॥ अगस्त्य उवाच ॥ ॥
एतद्भविष्यं श्रुत्वाहं व्यासस्य शिवनन्दन ॥
आश्चर्यभाजनं जातस्तीर्थानि कथयाधुना ॥ १ ॥
आनन्दकानने यानि यत्र सन्ति षडानन ॥
तानि लिङ्गस्वरूपाणि समाचक्ष्व ममाग्रतः ॥ २ ॥
॥ स्कन्द उवाच ॥ ॥
अयमेव हि वै प्रश्नो देव्यै देवेन भोस्तदा ॥
यादृशः कथितो वच्मि तादृशं शृणु कुम्भज ॥ ३ ॥
॥ देव्युवाच ॥ ॥
यानि यानि हि तीर्थानि यत्रयत्र महेश्वर ॥
तानि तानीह मे काश्यां तत्रतत्र वद प्रभो ॥ ४ ॥
॥ देवदेव उवाच ॥ ॥
शृणु देवि विशालाक्षि तीर्थं लिङ्गमुदाहृतम् ॥
जलाशयेपि तीर्थाख्या जाता मूर्ति परिग्रहात् ॥ ॥ ५ ॥
मूर्तयो ब्रह्मविष्ण्वर्कशिवविघ्नेश्वरादिकाः ॥
लिङ्गं शैवमिति ख्यातं यत्रैतत्तीर्थमेव तत् ॥६॥
वाराणस्यां महादेवः प्रथमं तीर्थमुच्यते ॥
तदुत्तरे महाकूपः सारस्वतपदप्रदः ॥ ७ ॥
क्षेत्रपूर्वोत्तरेभागे तद्दृष्टं पशुपाशहृत् ॥
तत्पश्चाद्विग्रहवती पूज्या वाराणसी नरैः ॥ ८ ॥
सा पूजिता प्रयत्नेन सुखवस्तिप्रदा सदा ॥
महादेवस्य पूर्वेण गोप्रेक्षं लिङ्गमुत्तमम् ॥ ९ ॥
तद्दर्शनाद्भवेत्सम्यग्गोदानजनितं फलम् ॥
गोलोकात्प्रेषिता गावः पूर्वं यच्छम्भुना स्वयम् ॥ 4.2.97.१० ॥
वाराणसीं समायाता गोप्रेक्षं तत्ततः स्नृतम् ॥
गोप्रेक्षाद्दक्षिणेभागे दधीचीश्वरसञ्ज्ञितम् ॥११॥
तद्दर्शनाद्भवेत्पुंसां फलं यज्ञसमुद्भवम् ॥
अत्रीश्वरं तु तत्प्राच्यां मधुकैटभपूजितम् ॥ १२ ॥
लिङ्गं दृष्ट्वा प्रयत्नेन वैष्णवं पदमृच्छति ॥
गोप्रेक्षात्पूर्वदिग्भागे लिङ्गं वै विज्वरं स्मृतम् ॥१३॥
तस्य सम्पूजनान्मर्त्यो विज्वरो जायते क्षणात् ॥
प्राच्यां वेदेश्वरस्तस्य चतुर्वेदफलप्रदः ॥ १४ ॥
वेदेश्वरादुदीच्यां तु क्षेत्रज्ञश्चादिकेशवः ॥
दृष्टं त्रिभुवनं सर्वं तस्य सन्दर्शनाद्ध्रुवम् ॥ १५ ॥
सङ्गमेश्वरमालोक्य तत्प्राच्याम जायतेनघः ॥
चतुर्मुखेन विधिना तत्पूर्वेण चतुर्मुखम् ॥ १६ ॥
प्रयागसञ्ज्ञकम लिङ्गमर्चितम ब्रह्मलोकदम् ॥
तत्र शान्तिकरी गौरी पूजिता शान्तिकृद्भवेत् ॥ १७ ॥
वरणायास्तटे पूर्वे पूज्यं कुन्तीश्वरं नृभिः ॥
तत्पूजनात्प्रजायन्ते पुत्रा निजकुलोज्ज्वलाः ॥ १८॥
