॥ सूत उवाच ॥ ॥
इदं स्कान्दमहं श्रुत्वा काशीखण्डमनुत्तमम् ॥
नितरां परितृप्तोस्मि हृदि चापि विधारितम् ॥ १ ॥
अनुक्रमणिकाध्यायं तथा माहात्म्यमुत्तमम् ॥
पाराशर्य समाचक्ष्व यथापूर्वमिदं भवेत्॥ २ ॥
॥ व्यास उवाच ॥ ॥
सूतावधेहि धर्मात्मञ्जातूकर्ण्य निशामय ॥
शुकवैशम्पायनाद्याः शृण्वन्त्वपि च बालकाः ॥ ३ ॥
अनुक्रमणिकाध्यायं माहात्म्यं चापि खण्डजम् ॥
प्रवक्ष्याम्यघनाशाय महापुण्यप्रवर्धनम् ॥ ४ ॥
विन्ध्यनारदसंवादः प्रथमे परिकीर्तितः ॥
सत्यलोकप्रभावश्च द्वितीयः समुदाहृतः ॥ ५ ॥
अगस्तेराश्रमपदे देवानामागमस्ततः ॥
पतिव्रता चरित्रं च प्रस्थानं कुम्भसम्भवः ॥ ६ ॥
तीर्थप्रशंसा च ततः सप्तपुर्यस्ततः स्मृताः ॥
संयमिन्याः स्वरूपं च ब्रध्नलोकस्ततः परम् ॥ ७ ॥
इन्द्राग्न्योर्लोकसम्प्राप्तिस्ततश्च शिवशर्मणः ॥
अग्नेः समुद्भवस्तस्मात् क्रव्याद्वरुणसम्भवः ॥८ ॥
गन्धवत्यलकापुर्योरीशयोस्तु समुद्भवः ॥
चन्द्रलोकपरिप्राप्तिः शिवशर्मद्विजन्मनः ॥ ९ ॥
उडुलोक कथा तस्मात्ततः शुक्रसमुद्भवः ॥
माहेय गुरुसौरीणां लोकानां वर्णनं ततः ॥ 4.2.100.१० ॥
सप्तर्षीणां ततो लोका ध्रुवस्य च तपस्ततः ॥
ततो ध्रुवपदप्राप्तिर्ध्रुवलोक स्थितिस्ततः. ॥ ११ ॥
दर्शनं सत्यलोकस्य तस्य वै शिवशर्मणः ॥
चतुर्भुजाभिषेकश्च निर्वाणं शिवशर्मणः ॥ १२॥
स्कन्दागस्त्योश्च संवादो मणिकर्ण्याः समुद्भवः ॥
ततस्तु गङ्गामाहात्म्यं ततो दशहरास्तवः ॥१३ ॥
प्रभावश्चापि गङ्गाया गङ्गानामसहस्रकम् ॥
वाराणस्याः प्रशंसाथ भैरवाविर्भवस्ततः ॥ १४ ॥
दण्डपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः ॥
आख्यानं च कलावत्याः सदाचारस्ततः परम् ॥ १५ ॥
ब्रह्मचारि प्रकरणं ततः स्त्रीलक्षणानि च ॥
कृत्याकृत्यप्रकरणमविमुक्तेशवर्णनम् ॥ १६ ॥
ततो गृहस्थधर्माश्च ततो योगनिरूपणम् ॥
कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्णनम् ॥ १७ ॥
काश्याश्च वर्णनं तस्माद्योगिनीवर्णनं ततः ॥
लोलार्कस्य समाख्यानमुत्तरार्ककथा ततः॥ ॥ १८॥
साम्बादित्यस्य महिमा द्रुपदादित्य शंसनम् ॥
ततस्तु गरुडाख्यानमरुणार्कादयस्ततः ॥ १९ ॥
दशाश्वमेधिकं तीर्थं मन्दराच्च गणागमः ॥
पिशाचमोचनाख्यानं गणेशप्रेषणं ततः ॥ 4.2.100.२० ॥
मायागणपतेश्चाथ ढुण्ढिप्रादुर्भवस्ततः ॥
विष्णुमायाप्रपञ्चोथ दिवोदासविसर्जनम् ॥ २१ ॥
ततः पञ्चनदोत्पत्तिर्बिन्दुमाधवसम्भवः ॥
ततो वैष्णवतीर्थानां माहात्म्यपरिवर्णनम् ॥ २२ ॥
प्रयाणं मन्दरात्काशीं वृषभध्वजशूलिनः ॥
जैगीषव्येन संवादो ज्येष्ठस्थाने महेशितुः ॥२३ ॥
ततः क्षेत्ररहस्यस्य कथनं पापनाशनम् ॥
अथातः कन्दुकेशस्य व्याघ्रेशस्य समुद्भवः ॥२४॥
ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम् ॥
कृत्तिवासः समुत्पत्तिस्ततश्चायतनागमः ॥२५॥
देवतानामधिष्ठानं दुर्गासुरपराक्रमः ॥
दुर्गाया विजयश्चाथ तत ओङ्कारवर्णनम् ॥ २६ ॥
