०९९ विश्वेश्वरलिङ्गमहिमाख्यः

॥ व्यास उवाच ॥
शृणु सूत यथा प्रोक्तं कुम्भजे शरजन्मना ॥
देवदेवस्य चरितं विश्वेशस्य परात्मनः ॥ १ ॥
अगस्त्य उवाच ॥
सेनानीः कथय त्वं मे ततो निर्वाणमण्डपात् ॥
निर्गत्य देवो देवेन्द्रैः सहितः किं चकार ह॥ २ ॥
स्कन्द उवाच ॥
मुक्तिमण्डपतः शम्भुर्ब्रह्मविष्णुपुरोगमः ॥
शृङ्गारमण्डपं प्राप्य यच्चकार वदामि तत् ॥ ३ ॥
प्राङ्मुखस्तूपविश्येशः सहास्माभिः सहेशया ॥
ब्रह्मणाधिष्ठितः सव्ये वामपार्श्वेथ शार्ङ्गिणा ॥ ४ ॥
वीज्यमानो महेन्द्रेण ऋषिभिः परितो वृतः ॥
गणैः पृष्ठप्रदेशस्थैर्जोषं तिष्ठद्भिरादरात् ॥ ५॥
उदायुधैः सेव्यमानश्चावसन्मानभूरिभिः ॥
ब्रह्मणे विष्णवे शम्भुः पाणिमुत्क्षिप्य दक्षिणम् ॥ ६ ॥
दर्शयामास देवेशो लिङ्गं पश्यत पश्यत ॥
इदमेव परं ज्योतिरिदमेव परात्परम् ॥ ॥ ७ ॥
इदमेव हि मे रूपं स्थावरं चाति सिद्धिदम् ॥
एते पाशुपता सिद्धा आबाल ब्रह्मचारिणः ॥ ८ ॥
जितेन्द्रियास्तपोनिष्ठाः पञ्चार्थज्ञाननिर्मलाः ॥
भस्मकूटशया दाताः सुशीला ऊर्ध्वरेतसः ॥९ ॥
लिङ्गार्चनरता नित्यमनन्येन्द्रियमानसाः ॥
सदैव वारुणाग्नेय स्नानद्वय सुनिर्मलाः ॥ 4.2.99.१० ॥
कन्दमूलफलाहाराः परतत्त्वार्पितेक्षणाः ॥
सत्यवन्तो जितक्रोधा निर्मोहा निष्परिग्रहाः ॥ ११ ॥
निरीहा निष्प्रपञ्चाश्च निरातङ्का निरामयाः ॥
निर्भगा निरुपायाश्च निःसङ्गा निर्मलाशयाः ॥ १२ ॥
निस्तीर्णोदग्रसंसारा निर्विकल्पा निरेनसः ॥
निर्द्वन्द्वा निश्चितार्थाश्च निरहङ्कारवृत्तयः ॥ १३ ॥
सदैव मे महाप्रीता मत्पुत्रा मत्स्वरूपिणः ॥
एते पूज्या नमस्याश्च मद्बुद्ध्यामत्परायणैः ॥ १४ ॥
अर्चितेष्वेष्वहं प्रीतो भविष्यामि न संशयः ॥
अस्मिन्वैश्वेश्वरे क्षेत्रे सम्भोज्याः शिवयोगिनः ॥ १५ ॥
कोटिभोज्यफलं सम्यगेकैक परिसङ्ख्यया ॥
अयं विश्वेश्वरः साक्षात्स्थावरात्मा जगत्प्रभुः ॥ १६ ॥
सर्वेषां सर्वसिद्धीनां कर्ता भक्तिजुषामिह ॥
अहं कदाचिद्दृश्यः स्यामदृश्यः स्यां कदाचन ॥ १७ ॥
आनन्दकानने चात्र स्वैरं तिष्ठामि देवताः ॥
अनुग्रहाय सर्वेषां भक्तानामिह सर्वदा ॥ १८ ॥
स्थास्यामि लिङ्गरूपेण चिन्तितार्थफलप्रदः ॥
स्वयम्भून्यस्वयम्भूनि यानि लिङ्गानि सर्वतः ॥
तानि सर्वाणि चायान्ति द्रष्टुं लिङ्गमिदं सदा ॥ १९ ॥
अहं सर्वेषु लिङ्गेषु तिष्ठा्म्येव न संशयः ॥
परं त्वियं परामूर्तिर्मम लिङ्गस्वरूपिणी ॥ 4.2.99.२० ॥
येन लिङ्गमिदं दृष्टं श्रद्धया शुद्धचक्षुषा ॥
साक्षात्कारेण तेनाहं दृष्ट एव दिवौकसः ॥ २१ ॥
श्रवणादस्य लिङ्गस्य पातकं जन्मसञ्चितम् ॥
क्षणात्क्षयति शृण्वन्तु देवा ऋषिगणैः सह ॥ २२ ॥
स्मरणादस्य लिङ्गस्य पापं जन्मद्वयार्जितम् ॥
अवश्यं नश्यति क्षिप्रं मम वाक्यान्न संशयः ॥२३ ॥
एतल्लिङ्गं समुद्दिश्य गृहान्निष्क्रमणक्षणात् ॥
विलीयते महापापमपि जन्मत्रयार्जितम् ॥२४॥
दर्शनादस्य लिङ्गस्य हयमेधशतोद्भवम् ॥
पुण्यं लभेत नियतं ममानुग्रहतोमराः ॥२५॥
स्वयम्भुवोस्य लिङ्गस्य मम विश्वेशितुः सुराः ॥