कुन्तीश्वरादुत्तरतस्तीर्थं वै कापिलो ह्रदः ॥
तत्र वै स्नानमात्रेण वृषभध्वजपूजनात् ॥ १९ ।
राजसूयस्य यज्ञस्य फलं त्वविकलं भवेत् ॥
रोरवादिषु ये केचित्पितरः कोटिसम्मिताः ॥4.2.97.२०॥
तत्र श्राद्धे कृते पुत्रैः पितृलोकं प्रयान्ति ते ॥
आनुसूयेश्वरं लिङ्गं गोप्रेक्षादुत्तरे मुने॥ २१ ॥
तद्दर्शनाद्भवेत्स्त्रीणां पातिव्रत्य फलं स्फुटम् ॥
तल्लिङ्गपूर्वदिग्भागे पूज्यः सिद्धिविनायकः ॥२२॥
यां सिद्धिं यः समीहेत स तामाप्नोति तन्नतेः ॥
हिरण्यकशिपोर्लिङ्गं गणेशात्पश्चिमे ततः ॥२३॥
हिरण्यकूपस्तत्रास्ति हिरण्याश्वसमृद्धिकृत् ॥ २४ ॥
मुण्डासुरेश्वरं लिङ्गं तत्प्रतीच्यां च सिद्धिदम्॥
अभीष्टदं तु नैर्ऋत्यां गोप्रेक्षाद्वृषभेश्वरम् ॥ २५ ॥
मुने स्कन्देश्वरं लिङ्गं महादेवस्य पश्चिमे ॥
तल्लिङ्गपूजनान्नृणां भवेन्मम सलोकता ॥ २६ ॥
तत्पार्श्वतो हि शाखेशो विशाखेशश्च तत्र वै ॥
नैगमेयेश्वरस्तत्र येन्ये नन्द्यादयो गणाः ॥ २७ ॥
तेषामपि हि लिङ्गानि तत्र सन्ति सहस्रशः ॥
तद्दर्शनाद्भवेत्पुंसां तत्तद्गणसलोकता ॥ २८॥
नन्दीश्वरात्प्रतीच्यां च शिलादेशः कुधीहरः ॥
महाबलप्रदस्तत्र हिरण्याक्षेश्वरः शुभः ॥ २९ ॥
तद्दक्षिणेट्टहासाख्यं लिङ्गं सर्वसुखप्रदम् ॥
प्रसन्नवदनेशाख्यं लिङ्गं तस्योत्तरे शुभम् ॥4.2.97.३० ॥
प्रसन्नवदनस्तिष्ठेद्भक्तस्तद्दर्शनाच्छुभात् ॥
तदुत्तरे प्रसन्नोदं कुण्डं नैर्मल्यदं नृणाम् ॥ ३१ ॥
प्रतीच्यामट्टहासस्य मित्रावरुणनामनी ॥
लिङ्गे तल्लोकदे पूज्ये महापातकहारिणी ॥ ३२ ॥
नैर्ऋत्यां चाट्टहासस्य वृद्धवासिष्ठसञ्ज्ञकम् ॥
लिङ्गं तत्पूजनात्पुंसां ज्ञानमुत्पद्यते महत् ॥ ३३ ॥
वसिष्ठेश समीपस्थः कृष्णेशो विष्णुलोकदः ॥
तद्याम्यां याज्ञवल्क्येशो ब्रह्मतेजोविवधर्नः ॥ ३४ ॥
प्रह्लादेश्वरमभ्यर्च्य तत्पश्चाद्भक्तिवर्धनम् ॥
स्वयंलीनः शिवो यत्र भक्तानुग्रहकाम्यया ॥ ३५ ॥
अतः स्वलीनं तत्पूर्वे लिङ्गं पूज्यं प्रयत्नतः ॥
सदैव ज्ञाननिष्ठानां परमानन्दमिच्छताम् ॥
या गतिर्विहिता तेषां स्वलीने सा तनुत्यजाम् ॥ ३६ ॥
