॥ व्यास उवाच॥ ॥
शृणु सूत महाभाग यथा स्कन्देन भाषितः॥
महामहोत्सवः शम्भोः पृच्छते कुम्भसम्भवे ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
निशामय महाप्राज्ञ शम्भु प्रावेशिकीं कथाम् ॥
त्रैलोक्यानन्दजननीं महापातकतङ्किनीम् ॥ २ ॥
मन्दरादागतः शम्भुश्चैत्रे दमनपर्वणि ॥
प्राप्याप्यानन्दगहनमितश्चेतश्चचार ह ॥ ३ ॥
मोक्षलक्ष्मीविलासेथ प्रासादे सिद्धिमागते ॥
देवो विरजसः पीठादन्तर्गेहं विवेश ह ॥ ४ ॥
ऊर्जशुक्लप्रतिपदि बुधराधासमायुजि ॥
चन्द्रे सप्तमराशिस्थे शेषेषूच्चग्रहेषु च ॥ ५ ॥
वाद्यमानेषु वाद्येषु प्रसन्नासु हरित्सु च ॥
ब्राह्मणानां श्रुतिरव न्यक्कृतान्यरवान्तरे ॥ ६ ॥
प्रतिशब्दित भूर्लोक भुवर्लोकान्तराध्वनि ॥
सर्वं प्रमुदितं चासीच्छम्भोः प्रावेशिकोत्सवे ॥ ७ ॥
जगुर्गन्धर्वनिकरा ननृतुश्चाप्सरोगणाः ॥ २८ ॥
चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः ॥८॥
ववुर्गन्धवहा वाता ववृषुः कुसुमैर्घनाः ॥
सर्वे मङ्गलनेपथ्याः सर्वे मङ्गलभाषिणः ॥९॥
स्थावरा जङ्गमाः सर्वे जाता आनन्दमेदुराः॥
सुरासुरेषु सर्वेषु गन्धर्वेषूरगेषु च ॥ 4.2.98.१० ॥
विद्याधरेषु साध्येषु किन्नरेषु नरेषु च ॥
स्त्रीपुञ्जातेषु सर्वेषु रेजुश्चत्वार एव च ॥ ११ ॥
निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे ॥
धूपधूमभरैर्व्योम यद्रक्तं तु तदा मुने ॥ १२ ॥
नाद्यापि नीलिमानन्तं परित्यजति कर्हिचित् ॥
नीराजनाय ये दीपास्तदा सर्वे प्रबोधिताः ॥ १३ ॥
तेषां ज्योतींषि खेद्यापि राजन्ते तारकाच्छलात् ॥
प्रतिसौधं पताकाश्च नानाकारा विचित्रिताः ॥ १४ ॥
रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम् ॥
क्वचिद्गायन्ति गीतज्ञाः क्वचिन्नृत्यन्ति नर्तकाः ॥ १५ ॥
चतुर्विधानि वाद्यानि वाद्यन्ते च क्वचित्क्वचित् ॥
प्रत्यध्वं चन्दनरसच्छटा पिच्छिलभूमयः ॥ १६ ॥
हरित श्वेत माञ्जिष्ठ नील पीत बहुप्रभाः ॥
प्रत्यङ्गणं शुभाकारा रङ्गमालाश्चकाशिरे ॥ १७ ॥
रत्नकुट्टिमभूभागा गोपुराग्रेषु रेजिरे ॥
सुधोज्ज्वला हर्म्यमालाः सौधनामप्रपेदिरे ॥१८॥
अचेतनान्यपि तदा चेतनानीव सम्बभुः ॥
यानि कानीह कीर्त्यन्ते मङ्गलानि घटोद्भव ॥ १९॥
तेषामेव हि सर्वेषां तत्तु जन्मदिवाभवत् ॥
आगत्य देवदेवोथ मुक्तिमण्डपमाविशत् ॥ 4.2.98.२० ॥
अथाभिषिक्तश्चतुराननेन महर्षिवृन्दैः सह देवदेवः ॥
शुभासनस्थः सहितो भवान्या कुमारवृन्दैः परितो वृतश्च॥ ॥ २१ ॥
रत्नैरसङ्ख्यैर्बहुभिर्दुकूलैर्माल्यैर्विचित्रैर्लसदिष्टगन्धैः ॥
अपूपुजन्देवगणा महेशं तदा मुदाते च महोरग्रेन्द्राः ॥ २२ ॥
रत्नाकरैश्चापि गिरीन्द्रव्यैर्यथा स्वमन्यैरपि पुण्यधीभिः ॥
सम्पूजितः कुम्भज तत्र शम्भुर्नीराजितो मातृगणैरथेशः ॥२३॥
सन्तोष्य सर्वान्प्रथमं मुनीन्द्रान्स्वैस्वैर्हृदिस्थैश्च चिराभिलाषैः ॥
ब्रह्माणमाभाष्य शिवोथ विष्णुं जगाद सर्वामरवृन्दवन्द्यः ॥ २४ ॥
इतो निषीदेति समानपूर्वं त्वं मे समस्तप्रभुतैकहेतुः ॥
दूरेपि तिष्ठन्निकटस्त्वमेव त्वत्तो न कश्चिन्मम कार्यकर्ता ॥ २५ ॥
