॥ सनत्कुमार उवाच ॥ ॥
छिन्ने वक्त्रे ततो ब्रह्मा क्रोधेन तमसा वृतः ॥
ललाटे स्वदमुत्पन्नं गृहीत्वाऽताडयद्भुवि ॥ १ ॥
तत्स्वेदात्कुण्डली जज्ञे सधनुः समहेषुधिः ॥
सहस्रकवचो वीरः किं करोमीत्युवाच ह ॥ २ ॥
तमुवाच विरञ्चिस्तु दर्शयन्रुद्रमोजसा ॥
वध्यतामेष दुर्बुद्धिर्जायते न यथा पुनः ॥ ३ ॥
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः ॥
स प्रतस्थे महेशस्य बाणहस्तोऽतिरोषभृत् ॥ ४ ॥
स दृष्ट्वा पुरुषं चोग्रमगमद्विस्मितो भवः ॥
दिव्यबाणधनुर्हस्तं वेगविक्रान्तगामिनम् ॥ ५ ॥
मया न वध्योऽतिबलः सखा विष्णोर्भविष्यति ॥
अनुग्राह्यो ह्यहं तेन सख्यार्थं तपसि स्थितः ॥ ६ ॥
चिन्तयन्नित्थमीशोऽपि विष्णोराश्रममभ्यगात् ॥
हुङ्कारध्वनिना ब्रह्मन्मोहयित्वा ततो नरम् ॥ ७ ॥
प्रपात्य च तदा हृष्टः क्रीडां कुर्वञ्जगत्स्थितौ ॥
यत्र नारायणः श्रीमांस्तपस्तेपे प्रतापवान् ॥ ८ ॥
अदृश्यः सर्वभूतानां विश्वात्मा विश्वसृग्विभुः ॥
तत्र प्राप्तो विरूपाक्षो ददर्श मधुसूदनम् ॥ ९ ॥
एकाङ्गुष्ठस्थितं भूमौ तपोऽत्यन्तमनातुरम् ॥
युगान्तार्कसहस्रस्य तेजसा वृतमद्भुतम् ॥ 5.1.3.१० ॥
पुण्या धारसमायुक्तं पुराणपुरुषोत्तमम् ॥
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह ॥ ११ ॥
कपालं दर्शयित्वाग्रे ज्वलज्ज्वलनसोत्कटम् ॥
कपालपाणिं सम्प्रेक्ष्य रुद्रं विष्णुरचिन्तयत् ॥ १२ ॥
कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य साम्प्रतम् ॥
योग्योऽयमिति सङ्कल्प्य दक्षिणं भुजमर्पयत् ॥ १३ ॥
तं बिभेदान्तर्गतज्ञः शूलेन शशिशेखरः ॥
ततः प्रवाह उत्पन्नः शोणितस्य विभोर्भुजात् ॥ १४ ॥
जाम्बूनदरसाकारा वह्निज्वालेव निर्मला ॥
निष्पपात कपालान्ते शम्भुना सम्प्रतीच्छिता ॥ १५ ॥
ऋज्वी वेगवती शिप्रा दीधितीवाम्बरे रवेः ॥
पञ्चाशद्योजना दीर्घा विस्तारे दशयोजना ॥ १६ ॥
दिव्यं वर्षसहस्रं सा समुवाह हरेर्भुजात् ॥
कियन्तं कालमीशो हि भिक्षां जग्राह भावितः ॥ १७ ॥
दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे ॥
ततो नारायणः प्राह हरं परमिदं वचः ॥ १८ ॥
सम्पूर्णं तव पात्रं हि ततो वै परमेश्वरः ॥
सतोयाम्बुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः ॥ १९ ॥
शशिसूर्याग्नि नयनः शशिशेखरशोभितः ॥
कपाले दृष्टिमावेश्य त्रिनेत्रैश्च जनार्दनम् ॥ 5.1.3.२० ॥
अङ्गुल्या घटयन्प्राह कपालं चातिपूरितम् ॥
श्रुत्वा हरिरिदं वाक्यं रक्तधारां समाहरत् ॥ २१ ॥