वैरोचनेश्वरं लिङ्गं स्वलीनात्पुरतः स्थितम्॥
तदुत्तरे बलीशं च महाबलविवर्धनम् ॥ ३७ ॥
तत्रैव लिङ्गं बाणेशं पूजितं सर्वकामदम् ॥
चन्द्रेश्वरस्य पूर्वेण लिङ्गं विद्येश्वराभिधम् ॥ ३८ ॥
सर्वाविद्याः प्रसन्नाः स्युस्तस्य लिङ्गस्य सेवनात् ॥
तद्दक्षिणे तु वीरेशो महासिद्धि विधायकः ॥३९॥
तत्रैव विकटा देवी सर्वदुःखौघमोचनी ॥
पञ्चमुद्रं महापीठं तज्ज्ञेयं सर्वसिद्धिदम् ॥ 4.2.97.४० ॥
तत्र जप्ता महामन्त्राः क्षिप्रं सिध्यन्ति नान्यथा ॥
तत्पीठे वायुकोणे तु सम्पूज्यः सगरेश्वरः ॥४१ ॥
तदर्चनादश्वमेधफलं त्वविकलं भवेत् ॥
तदीशाने च वालीशस्तिर्यग्योनि निवारकः ॥ ४२ ॥
महापापौघविध्वंसी सुग्रीवेशस्तदुत्तरे ॥
हनूमदीश्वरस्तत्र ब्रह्मचर्यफलप्रदः ॥ ४३ ॥
महाबुद्धिप्रदस्तत्र पूज्यो जाम्बवतीश्वरः ॥
आश्विने येश्वरौ पूज्यौ गङ्गायाः पश्चिमे तटे ॥ ४४ ॥
तदुत्तरे भद्रह्रदो गवां क्षीरेण पूरितः ॥
कपिलानां सहस्रेण सम्यग्दत्तने यत्फलम् ॥ ४५ ॥
तत्फलं लभते मर्त्यः स्नातो भद्रह्रदे ध्रुवम् ॥
पूर्वाभाद्रपदा युक्ता पौर्णमासी यदा भवेत् ॥ ४६ ॥
तदा पुण्यतमः कालो वाजिमेधफलप्रदः ॥
ह्रद पश्चिम तीरे तु भद्रेश्वर विलोकनात् ॥ ४७ ॥
गोलोकं प्राप्नुयात्तस्मात्पुण्यान्नैवात्र संशयः ॥
भद्रेश्वराद्यातुधान्यामुपशान्त शिवो मुने ॥ ४८ ॥
तस्य लिङ्गस्य संस्पर्शात्परा शान्तिं समृच्छति ॥
उपशान्त शिवं लिङ्गं दृष्ट्वा जन्मशतार्जितम् ॥४९॥
त्यजेदश्रेयसो राशिं श्रेयोराशिं च विन्दति ॥
तदुत्तरे च चक्रेशो योनिचक्र निवारकः ॥ 4.2.97.५० ॥
तदुत्तरे चक्रह्रदो महापुण्यविवर्धनः ॥
स्नात्वा चक्रह्रदे मर्त्यश्चक्रेशं परिपूज्य च ॥ ५१ ॥
शिवलोकमवाप्नोति भावितेनान्तरात्मना ॥
तन्नैर्ऋते च शूलेशो द्रष्टव्यश्च प्रयत्नतः ॥ ५२ ॥
शूलं तत्र पुरा न्यस्तं स्नानार्थं वरवर्णिनि ॥
ह्रदस्तत्र समुत्पन्नः शूलेशस्याग्रतो महान् ॥ ५३ ॥
स्नानं कृत्वा ह्रदे तत्र दृष्ट्वा शूलेश्वरं विभुम् ॥
रुद्रलोकं नरा यान्ति त्यक्त्वा संसारगह्वरम् ॥५४॥
तत्पूर्वतो नारदेन तपस्तप्तं महत्तरम्॥