पुनरोङ्कारमाहात्म्यं त्रिलोचनसमुद्भवः ॥
त्रिलोचनप्रभावोथ केदाराख्यानमेव च ॥ २७ ॥
ततो धर्मेशमहिमा ततः पक्षिकथा शुभा ॥
ततो विश्वभुजाख्यानं दुर्दमस्य कथा ततः ॥ २८ ॥
ततो वीरेश्वराख्यानं वीरेश महिमा पुनः ॥
गङ्गातीर्थैश्च संयुक्ता कामेश महिमा ततः ॥ २९ ॥
विश्वकर्मेश महिमा दक्षयज्ञसमुद्भवः ॥
सत्या देहविसर्गश्च ततो दक्षेश्वरोद्भवः ॥ 4.2.100.३० ॥
ततो वै पार्वतीशस्य महिम्नः परिकीर्तनम् ॥
गङ्गेशस्याथ महिमा नर्मदेशसमुद्भवः ॥ ३१ ॥
सतीश्वरसमुत्पत्तिरमृतेशादि वणर्नम् ॥
व्यासस्य हि भुजस्तम्भो व्यासशापविमोक्षणम् ॥ ३२ ॥
क्षेत्रतीर्थकदम्बं च मुक्तिमण्डप सङ्कथा ॥
विश्वेशाविर्भवश्चाथ ततो यात्रापरिक्रमः ॥ ३३ ॥
एतदाख्यानशतकं क्रमेण परिकीर्तितम् ॥
यस्य श्रवणमात्रेण सर्वखण्ड श्रुतेः फलम् ॥
अनुक्रमणिकाध्यायेप्यस्ति यात्रापरिक्रमः ॥३४॥
॥ सूत उवाच ॥
यात्रा परिक्रमं ब्रूहि जनानां हितकाम्यया ॥
यथावत्सिद्धिकामानां सत्यवत्याः सुतोत्तम ॥ ३५ ॥
॥ व्यास उवाच॥ ॥
निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ॥
यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर्मुदा ॥ ३६ ॥
सचैलमादौ संस्नाय चक्रपुष्करिणीजले ॥
सन्तर्प्यदेवासपितॄन्ब्राह्मणांश्च तथार्थिनः ॥ ३७ ॥
आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम् ॥
नमस्कृत्य ततो गच्छेद्द्रष्टुं ढुण्ढिविनायकम् ॥३८॥
ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोर्चयेत् ॥
तारकेशं ततोभ्यर्च्य महाकालेश्वरं ततः ॥ ३९ ॥
ततः पुनर्दण्डपाणिमित्येषा पञ्चतीर्थिका ॥ 4.2.100.४० ॥
दैनन्दिनी विधातव्या महाफलमभीप्सुभिः ॥
ततो वैश्वेश्वरी यात्रा कार्या सर्वार्थ सिद्धिदा॥४१ ॥
द्विसप्तायतनानां च कार्या यात्रा प्रयत्नतः ॥
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ॥ ४२ ॥
अथवा प्रतिभूतं च क्षेत्रसिद्धिमभीप्सुभिः ॥
तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्चनः ॥४३॥
मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः॥
ओङ्कारं प्रथमं पश्येन्मत्स्योदर्यां कृतोदकः ॥ ४४ ॥
त्रिविष्टपं महादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशं चाथ चन्द्रेशं केदारं च ततो व्रजेत् ॥४५॥
धर्मेश्वरं च वीरेशं गच्छेत्कामेश्वरं ततः ॥
विश्वकर्मेश्वरं चाथ मणिकर्णीश्वरं ततः ॥ ४६ ॥
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्चयेत् ॥
एषा यात्रा प्रयत्नेन कर्तव्या क्षेत्रवासिना ॥ ४७ ॥
यस्तु क्षेत्रमुषित्वा तु नैतां यात्रां समाचरेत् ॥
विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः ॥ ४८ ॥
अष्टायतन यात्रान्या कर्तव्या विघ्रशान्तये ॥
दक्षेशः पार्वतीशश्च तथा पशुपतीश्वरः ॥४९॥
गङ्गेशो नर्मदेशश्च गभस्तीशः सतीश्वरः ॥
