं तत्सर्वगाण्डजम् ॥
जगतोऽनुग्रहार्थाय तत्र वासमरोचयत् ॥ ६६ ॥
तत्कपालं करस्थं यन्न्यस्तं भगवता क्षितौ ॥
तेनैषा कम्पिता भूमिः कृतं त्रैलोक्यमाकुलम् ॥ ६७ ॥
तद्द्रक्ष्यथ विरूपाक्षं प्रपद्यत मया सह ॥
आराध्यमानो भग वान्प्रदास्यति वरं हि वः ॥ ६८ ॥
इत्युक्त्वा भगवान्ब्रह्मा सह तैर्देवदानवैः ॥
जगाम तद्वनोद्देशं यत्रास्ते वृषभध्वजः ॥ ६९ ॥
प्रहृष्टमनसः सर्वे कोकिलालापलापिताम् ॥
पुष्पोच्चयोक्षितां सीमां विविशुः शङ्करेप्सवः ॥ 5.1.5.७० ॥
सम्प्राप्तं सर्वमेतैस्तद्वनं नन्दनसम्मितम् ॥
सुवल्लीगृहशोभाढ्यं सुदृढं शुशुभे तदा ॥ ७१ ॥
दृष्ट्वा तद्वनमुत्तमं तनुभृतामाह्रादकं चेतसां नानासत्फलपुष्पपादपवनैरासेवितं सर्वतः ॥
तस्मिन्बर्हिणहंससारसकुलै र्मण्डूकमत्स्यैर्युते द्रक्ष्यामो हरमत्र चेतसि सुराः प्रापुर्मुदं ते तदा ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये देवागमनवर्णनन्नाम पञ्चमोऽध्यायः ॥५॥