लिङ्गं च स्थापितं श्रेष्ठं कुण्डं चापि शुभं कृतम् ॥ ५५ ॥
तत्र कुण्डे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम् ॥
संसाराब्धिमहाघोरं सन्तरेन्नात्र सञ्जयः ॥ ५६ ॥
नारदेश्वर पूर्वेण दृष्ट्वाऽवभ्रातकेश्वरम् ॥
निर्मलां गतिमाप्नोति पापौघं च विमुञ्चति ॥ ५७ ॥
तदग्रे ताम्रकुण्डं च तत्र स्नातो न गर्भभाक् ॥
विघ्नहर्ता गणाध्यक्षस्तद्वायव्ये सुविघ्नहृत् ॥ ५८ ॥
तत्र विघ्नहरं कुण्डं तत्र स्नातो न विघ्नभाक् ॥
अनारकेश्वरं लिङ्गं तदुदग्दिशि चोत्तमम् ॥ ५९ ॥
कुण्डं चानारकाख्यं वै तत्र स्नातो न नारकी ॥
वरणायास्तटे रम्ये वरणेशस्तदुत्तरे ॥ 4.2.97.६० ॥
तत्र पाशुपतः सिद्धस्त्वक्षपादो महामुने ॥
अनेनैव शरीरेण शाश्वतीं सिद्धिमागतः ॥ ६१ ॥
तत्पश्चिमे च शैलेशः परनिर्वाणकामदः ॥
कोटीश्वरं तु तद्याम्यां लिङ्गं शाश्वतसिद्धिदम् ॥ ६२ ॥
कोटितीर्थे ह्रदे स्नात्वा कोटीशं परिपूज्य च ॥
गवां कोटिप्रदानस्य फलमाप्नोति मानवः ॥ ६३ ॥
महाश्मशानस्तम्भोस्ति कोटीशाद्वह्निदिक्स्थितः ॥
तस्मिन्स्तम्भे महारुद्रस्तिष्ठते चोमया सह ॥ ६४ ॥
तं स्तम्भं समलङ्कृत्य नरस्तत्पदमाप्नुयात् ॥
तत्रैव तीर्थं परमं कपालेश समीपतः ॥६५॥
कपालमोचनं नाम तत्र स्नातोऽश्वमेधभाक् ॥
ऋणमोचनतीर्थं तु तदुदग्दिशि शोभनम् ॥ ६६ ॥
तत्र तीर्थे नरः स्नात्वा मुक्तो भवति चर्णतः ॥
तत्रैवाङ्गारकं तीर्थं कुण्डं चाङ्गारनिर्मलम् ॥ ६७ ॥
स्नात्वाङ्गारक तीर्थे तु भवेद्भूयो न गर्भभाक् ॥
अङ्गारवारयुक्तायां चतुर्थ्यां स्नाति यो नरः ॥
व्याधिभिर्नाभि भूयेत न च दुःखी कदाचन ॥ ६८ ॥
विश्वकर्मेश्वरं लिङ्गं ज्ञानदं च तदुत्तरे ॥
महामुण्डेश्वरं लिङ्गं तस्य दक्षिणतः शुभम्॥ ६९ ॥
कूपः शुभोद नामापि स्नातव्यं तत्र निश्चितम् ॥
तत्र मुण्डमयी माला मया क्षिप्तातिशोभना ॥ 4.2.97.७० ॥
महामुण्डा ततो देवी समुत्पन्नाघहारिणी ॥
खट्वाङ्गं च धृतं तत्र खट्वाङ्गेशस्ततोभवत् ॥ ७१ ॥
निष्पापो जायते मर्त्यः खट्वाङ्गेश विलोकनात् ॥
भुवनेशस्ततो याम्यां कुण्डं च भुवनेश्वरम् ॥ ७२ ॥
तत्र कुण्डे नरः स्नातो भुवने शोभवेन्नरः ॥