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ॥ 4.2.100.५० ॥
दृश्यान्येतानि लिङ्गानि महापापोपशान्तये ॥
अपरापि शुभा यात्रा योगक्षेमकरी सदा ॥ ५१ ॥
सर्वविघ्रोपहन्त्री च कर्तव्या क्षेत्रवासिभिः ॥
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् ॥ ५२ ॥
स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः ॥
स्वलीन तीर्थे सुस्नातः पश्येत्स्वलीनमीश्वरम् ॥ ५३ ॥
स्नात्वा मन्दाकिनी तीर्थे द्रष्टव्यो मध्यमेश्वरः ॥
पश्येद्धिरण्यगर्भेशं तत्र तीर्थे कृतोदकः ॥ ५४ ॥
मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्॥
ततः कूपमुपस्पृश्य गोप्रेक्षमवलोकयेत् ॥ ५५ ॥
कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम् ॥
उपशान्तशिवं पश्येत्तत्कूपविहितोदकः ॥ ५६ ॥
पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत् ॥
चतुःसमुद्रकूपे तु स्नात्वा देवं समर्चयेत् ॥ ५७ ॥
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ॥
शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः ॥५८॥
दण्डखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥
शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोर्चयेत् ॥५९॥
जम्बुकेशं महालिङ्गं कृत्वा यात्रामिमां नरः॥
क्वचिन्न जायते भूयः संसारे दुःखसागरे ॥4.2.100.६०॥
समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी ॥
एतत्क्रमेण कर्तव्यान्ये तदायतनानि वै ॥६१॥
इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते ॥
अन्या यात्रा प्रकर्तव्यैका दशायतनोद्भवा ॥६२ ॥
आग्नीध्र कुण्डे सुस्नातः पश्येदाग्नीध्रमीश्वरम् ॥
उर्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ॥६३॥
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः ॥
लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् ॥ ६४ ॥
ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥
मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः ॥ ६५ ॥
यात्रैकादशलिङ्गानामेषा कार्या प्रयत्नतः॥
इमां यात्रां प्रकुर्वाणो रुद्रत्वं प्राप्नुयान्नरः ॥ ६६॥
अतः परं प्रवक्ष्यामि गारी यात्रामनुत्तमाम्॥
शुक्लपक्षे तृतीयायां या यात्रा विष्वगृद्धिदा ॥ ६७ ॥
गोप्रेक्षतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत् ॥
ज्येष्ठावाप्यां नरः स्नात्वा ज्येष्ठागौरीं समर्चयेत् ॥६८॥
सौभाग्यगौरी सम्पूज्या ज्ञानवाप्यां कृतोदकैः॥
ततः शृङ्गारगौरीं च तत्रैव च कृतोदकः ॥ ६९ ॥
स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ॥
सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः ॥4.2.100.७०॥
स्नात्वा भवानीतीर्थेथ भवानीं परिपूजयेत् ॥
मङ्गला च ततोभ्यर्च्या बिन्दुतीर्थकृतोदकैः ॥ ७१ ॥
ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥
इमां यात्रां नरः कृत्वा क्षेत्रेस्मिन्मुक्तिजन्मनि ॥ ७२ ॥
न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥
कुर्यात्प्रतिचतुर्थीह यात्रां विघ्नेशितुः सदा ॥ ७३ ॥
ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ॥
भौमे भैरवयात्रा च कार्या पातकहारिणी ॥ ७४ ॥
रविवारे रवेर्यात्रा षष्ठ्यां वारविसंयुजि ॥
तथैव रविसप्तम्यां सर्वविघ्नोपशान्तये ॥ ७५ ॥
नवम्यामथवाष्टम्यां चण्डीयात्रा शुभा मता ॥
अन्तर्गृहस्य वै यात्रा कर्तव्या प्रतिवासरम् ॥ ७६ ॥
प्रातःस्नानं विधायादौ नत्वा पञ्चविनायकान् ॥
नमस्कृत्वाथ विश्वेशं स्थित्वा निर्वाणमण्डपे ॥ ७७ ॥
अन्तर्गृहस्य यात्रा वै करिष्ये घौघशान्तये ॥
गृहीत्वा नियमं चेति गत्वाथ मणिकर्णिकाम् ॥ ७८ ॥
स्नात्वा मौनेन चागत्य मणिकर्णीशमर्चयेत् ॥
कम्बलाश्वतरौ नत्वा वासुकीशं प्रणम्य च ॥७९॥
पर्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ॥
ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः ॥4.2.100.८०॥
ततो वै सोमनाथं च वाराहं च ततो व्रजेत् ॥
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ॥ ८१ ॥
कश्यपेशं नमस्कृत्य हरिकेशवनं ततः ॥
वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च ॥ ८२ ॥
गोकर्णेश्वरमभ्यर्च्य हाटकेशमथो व्रजेत् ॥
अस्थिक्षेप तडागे च दृष्ट्वा वै कीकसेश्वरम् ॥ ८३ ॥
भारभूतं ततो नत्वा चित्रेगुप्तेश्वरं ततः ॥
चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् ॥ ८४ ॥
पितामहेश्वरं गत्वा ततस्तु कलशेश्वरम् ॥
चन्द्रेशस्त्वथ वीरेशो विद्येशोग्नीश एव च ॥८५॥
नागेश्वरो हरिश्चन्द्रश्चिन्तामणिविनायकः ॥
सेनाविनायकश्चाथ द्रष्टव्यः सर्वविघ्नहृत् ॥ ८६ ॥
वसिष्ठवामदेवौ च मूर्तिरूपधरावुभौ ॥
द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशिनौ ॥ ८७ ॥
सीमाविनायकं चाथ करुणेशं ततो व्रजेत् ॥
त्रिसन्ध्येशो विशालाक्षी धर्मेशो विश्वबाहुका ॥
आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥ ८८ ॥
चतुर्वक्त्रेश्वरं लिङ्गं ब्राह्मीशस्तु ततः परः ॥
ततो मनःप्रकामेश ईशानेशस्ततः परम् ॥ ८९ ॥
चण्डीचण्डीश्वरौ दृश्यौ भवानीशङ्करौ ततः ॥
ढुण्ढिं प्रणम्य च ततो राजराजेशमर्चयेत् ॥ 4.2.100.९० ॥
लाङ्गलीशस्ततोभ्यर्च्यस्ततस्तु नकुलीश्वरः ॥
परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ॥ ९१ ॥
प्रतिग्रहेश्वरं वापि निष्कलङ्केशमेव च ॥
मार्कण्डेयेशमभ्यर्च्य ततश्चाप्सरसेश्वरम् ॥ ९२ ॥
गङ्गेशोर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् ॥
नन्दिकेशं तारकेशं महाकालेश्वरं ततः ॥ ९३ ॥
दण्डपाणिं महेशं च मोक्षेशं प्रणमेत्ततः ॥
वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥९४॥
विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् ॥.