त्वया दिवोदास नरेन्द्रवर्यः सदूपदेशैश्च तथोपदिष्टः ॥
यथा स सिद्धिं परमामवाप समीहितं मे निखिलं च सिद्धम् ॥ २६ ॥
विष्णो वरं ब्रूहि य ईप्सितस्ते नादेयमत्रास्ति किमप्यहो ते॥
इदं मयाऽऽनन्दवनं यदाप्तं हेतुस्तु तत्रत्वमसौ गणेशः ॥ २७ ॥
न मे प्रियं किञ्चन विष्टपत्रये तथा यथेयं परसौख्यभूमिः ॥
वाराणसी ब्रह्मरसायनस्य खनिर्जनिर्यत्र न दीर्घशायिनाम् ॥ २८ ॥
श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम् ॥
यदि प्रसन्नोसि पिनाकपाणे तदा पदाद्दूरमहं न ते स्याम् ॥ २९ ॥
श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः ॥
सदा मुरारे मम सन्निधौ त्वं तिष्ठस्व निर्वाणरमाश्रयेत्र ॥ 4.2.98.३० ॥
आदावनाराध्य भवन्तमत्र यो मां भजिष्यत्यपि भक्तियुक्तः ॥
समीहितं तस्य न सेत्स्यति ध्रुवं परात्परान्मेम्बुज चक्रपाणे ॥३१ ॥
सर्वत्र सौख्यं मम मुक्तिमण्डपे सन्तिष्ठमानस्य भवेदिहाच्युत ॥
न तत्तु कैलासगिरौ सुनिर्मले न भक्तचेतस्यपि निश्चलश्रियि ॥ ३२ ॥
निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठन्ति ये दक्षिणमण्डपेत्र मे ॥
अनन्यभावा अपि गाढमानसा न ते पुनर्गर्भदशामुपासते ॥ ३३ ॥
संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे ॥
क्षणं विशन्तीह निरीहमानसा निरेनसस्ते मम पार्षदा हि ॥ ३४ ॥
स्मरन्ति ये मामपवर्गमण्डपे किञ्चिद्यथाशक्ति ददत्यपि स्वम् ॥
शृण्वन्ति पुण्याश्च कथाः क्षणं स्थिरास्ते कोटिगोदानफलं भजन्ति ॥ ३५ ॥
उपेन्द्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः ॥
स्नात्वेह ये वै मणिकर्णिका ह्रदे समासते मुक्तिजनाश्रयेक्षणम् ॥ ३६ ॥
तीर्थानि सन्तीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः ॥
कतीहनो सन्ति शुभाश्च मण्डपाः परम्परोमुक्तिरमाश्रयोयम् ॥ ३७ ॥
कैवल्यमण्डपस्यास्य भविष्ये द्वापरे हरे ॥
लोके ख्यातिर्भवित्रीयमेष कुक्कुटमण्डपः ॥ ३८ ॥
॥ हरिरुवाच ॥ ॥
भालनेत्रसमाख्याहि कथं निर्वाणमण्डपः ॥
तथा ख्यातिमसौ गन्ता यथा देवेन भाषितम् ॥ ३९ ॥
॥ देवदेव उवाच ॥ ॥
महानन्दो द्विजो नाम भविष्योत्र चतुर्भुज ॥
अग्रवेदीसमाचारस्त्यक्ततीर्थप्रतिग्रहः ॥ 4.2.98.४० ॥
अदाम्भिकोऽक्रूरमनाः सदैवातिथिवल्लभः ॥
अथ यौवनमासाद्य पितर्युपरते स हि ॥ ४१ ॥
विषमेषु शरैस्तीव्रैः कारितस्त्वपदे पदम् ॥
जहार कस्यचिद्भार्या मैत्रीं कृत्वा तु तेन वै ॥ ४२ ॥
तया च प्रेरितोऽपेयं पपौ चापि विमोहितः ॥
अभक्ष्यभक्षणरुचिरभून्मदनमोहितः ॥४३॥
वैष्णवान्धनिनो दृष्ट्वा क्षणं वैष्णववेषभृत् ॥
शैवान्निन्दति मूढात्मा नरकत्राणकारणम् ॥४४॥
शिवभक्तान्समालोक्य किञ्चिच्च परिदित्सुकान् ॥
गर्हयेद्वैष्णवान्सर्वाञ्शैवलिङ्गोपजीवकः ॥ ४५ ॥
इति पाखण्डधर्मज्ञः सन्ध्यास्नानपराङ्मुखः ॥
विशालतिलकः स्रग्वी शुद्धधौताम्बरोज्वलः ॥ ४६. ॥ २७ ॥
शिखी चोपग्रहकरः सर्वेभ्योऽसत्प्रतिग्रही॥
तस्यापत्यद्वयं जातमुन्मत्तपथवर्तिनः ॥ ४७ ॥
एवं तस्य प्रवृत्तस्य कश्चित्पर्वतदेशतः ॥
समागमिष्यति धनी तीर्थयात्रार्थसिद्धये ॥ ४८ ॥