तद्याम्यां विमलेशश्च कुण्डं च विमलोदकम् ॥ ७३ ॥
तत्र स्नात्वा विलोक्येशं विमलो जायते नरः ॥
तत्र पाशुपतः सिद्धस्त्र्यम्बको नाम नामतः ॥ ७४ ॥
अनेनैव शरीरेण रुद्रलोकमवाप्तवान् ॥
भृगोरायतनं तस्य पश्चिमेऽतीव पुण्यदम् ॥ ७२ ॥
विधिपूर्वं तदभ्यर्च्य प्राप्नुयाच्छिवमन्दिरम् ॥
शुभेश्वरश्च तद्याम्यां महाशुभफलप्रदः ॥ ७६ ॥
तत्र सिद्धः पाशुपतः कपिलर्षिर्महातपाः ॥
तत्रास्ति हि गुहा रम्या कपिलेश्वर सन्निधौ ॥ ७७ ॥
तां गुहां प्रविशेद्यो वै न स गर्भे विशेत्क्वचित् ॥
तत्र यज्ञोदकूपोस्ति वाजिमेधफलप्रदः ॥ ७८ ॥
ओङ्कार एष एवासावादिवर्णमयात्मकः ॥
मत्स्योदर्युत्तरे कूले नादेशस्त्वहमेव च ॥ ७९ ॥
नादेशः परमं ब्रह्म नादेशः परमा गतिः ॥
नादेशः परमं स्थानं दुःखसंसारमोचनम् ॥ 4.2.97.८० ॥
कदाचित्तस्य देवस्य दर्शने याति जाह्नवी ॥
मत्स्योदरी सा कथिता स्नानं पुण्यैरवाप्यते ॥ ८१ ॥
मत्स्योदरी यदा गङ्गा पश्चिमे कपिलेश्वरम् ॥
समायाति महादेवि तदा योगः सुदुर्लभः ॥ ८२ ॥
उद्दालकेश्वरं लिङ्गमुदीच्यां कपिलेश्वरात् ॥
तद्दर्शनेन संसिद्धिः परा सर्वैरवाप्यते ॥ ८३ ॥
तदुत्तरे बाष्कुलीशं लिङ्गं सर्वार्थसिद्धिदम् ॥
बाष्कुलीशाद्दक्षिणतो लिङ्गं वै कौस्तुभेश्वरम् ॥ ८४ ॥
तस्यार्चनेन रत्नौघैर्न वियुज्येत कर्हिचित् ॥
शङ्कुकर्णेश्वरं लिङ्गं कौस्तुभेश्वरदक्षिणे ॥ ॥ ८५ ॥
संसेव्य परमं ज्ञानं लभेदद्यापि साधकः ॥
अघोरेशो गुहाद्वारि कूपस्तस्योत्तरे शुभः ॥ ८६ ॥
अघोरोद इति ख्यातो वाजिमेधफलप्रदः ॥
गर्गेशो दमनेशश्च तत्र लिङ्गद्वयं शुभम् ॥ ८७ ॥
अनेनैवेह देहेन यत्र तौ सिद्धिमापतुः ॥
तल्लिङ्गयोः समर्चातः सिद्धिर्भवति वाञ्छिता ॥ ८८ ॥
तद्दक्षिणे महाकुण्डं रुद्रावास इति स्मृतम् ॥
तत्र रुद्रेशमभ्यर्च्य कोटिरुद्रफलं लभेत् ॥ ८९ ॥
चतुर्दशी यदापर्णे रुद्रनक्षत्र संयुता ॥
तदा पुण्यतमः कालस्तस्मिन्कुण्डे महाफलः ॥ 4.2.97.९० ॥
रुद्रकुण्डे नरः स्नात्वा दृष्ट्वा रुद्रेश्वरं विभुम् ॥
यत्रतत्र मृतो वापि रुद्रलोकमवाप्नुयात् ॥ ९१ ॥
रुद्रस्य नैर्ऋते भागे लिङ्गं तत्र महालयम् ॥