राजसूयसहस्रस्य फलं स्यात्स्पर्शमात्रतः॥२६॥
पुष्पमात्र प्रदानाच्च चुलुकोदकपूवर्कम् ॥
शतसौवर्णिकं पुण्यं लभते भक्तियोगतः ॥२७॥
पूजामात्रं विधायास्य लिङ्गराजस्य भक्तितः ॥
सहस्रहेमकमलपूजाफलमवाप्यते ॥ २८ ॥
विधाय महती पूजां पञ्चामृतपुरःसराम् ॥
अस्य लिङ्गस्य लभते पुरुषार्थचतुष्टयम् ॥ २९ ॥
वस्त्रपूतजलैर्लिङ्गं स्नापयित्वा ममामराः ॥
लक्षाश्वमेधजनितं पुण्यमाप्नोति सत्तमः ॥ 4.2.99.३० ॥
सुगन्धचन्दनरसैर्लिङ्गमालिप्य भक्तितः ॥
आलिप्यते सुरस्त्रीभिः सुगन्धैर्यक्षकर्दमैः ॥ ३१ ॥
सामोद धूपदानैश्च दिव्यगन्धाश्रयो भवेत् ॥
घृतदीपप्रबोधैश्च ज्योतीरूप विमानगः ॥ ३२ ॥
कर्पूरवर्तिदीपेन सकृद्दत्तेन भक्तितः॥
कर्पूरदेहगौरश्रीर्भवेद्भालविलोचनः ॥ ३३ ॥
दत्त्वा नैवेद्यमात्रं तु सिक्थेसिक्थे युगंयुगम् ॥
कैलासाद्रौ वसेद्धीमान्महाभोगसमन्वितः ॥ ३४ ॥
विश्वेशे परमान्नं यो दद्यात्साज्य सशर्करम् ॥
त्रैलोक्यं तर्पितं तेन सदेवपितृमानवम्॥ ३५ ॥
मुखवासं तु यो दद्याद्दर्पणं चारुचामरम् ॥
उल्लोचं सुखपर्यङ्कं तस्य पुण्यफलं महत् ॥ ३६ ॥
सङ्ख्या सागररत्नानां कथञ्चित्कर्तुमिष्यते ॥
मुखवासादिदानस्य कः सङ्ख्यामत्र कारयेत् ॥ ३७ ॥
पूजोपकरणद्रव्यं यो घण्टा गडुकादिकम् ॥
भक्त्या मे भवने दद्यात्स वसेदत्र मेन्तिके ॥ ३८ ॥
यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात् ॥
तस्याग्रतो दिवारात्रं भवेत्तौर्यत्रिकं महत् ॥ ३९ ॥
चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् ॥
यः सचित्रान्महाभोगान्भुङ्क्ते मत्पुरतः स्थितः ॥4.2.99.४०॥
सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः ॥
त्रैलोक्यवन्दितपदो जायते वसुधापतिः॥ ॥ ४१ ॥
यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते ॥
तस्य जन्मान्तरे मोक्षो भवत्येव न संशयः ॥ ४२ ॥
विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ ॥
विश्वेशशीलनं चित्ते यस्य तस्य जनिः कुतः ॥ ४३ ॥
लिङ्गं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते ॥
स मे गणेषु गण्येत महापुण्यबलाश्रितः ॥ ४४ ॥
नित्यं विश्वेश विश्वेश विश्वनाथेति यो जपेत् ॥
त्रिसन्ध्यं तं सुकृतिनं जपाम्यहमपि ध्रुवम् ॥ १५ ॥
ममापीदं महालिङ्गं सदा पूज्यतमं सुराः .॥
तस्मात्सर्वप्रयत्नेन पूज्यं देवर्षि मानवैः ॥ ४६ ॥
यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः ॥
कृतान्तदूतैस्ते दृष्टास्तैः स्मृता गर्भवेदना ॥ ४७ ॥
यैरिदं प्रणतं लिङ्गं प्रणतास्ते सुरासुरैः ॥
यस्यै केन प्रणामेन दिक्पालपदमल्पकम् ॥
दिक्पालपदतः पातः पातः शिवनतेर्नहि ॥ ४८ ॥
शृण्वन्तु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै ॥
न भूर्भुवः स्वर्गमहर्जनान्तर्विश्वेशतुल्यं क्वचिदस्ति लिङ्गम् ॥ ४९ ॥
न सत्यलोके न तपस्यहो सुरा वैकुण्ठकैलासरसातलेषु ॥
तीर्थं क्वचिद्वै मणिकर्णिकासमं लिङ्गं च विश्वेश्वरतुल्यमन्यतः ॥ 4.2.99.५० ॥