स्नात्वा स चक्रसरसि कथयिष्यति चेति वै ॥
अहमस्ति धनोदित्सुर्जात्या चाण्डालसत्तमः ॥४९॥
अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् ॥
इति तस्य वचः श्रुत्वा कैश्चिच्चाङ्गुलिसञ्ज्ञया ॥4.2.98.५०॥
उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया ॥
एष प्रतिग्रहं त्वत्तो ग्रहीष्यति न चेतरः ॥५१॥
इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः ॥
दण्डवत्प्रणिपत्याथ तं बभाषे तदान्त्यजः ॥५२॥
मामुद्धर महाविप्र तीर्थं मे सफलीकुरु ॥
किञ्चिद्वस्त्वस्ति मे तत्त्वं गृहाणानुग्रहं कुरु ॥ ५३ ॥
अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च ॥
कियद्धनं तवास्तीह पप्रच्छ करसञ्ज्ञया ॥ ५४ ॥
तस्य सञ्ज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत् ॥
सन्तृप्तिर्यावता ते स्यात्तावद्दास्यामि नान्यथा ॥ ५५ ॥
इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह ॥
सानन्दः स महानन्दो निःस्पृहोस्मि प्रतिग्रहे ॥ ५६ ॥
परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम् ॥
किञ्च मे वचनं त्वं चेत्करिष्यस्युत्तमोत्तम ॥५७॥
यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित् ॥
न स्तोकमपि दातव्यं तदाऽऽदास्यामि नान्यथा ॥५८॥
॥ चाण्डाल उवाच ॥ ॥
यावदस्ति मयानीतं विश्वेशप्रीतये वसु॥
तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम॥५९॥
ये वसन्तीह विश्वेश राजधान्यां द्विजोत्तम ॥
क्षुद्राक्षुद्रा जन्तुमात्रा विश्वेशां शास्त एव हि॥4.2.98.६०॥
परोद्धरणशीला ये ये परेच्छाप्रपूरकाः ॥
परोपकृतिशीला ये विश्वेशां शास्त एव हि ॥ ६१ ॥
इति तद्वचनं श्रुत्वा प्रहृष्टेन्द्रियमानसः ॥
उवाच पार्वतीयं तं सोऽग्रजन्मान्त्यजं तदा ॥ ६२ ॥
आयाहि दर्भानादेहि कुरूत्सर्गं त्वरान्वितः ॥
तथेति स चकाराशु पार्वतीयो महामनाः ॥ ३३ ॥
विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः ॥
स च द्विजो द्विजैरन्यैर्धिक्कृतोपि वसन्निह ॥ ६४ ॥
बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते ॥
चाण्डालब्राह्मणश्चैष चाण्डालात्त धनस्त्वसौ ॥ ६५ ॥
असावेव हि चाण्डालः सर्वलोकबहिष्कृतः ॥
इत्थं तमनुधावन्ति थूत्कुर्वन्तः परितो हरे ॥ ६६ ॥
स च तद्भयतो गेहात्काकभीतदिवान्धवत् ॥
न निःसरेत्क्वचिदपि लज्जाकृति नतास्यकः॥६७॥
स एकदा सम्प्रधार्य गृहिण्या लोकदूषितः ॥
जगाम कीकटान्देशांस्त्यक्त्वा वाराणसीं पुरीम् ॥६८॥
मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकाञ्चनः ॥
अपि कार्पटिकान्तस्थः स रुद्धो मार्गरोधिभिः॥६९॥
नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम्॥
उल्लुण्ठ्य धनमादाय समालोच्य परस्परम्॥4.2.98.७०॥
प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति ॥
असौ धनी प्रयत्नेन वध्यः सपरिचारकः ॥ ७१ ॥
सम्प्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पान्थिक ॥
त्वां वयं घातयिष्यामो निश्चितं सपरिच्छदम् ॥ ७२ ॥