पार्श्वतोथ हरेरीशः स्वाङ्गुल्या रुधिरं तदा ॥
दिव्यं वर्षसहस्रं च दृष्टिपातं ममन्थ वै ॥ २२ ॥
मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात् ॥
बभूव च ततः पश्चात्किरीटी सशरासनः ॥ २३ ॥
सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः ॥
बभूव तूणीरगलो वृषस्कन्धोंऽगुलित्रवान् ॥ २४ ॥
पुरुषोऽर्जुनसङ्काशः कपाले सम्प्रकाशयन् ॥
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः ॥ २५ ॥
कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः ॥
उक्तिं श्रुत्वा हरेरीशस्तमुवाच हरे शृणु ॥ २६ ॥
नरो नामेति पुरुषः परमास्त्रविदांवरः ॥
यस्त्वयोक्तो नर इति नरस्तस्माद्भ विष्यति ॥ २७ ॥
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः ॥
सङ्ग्रामे देवकार्येषु लोकानां परिपालने ॥ २८ ॥
एष नारायण सखा नरस्तव भविष्यति ॥
तव एकाकिनः सङ्ख्ये तपसश्च महामुनिः ॥ २९ ॥
विज्ञानस्य परीक्षायै तेजो लोके भविष्यति ॥
तेजोधिकमिदं दिव्यं ब्रह्मणः पञ्चमं शिरः ॥ 5.1.3.३० ॥
तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात् ॥
मम दृष्टिनिपाताच्च त्रीणि तेजांसि यान्यतः ॥ ३१ ॥
तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति ॥
अवध्या ये भविष्यन्ति दुर्जयास्तव चापरे ॥ ३२ ॥
शक्रस्य चामरारीणां तेषामेव भयङ्करः ॥
एवमुक्तवतः शम्भोर्विस्मितस्तस्य तेजसा ॥ ३३ ॥
हरिरपि स तत्रैव तुष्टाव हरकेशवौ ॥
नमो हर हरे तुभ्यं नमः शङ्कर विष्णवे ॥ ३४ ॥
नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये ॥
नमोनमस्ते मेध्याय हृषीकेश नमोऽस्तु ते ॥ ३५ ॥
नमोऽस्तु वाचां पतये श्रीधराय नमोनमः ॥
एवं स्तुवन्तं तं भक्त्या कृताञ्जलि पुटं नरम्॥ ३६ ॥
तथैवाञ्जलिसम्बद्धं गृहीत्वाशु करद्वयम्॥
उद्धृत्याथ कपालात्तु पुनर्वचनमब्रवीत् ॥ ३७ ॥
य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः ॥
मम हुङ्कारशब्देन मोहनिद्रामुपागतः ॥ ३८ ॥
निबोध तं च त्वरितमित्युक्त्वान्तर्हितो हरः ॥
नारायणस्य प्रत्यक्षं बोधयित्वा द्रुतं हि तम्॥ ३९ ॥
वामपादेन हत्वा च समुत्तस्थौ नरो रुषा ॥
तयोर्युद्धं समभवत्स्वेदरक्तजयोर्महत् ॥ 5.1.3.४० ॥
विस्फारितधनुःशब्दैर्नादिताशेषभूत लम्॥
कवचं स्वेदजस्यैकं रक्तजस्य तथा भुजौ ॥४१॥
एवं समेन वै युद्धं दिव्यं जातं तु भूतले ॥
त्रिवर्षोनानि वर्षाणां शतानि दश सुद्विज॥४२॥
युध्यतो समतीतानि स्वेदरक्तजयोर्मुने ॥
रक्तजो द्विभुजो दृष्ट्वा कवचैकेन स्वेदजम् ॥ ४३ ॥
बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम् ॥
ससम्भ्रममु वाचेदं ब्रह्माणं मधुसूदनः ॥ ४४ ॥
मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः ॥
श्रुत्वा तदाकुलो ब्रह्मा बभाषे मधुसूदनम् ॥ ४५ ॥
हरेऽन्यजन्मनि नरो मदीयो यदि हीयते ॥
तेन तुष्टेन सम्प्रोक्तं हरिणैवं भविष्यति ॥ ४६ ॥
कृत्वा तयो रणमपि निवार्य तावुवाच ह ॥
अथान्यजन्मनि नरो मदीयो भविता कलौ ॥ ४७ ॥
ततो महारणे जाते तत्राहं योजयामि तम् ॥
विष्णुनाथ समाहूय महेश्वरसुरेश्वरौ ॥ ४८ ॥
उक्ताविमौ नरौ रुद्रौ पालनीयौ स्वशक्तितः ॥
स्वेदजातासृग्जातौ तु स्वकीयांशौ धरातले ॥
स्वांशभूतौ द्वापरान्ते नियोज्यौ भूतले त्वया ॥ ४९ ॥
ततोऽब्रवीत्तदा विष्णुं सुरेशो दुःखितं वचः ॥ 5.1.3.५० ॥
अस्मिन्मन्वन्तरे देव त्रेतायुगं तदा यदा ॥
त्वद्रूपेणेह महता सूर्यपुत्रहितार्थिना ॥
वालीनाम महाबाहुः सुग्रीवार्थे निपातितः ॥ ५१ ॥
तेन दुःखेन तप्तोऽहं नाहं गृह्णामि ते नरम् ॥
अगृह्णमानं देवेशं कारणान्तरवादिनम् ॥ ५२ ॥
विष्णुः प्रोवाच मघवन्भुवो भारावतारणे॥
अवतारं करिष्यामि मर्त्यलोकेऽप्यहं विभो॥५३॥
ततो हृष्टोऽभवच्छक्रो विष्णुवाक्येन तेन वै॥
प्रतिगृह्य नरं हृष्टः सत्यमस्तु वचस्तव ॥ ५४ ॥
इत्युक्त्वा तु रवीन्द्रौ स प्रेषयित्वा च तौ पुनः ॥
गत्वा च पुण्डरीकाक्षो ब्रह्माणं ब्रह्मवेश्मनि ॥ ५५ ॥
कृतं जुगुप्सितं कर्म ब्रह्मन्नीशं जिघांसता ॥
यत्त्वया देवदेवेश पुमान्कोपेन भाषितः ॥ ५६ ॥
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु ॥
गृह्णन्वह्नित्रयं ब्रह्मन्नग्नि होत्रमुपास्व ह ॥ ५७ ॥
एको वै गार्हपत्योऽस्तु द्वितीयाहवनीयकः ॥
दक्षिणाग्निस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय ॥ ५८ ॥
वर्तुले तर्पयात्मानं मामथो धनुषाकृतौ ॥
चतुष्कोणे हरं देवमृग्यजुःसामनामभिः ॥ ५९ ॥
हुत्वा त्वग्निं च तपसा हरमेवार्च्य तत्क्षणात् ॥
दिव्यं वर्षसहस्रं तु हुत्वाग्निं सिद्धिमाप्स्यसि ॥ 5.1.3.६० ॥
प्रायश्चित्तविशुद्धात्मा प्रतिपद्य महेश्वरम्॥
ततो निष्कल्मषो भूत्वा विषादस्ते गमिष्यति ॥ ६१ ॥
इत्येवमुक्त्वा हरिरुग्रतेजा गतः स्वकीयं निलयं महात्मा ॥
ब्रह्मापि चित्तं तपसे निधाय समादधे सर्वमथाच्युतोक्तम् ॥६२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाह स्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये ब्रह्मणः प्रायश्चित्तवर्णनन्नाम तृतीयोऽध्यायः ॥ ३ ॥छ॥।