००१ महाकालवनप्रशंसावर्णनम्

॥ श्रीगणेशाय नमः ॥
श्रीजगदम्बायै नमः ॥
॥ अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते ॥
॥ व्यास उवाच ॥ ॥
स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवा
यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च ॥
लोकानामादिदेवः स जयतु भगवाञ्छ्रीमहा कालनामा बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालम् ॥ १ ॥
॥ उमोवाच ॥ ॥
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा॥
कथ्यन्तां तानि यत्नेन श्रद्धा येषु प्रजायते ॥ २ ॥
ईश्वर उवाच ॥ ॥
अस्ति लोकेषु विख्याता गङ्गा त्रिपथगा नदी ॥
सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता ॥ ३ ॥
तपनस्य सुता देवी यमुना लोकपावनी ॥
पितॄणां वल्लभा देवी महापातकनाशिनी ॥ ४ ॥
चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके ॥
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा ॥ ५ ॥
केदारं पुष्करं चैव तथा कायावरोहणम् ॥
तथा पुण्यतमं देवि महाकालवनं शुभम् ॥ ६ ॥
यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः ॥
क्षेत्रं योजनपर्यन्तं ब्रह्महत्यादिनाशनम् ॥ ७ ॥
भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम् ॥
प्रलयेऽप्यक्षयं देवि दुष्प्रापं त्रिदशैरपि ॥ ८ ॥
॥ उमोवाच ॥ ॥
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर ॥
यानि तीर्थानि विद्यन्ते यानि लिङ्गानि सन्ति वै॥ ९ ॥
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ 5.1.1.१० ॥
॥ महादेव उवाच ॥ ॥
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ॥
क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम् ॥ ११ ॥
श्रीमेरोः सन्निधाने च शिखरं रत्नचिह्नितम् ॥
अनेकाश्चर्यनिलयं बहुपादपसङ्कुलम् ॥ १२ ॥
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम् ॥
विचित्रवर्णशोभाढ्यमृषिसङ्घनिनादितम् ॥ १३ ॥
मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम् ॥
निर्झराम्बुप्रपातोत्थशीकराकरसङ्कुलम् ॥ १४ ॥
वाताहततरुव्रातप्रसूनास्थानचित्रितम् ॥
मृगनाभिवरामोदवासिता शेषकाननम् ॥ १५ ॥
लतागृहरतिस्थानं सिद्धविद्याधराश्रयम् ॥
प्रवीणकिन्नरव्रातमधुरध्वनिनादितम् ॥ १६ ॥
तस्मिन्वने महारम्ये शोभिताशेष भूमिकम् ॥
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः ॥ १७ ॥
तत्र दिव्याङ्गनागीतमधुरध्वनिनादिता ॥
पारिजाततरुच्छन्नमञ्जरीदामशोभिता ॥ ॥ १८ ॥
बहुवाद्यसमुन्नद्धमहास्वननिनादिता ॥
लयतालयुतानेकगीतवादित्रनादिता ॥ १९ ॥
विन्यस्ता कोटिभिः स्तम्भैर्निर्मलादर्शशोभिता ॥
लयतालयुतानेकमहाकौतुकसंयुता ॥ 5.1.1.२० ॥
अप्सरोनृत्यविन्यासविलासोल्लासशोभिता ॥
सभा कान्तिमतीनाम देवानां हर्षदायिका ॥ २१ ॥
ऋषिसङ्घसमाकीर्णा मुनिवृन्दनिषेविता ॥
द्विजातिवेदशब्देन नादिताऽऽनन्ददायिका ॥ २२ ॥
तस्यां निविष्टं वागीशं शङ्कराराधने रतम् ॥
सनत्कुमारं ब्रह्मर्षिं ब्रह्मणो मानसं सुतम् ॥ २३ ॥
मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः ॥
पराशरसुतो व्यासः प्रणिपत्य यथाविधि ॥ २४ ॥
कृताञ्जलिपुटो भूत्वा भवभक्त्यानुभावितः ॥
पप्रच्छ परया तुष्ट्या हर्षिताङ्गरुहाननः ॥ २५ ॥
महाकालस्य माहात्म्यं प्राणिनां मोहनाशनम् ॥
॥ ॥ व्यास उवाच ॥ ॥
महाकालवनं कस्मात्प्रोच्यते सर्वतो वरम् ॥ २६ ॥
भगवन्क्षेत्रमाहात्म्यं महाकालस्य कथ्यताम् ॥
कथं गुह्यवनं प्रोक्तं पीठत्वमूषरं तथा ॥ २७ ॥
फलं यथात्र वसतां मृतानां च गतिर्यथा ॥
स्नानेन यद्भवेत्पुण्यं दानेनापि च यत्फलम् ॥ २८ ॥
कथमेतत्स्मशानं च क्षेत्रं प्रोक्तं यथा तथा ॥
पृष्टं मे शङ्करे भक्त्या ब्रूहि त्वं शास्त्रकोविद ॥ २९ ॥
॥ सनत्कुमार उवाच ॥ ॥
क्षीयते पातकं यत्र तेनेदं क्षेत्रमुच्यते ॥
यस्मात्स्थानं च मातॄणां पीठं तेनैव कथ्यते ॥ 5.1.1.३० ॥
मृताः पुनर्न जायन्ते तेनेदमूषरं स्मृतम् ॥
गुह्यमेतत्प्रियं नित्यं क्षेत्रं शम्भोर्महा त्मनः ॥३१॥
यस्मादिष्टं हि भूतानां स्मशानमतिवल्लभम् ॥
महाकालवनं यच्च तथा चैवाविमुक्तिकम् ॥ ३२ ॥
एकाम्रकं भद्रकालं करवीरवनमेव च ॥
कोलागिरिस्तथा काशी प्रयागममरेश्वरम् ॥ ३३ ॥
भरथं चैव केदारं दिव्यं रुद्रमहालयम् ॥
दिव्यस्मशानान्येतानि रुद्रस्येष्टानि नित्यशः ॥ ॥ ३४ ॥
रमते भगवानेषु सिद्धक्षेत्रेषु सर्वदा ॥
पृथिव्यां नैमिषं तीर्थमुत्तमं तीर्थपुष्करम् ॥ ३५ ॥
त्रयाणामपि लोकानां कुरुक्षेत्रं प्रशस्यते ॥
कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी मता ॥ ३६ ॥
तस्या दशगुणं व्यास महाकालवनोत्तमम् ॥
प्रभासाद्यानि तीर्थानि पृथिव्यामिह यानि तु ॥ ३७ ॥
प्रभासमुत्तमं तीर्थं क्षेत्रमाद्यं पिनाकिनः ॥
श्रीशैलमुत्तमं तीर्थं देवदारुवनं तथा ॥ ३८ ॥
तस्मादप्युत्तमं व्यास पुण्या वाराणसी मता॥
तस्माद्दशगुणं प्रोक्तं सर्वतीर्थोत्तमं यतः॥३९॥
महाकालवनं गुह्यं सिद्धक्षेत्रं तथोषरम् ॥
किञ्चिद्गुह्यान्यथान्यानि स्मशानान्यूषराणि च ॥5.1.1.४०॥
सर्वतस्तु समाख्यातं महाकालवनं मुने ॥
स्मशानमूषरक्षेत्रं पीठं तु वनमेव च ॥४१॥
पञ्चैकत्र न लभ्यन्ते महाकालपुरादृते ॥४२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनप्रशंसावर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