न विश्वनाथस्य समं हि लिङ्गं न तीर्थमन्यन्मणिकर्णिकातः ॥
तपोवनं कुत्रचिदस्ति नान्यच्छुभं ममानन्दवनेन तुल्यम् ॥ ५१ ॥
वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम् ॥
तत्रापि काचिन्मम सौख्यभूमिर्महापवित्रा मणिकर्णिकासौ ॥ ५२ ॥
स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम् ॥
सव्येपसव्ये च कराः क्रमेण शतत्रयी यापि शतद्वयी च ॥ ५३ ॥
हस्ताः शतं पञ्च सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम् ॥
सारस्त्रिलोक्याः परकोशभूमिर्यैः सेविता ते मम हृच्छया हि ॥ ५४ ॥
अस्मिन्ममानन्दवने यदेतल्लिङ्गं सुधाधाम सुधामधाम ॥
आसप्त पातालतलात्स्वयम्भु समुत्थितं भक्तकृपावशेन ॥५५॥
येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिङ्गं भजिष्यन्ति च हेतुवादैः ॥
तेषां हि दण्डः पर एष एव नगर्भवासाद्विरमन्ति ते ध्रुवम् ॥ ५६ ॥
यद्यद्धितं स्वस्य सदैव तत्तल्लिङ्गेत्र देयं मम भक्तिमद्भिः ॥
इहाप्यमुत्रापि न तस्य सङ्क्षयो यथेह पापस्य कृतस्य पापिभिः ॥ ५७ ॥
दूरस्थितैरप्यधिबुद्धिभिर्यैर्लिङ्गं समाराधि ममेदमत्र ॥
मयैव दत्तैः शुभवस्तुजातैर्निःश्रेयसः श्रीर्वसं(?)येत्सतस्तान् ॥ ५८ ॥
शृणुष्व विष्णो शृणु सृष्टिकर्तः शृण्वन्तु देवर्षिगणाः समस्ताः ॥
इदं हि लिङ्गं परसिद्धिदं सतां भेदो मनागत्र न मत्सकाशतः ॥ ५९ ॥
अस्मिन्हि लिङ्गेऽखिलसिद्धिसाधने समर्पितं यैः सुकृतार्जितं वसु ॥
तेभ्योतिमात्राखिलसौख्यसाधनं ददामि निर्वाणपदं सुनिर्भयम् ॥ 4.2.99.६० ॥
उत्क्षिप्य बाहुं त्वसकृद्ब्रवीमि त्रयीमयेऽस्मिंस्त्रयमेव सारम् ॥
विश्वेश लिङ्गं मणिकर्णिकाम्बु काशीपुरी सत्यमिदं त्रिसत्यम् ॥ ६१ ॥
उत्थाय देवोथ स शक्तिरीशस्तस्मिन्हि लिङ्गे कृतचारुपूजः ॥
ययौ लयं ते च सुरा जयेति जयेति चोक्त्वा नुनुवुस्तमीशम् ॥ ६२ ॥
स्कन्द उवाच ॥ ॥
क्षेत्रस्य मैत्रावरुणे विमुक्तस्य महामते ॥
प्रभावस्यैकदेशोयं कथितः कल्मषापहः ॥ ६३ ॥
तवाग्रे तु यथाबुद्धि काशीविश्लेषतापि नः ॥
अचिरेणैव कालेन काशीं प्राप्स्यस्यनुत्तमाम् ॥ ६४ ॥
अस्ताचलस्य शिखरं प्राप्तवानेष भानुमान् ॥
तवापि हि ममाप्येष मौनस्य समयोऽभवत् ॥ ६५ ॥
॥ व्यास उवाच ॥ ॥
श्रुत्वेति स मुनिः सूत सन्ध्योपास्त्यै विनिर्गतः॥
प्रणम्यौ मेयमसकृल्लोपामुद्रा समन्वितः ॥ ६६ ॥
रहस्यं परिविज्ञाय क्षेत्रस्य शशिमौलिनः ॥
अगस्त्यो निश्चितमनाः शिवध्यानपरोभवत् ॥ ६७ ॥
आनन्दकाननस्येह महिमानं महत्तरम् ॥
कोत्र वर्णयितुं शक्तः सूत वर्षशतैरपि ॥ ६८ ॥
यथा देव्यै समाख्यायि शिवेन परमात्मना ॥
तथा स्कन्देन कथितं माहात्म्यं कुम्भसम्भवे ॥ ६९॥
तवाग्रे च समाख्यातं शुकादीनां च सत्तम ॥
इदानीं प्रष्टुकामोसि किं तत्पृच्छ वदामि ते॥4.2.99.७०॥
श्रुत्वाध्यायमिमं पुण्यं सर्वकल्मषनाशनम् ॥
समस्तचिन्तितफलप्रदं मर्त्यो भवेत्कृती ॥७१॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे विश्वेश्वरलिङ्गमहिमाख्यो नाम नवनवतितमोऽध्यायः ॥ ९९ ॥