ततो मौनं विसृज्याथ मन्त्रमेतमुदीरयेत् ॥ ९५ ॥
अन्तर्गृहस्य यात्रेयं यथावद्या मया कृता ॥
न्यूनातिरिक्तया शम्भुः प्रीयतामनया विभुः ॥९६॥
इति मन्त्रं समुच्चार्य क्षणं वै मुक्तिमण्डपे ॥
विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ॥९७॥
सम्प्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्वतः ॥
कार्या यात्रा प्रयत्नेन महापुण्य समृद्धये ॥ ९८ ॥
नभस्य पञ्चदश्यां च कुलस्तम्भं समर्चयेत् ॥
दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात् ॥ ९९ ॥
श्रद्धापूर्वमिमा यात्रा कर्तव्याः क्षेत्रवासिभिः ॥
पर्वस्वपि विशेषेण कार्या यात्राश्च सर्वतः ॥ 4.2.100.१०० ॥
न वन्ध्यं दिवसं कुर्याद्विनायात्रां क्वचित्कृती ॥
यात्राद्वयं प्रयत्नेन कर्तव्यं प्रतिवासरम् ॥ १ ॥
आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्ध्रुवम् ॥
यस्य वन्ध्यं दिनं यातं काश्यां निवसतः सतः ॥ २॥
निराशाः पितरस्तस्य तस्मिन्नेव दिनेऽभवन् ॥
स दष्टः कालसर्पेण स दृष्टो मृत्युना स्फुटम् ॥ ३ ॥
स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ॥
सर्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात्स च ॥
मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत ॥४॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनःपुनः ॥
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका॥५॥
॥ व्यास उवाच ॥ ॥
सूत स्कान्दमिदं श्रुत्वा काशीमाहात्म्यमुत्तमम् ॥
नरो न निरयं याति कृत्वाप्यघसहस्रकम् ॥ ६ ॥
स्नात्वा सर्वाणि तीर्थानि यच्छ्रेयः समुपार्ज्यते ॥
काशीखण्डस्य श्रवणात्तत्स्यात्सूत न संशयः ॥७॥
दत्त्वा दानानि सर्वाणि कृत्वा यज्ञाननेकशः ॥
तत्पुण्यं लभते मर्त्यस्तदा तच्छ्रवणाद्ध्रुवम् ॥८ ॥
तप्त्वा तपांसि चोग्राणि प्राप्यते यन्महत्फलम् ॥
श्रवणादस्य खण्डस्य लभते तन्न संशयः ॥ ९ ॥
अधीत्य चतुरो वेदान्साङ्गान्यत्फलमाप्यते ॥
काशीखण्डं समाकर्ण्य तत्फलं लभ्यते नरैः ॥ 4.2.100.११० ॥
गययां श्राद्धदानाच्च यथा तृप्यन्ति पूर्वजाः ॥
तथैतच्छ्रवणान्नृणां तृप्नुवन्ति पितामहाः ॥ ११ ॥
तैश्च सर्वपुराणानि श्रुतानि स्थिरबुद्धिभिः ॥
काशीखण्डं श्रुतं यैश्च सर्वेषां श्रेयसां पदम् ॥ १२ ॥
श्रुताश्च सर्वधर्मास्तैर्महापुण्येकराशिभिः ॥
श्रुतं यैः स्थिरचेतोभिः काशीमाहात्म्यमुत्तमम्॥१३ ॥
इदमेव हि देवेज्या परमा परिकीर्तिता ॥
जपेत्तत्खण्डमखिलं श्रोतव्यं श्रद्धया द्विजाः ॥ १४ ॥