निशम्येति मनस्येव कथयामास स द्विजः ॥
अहो प्रतिगृहीतं मे यदर्थं वसु भूरिशः ॥ ७३ ॥
कुटुम्बमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः ॥
जीवितं चापि मे नष्टं नष्टा काशीपुरीस्थितिः ॥ ७४ ॥
युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया ॥
न काश्यां मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात् ॥ ७५ ॥
प्रान्ते कुटुम्बस्मरणात्तथाकाशीस्मृतेरपि ॥
चोरैर्हतोपि स तदा कीकटे कुक्कुटोऽभवत् ॥७६॥
सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः ॥
प्रान्ते काशीस्मरणतो जाता जातिस्मृतिः परा ॥ ७७ ॥
इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः ॥
तस्मिन्नेवाध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः ॥७८॥
वाराणस्याः कथां प्रोच्चैः कुर्वन्तोऽन्योन्यमेव हि ॥
काशीकथां समाकर्ण्य तदा ते चरणायुधाः ॥ ७९ ॥
जातिस्मृतिप्रभावेण तत्सङ्गेन तु निर्गताः ॥
तैश्च कार्पटिकश्रेष्ठेः पथि दृष्ट्वा कृपालुभिः ॥ 4.2.98.८० ॥
तन्दुलादिपरिक्षेपैः प्रापिताः क्षेत्रमुत्तमम् ॥
ते तु क्षेत्रं समासाद्य चत्वारश्चरणायुधाः ॥ ८१ ॥
चरिष्यन्तोऽत्र परितो मुक्तिमण्डपमुत्तमम् ॥
जिताहारान्सनियमान्कामक्रोधपराङ्मुखान् ॥ ८२ ॥
प्रहासान्मत्कथालापाल्ँलाभमोहविवर्जितान् ॥
स्वर्धुनीस्नानसङ्क्लिन्न सुनिर्मलशिरोरुहान् ॥ ९३ ॥
मन्नामोच्चारणपरान्मत्कथार्पितसुश्रुतीन् ॥
मद्दत्तचित्तसद्वृत्तीन्दृष्ट्वा क्षेत्रनिवासिनः ॥८४ ॥
मानयामासुरथ तान्कुक्कुटान्साधुवर्त्मनः ॥
प्राक्तनां वासनायोगात्सम्प्रधार्य परस्परम् ॥
क्रमेणाहारमाकुञ्च्य प्राणांस्त्यक्ष्यन्ति चात्र वै ॥ ८५ ॥
पश्यतां सर्वलोकानां विष्णो ते मदनुग्रहात् ॥
विमानमधिरुह्याशु कैलासं प्राप्य मत्पदम् ॥८६॥
निर्विश्य सुचिरं कालं दिव्यान्भोगाननुत्तमान् ॥
ततोऽत्र ज्ञानिनो भूत्वा मुक्तिं प्राप्स्यन्ति शाश्वतीम् ॥ ८७ ॥
ततो लोकास्तददारभ्य कथयिष्यन्ति सर्वतः ॥
मुक्तिमण्डपनामैतदेष कुक्कुटमण्डपः ॥ ८८ ॥
चरित्रमपि वै तेषां ये स्मरिष्यन्ति मानवाः ॥
मुक्तिमण्डपमासाद्य श्रेयः प्राप्स्यन्ति तेपि हि ॥ ८९ ॥
इति यावत्कथां शम्भुर्भविष्यामग्रतो हरेः ॥
अकरोत्तुमुलो नादो घण्टानां तावदुद्गतः ॥ 4.2.98.९० ॥
अथनन्दिनमाहूय देवदेव उमाधवः ॥
प्रोवाच नन्दिन्विज्ञायागत्य ब्रूहि कुतो रवः ॥९१॥
अथ नन्दी समागत्य प्रोवाच वृषभध्वजम्॥
नमस्कृत्य प्रहृष्टास्यः प्रबद्धकरसम्पुटः ॥ ९२ ॥
॥ नन्द्युवाच ॥ ॥
देवदेव त्रिनयन किमपूर्वं ब्रवीमि ते ॥
मोक्षलक्ष्मीविलासोऽत्र कैश्चित्कैश्चित्समर्च्यते॥९३॥
अथ स्मित्वाब्रवीच्छम्भुः सिद्धं नस्तु समीहितम् ॥
उत्थाय देवदेवेशः सह देव्या सुमङ्गलः॥९४॥
ब्रह्मणा हरिणा सार्धं ततोऽगाद्रङ्गमण्डपम् ॥
॥ स्कन्द उवाच ॥ ॥
श्रुत्वाध्यायमिमं पुण्यं परमानन्दकारणम् ॥
नरः परां मुदं प्राप्य कैलासं प्राप्स्यति ध्रुवम् ॥ ९५ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे मुक्तिमण्डपगमनं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