शृणुयादेकमपि य आख्यानं काशिखण्डजम् ॥
श्रुतानि तेन सर्वाणि धर्मशास्त्राण्यसंशयम् ॥ १५ ॥
महाधर्मैकजननं महार्थप्रतिपादकम् ॥
कारणं सर्वकामाप्तेः काशीखण्डमिदं स्मृतम् ॥ १६ ॥
एतच्छ्रवणतः पुंसां कैवल्यं नैव दूरतः ॥
तुष्यन्ति सर्वे पितरः श्रुत्वैतत्खण्डमुत्तमम् ॥ १७॥
प्रीणन्त्यमर्त्याः सर्वेपि ब्रह्मविष्णुशिवादयः ॥
मुनयः परिमोदन्ते माद्यन्ति सनकादयः ॥ १८ ॥
हृष्टः सर्वो भवेदेव भूतग्रामश्चतुर्विधः ॥
महिमश्रवणादस्माद्वाराणस्या न संशयः ॥ १९ ॥
य इदं श्रावयेद्विद्वान्समस्तं त्वर्धमेव वा ॥
पादमात्रं तदर्धं वा त्वेकं व्याख्यानमुत्तमम् ॥ 4.2.100.१२० ॥
स नमस्यः प्रयत्नेन सम्पूज्यस्त्विष्टदेववत् ॥
तस्मै देयं प्रयत्नेन विश्वेश प्रीतये सदा ॥ २१ ॥
तस्मिंस्तुष्टे हि सन्तुष्टो विश्वेशो नात्र संशयः॥
यत्रैतत्पठ्यते खण्डं परानन्दसमाश्रयम् ॥ २२ ॥
न तत्र प्रभवेत्कश्चिदमङ्गलसमुद्भवः ॥
य इदं शृणुयाद्विद्वान्यश्चेदं श्रावयेत्सुधीः ॥ २३ ॥
यः पठेदपि पुण्यात्मा ते सर्वे रुद्रमूर्तयः ॥
य एतत्पुस्तकं रम्यं लेखयित्वा समर्पयेत् ॥ २४ ॥
अखिलानि पुराणानि तेन दत्तानि नान्यथा ॥
अत्राख्यानानि यावन्ति श्लोका यावन्त एव हि ॥ २५ ॥
तथा पदानि यावन्ति वर्णा यावन्त एव हि ॥
यावन्त्यपि च मात्राणि यावन्त्यः पदपङ्क्तयः ॥ २६ ॥
गुणे सूत्राणि यावन्ति यावन्तः पटतन्तवः ॥
चित्ररूपाणि यावन्ति रम्यपुस्तकसञ्चके ॥ २७ ॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते ॥
एतद्द्वादशकृत्वो यः शृणुयात्खण्डमुत्तमम् ॥ २८ ॥
ब्रह्महत्यापि तस्याशु नश्येच्छम्भोरनुग्रहात् ॥
अपुत्रः शृणुयाद्यस्तु सुस्नातः श्रद्धयान्वितः ॥ २९ ॥
तस्य पुत्रो भवत्येव शम्भोराज्ञा प्रभावतः ॥
किं बहूक्तेन सूतेह यस्य यस्य मनोरथः ॥ 4.2.100.१३० ॥
यो यस्तं तं स ससदा श्रुत्वैतत्प्राप्नुयात्कृती ॥
शृणुयाद्दूरदेशेपि यः काशीखण्डमुत्तमम् ॥ ३१ ॥
स काशीवासपुण्यस्य भाजनं स्याच्छिवाज्ञया ॥
एतच्छ्रवणतः पुंसां सर्वत्र विजयो भवेत् ॥
सौभाग्यं चापि सर्वत्र प्राप्नुयान्निर्मलाशयः ॥ ३२ ॥
यस्य विश्वेश्वरस्तुष्टस्तस्यैतच्छ्रवणे मतिः ॥
जायते पुण्ययुक्तस्य महानिर्मलचेतसः ॥ ३३ ॥
सर्वेषां मङ्गलानां च महामङ्गलमुत्तमम् ॥
गृहेपि लिखितं पूज्यं सर्वमङ्गलसिद्धये ॥१३४॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धेऽनुक्रमणिकानाम शततमोऽध्यायः ॥ १०० ॥ ॥७॥ ॥ श्रीकाशीखण्डोत्तरार्धं सम्पूर्णम् ॥
॥ समाप्तं चेदं चतुर्थं काशीखण्डम् ॥४॥