तदग्रे पितृकूपोस्ति पितॄणामालयः परः ॥९२॥
तत्र श्राद्धं नरः कृत्वा पिण्डान्कूपे परिक्षिपेत् ॥
एकविंशकुलोपेतः श्राद्धकृद्रुद्रलोकभाक् ॥ ९३ ॥
तत्र वैतरणी नाम दीर्घिका पश्चिमानना ॥
तस्यां स्नातो नरो देवि नरकं नैव गच्छति ॥ ९४ ॥
बृहस्पतीश्वरं लिङ्गं रुद्रकुण्डाच्च पश्चिमे ॥
गुरुपुष्यसमायोगे दृष्ट्वा दिव्यां लभेद्गिरम् ॥ ९५ ॥
रुद्रावासाद्दक्षिणतः कामेशं लिङ्गमुत्तमम् ॥
तद्दक्षिणे महाकुण्डं स्नानाच्चिन्तित कामदम् ॥ ९६ ॥
चैत्रशुक्ल त्रयोदश्यां तत्र यात्रा च कामदा ॥
नलकूबर लिङ्गं च प्राच्यां कामेश्वराच्छुभम् ॥९७॥
तदग्रे पावनः कूपो धनधान्य समृद्धिदः ॥
नलकूबरपूर्वेण सूर्याचन्द्रमसेश्वरौ ॥ ९६ ॥
अज्ञानध्वान्तपटलीं हरतस्तौ समर्चितौ ॥
तद्दक्षिणेध्वकेशश्च दृष्टो मोहविनाशनः ॥ ॥९९॥
तत्र सिद्धीश्वरं लिङ्गं महासिद्धिसमर्पकम् ॥
तत्रैव मण्डलेशश्च मण्डलेशपदप्रदः ॥ 4.2.97.१०० ॥
कामकुण्डस्य पूर्वेण च्यवनेशः समृद्धिदः ॥
तत्रैव सनकेशश्च राजसूयफलप्रदः ॥ १ ॥
सनत्कुमार लिङ्गं च तत्पश्चाद्योगसिद्धिकृत् ॥
तदुत्तरे सनन्देशो महाज्ञान समर्थकः ॥२॥
तद्याम्यामाहुतीशश्च दृष्टो होमफलप्रदः ॥
तद्याम्यां पुण्यजनकं लिङ्गं पञ्चशिखेश्वरम् ॥ ३ ॥
मार्कण्डेय ह्रदस्तस्य पश्चिमे पुण्यवर्धनः ॥
तस्मिन्ह्रदे नरः स्नात्वा किं भूयः परिशोचति ॥ ४॥
तत्र स्नानं च दानं च भवेदक्षय पुण्यदम् ॥
तदुत्तरे च कुण्डेशः सर्वसिद्धैर्नमस्कृतः ॥५॥
दीक्षां पाशुपतीं लब्ध्वा द्वादशाब्देन यत्फलम् ॥
तत्फलं लभते विप्र मर्त्यः कुण्डेश दर्शनात् ॥ ॥ ६ ॥
मार्कण्डेय ह्रदात्पूर्वं शाण्डिल्येशः सुपुण्यदः ॥
तत्पश्चिमे च चण्डेशश्चण्डांशु ग्रहणाघहृत् ॥ ७ ॥
दक्षिणे च कपालेशात्कुण्डं श्रीकण्ठसञ्ज्ञितम् ॥
तत्र कुण्डे नरः स्नात्वा दाता स्याच्छ्रीप्रभावतः ॥ ८ ॥
महालक्ष्मीश्वरं लिङ्गं तस्य कुण्डस्य सन्निधौ ॥
महालक्ष्मीं समभ्यर्च्य स्नातस्तत्कुण्डवारिषु ॥९॥
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च वीज्यते ॥
यदा मत्स्योदरीं यान्ति स्वर्गलोकाद्दिवौकसः ॥
तदा तेनैव मार्गेण यान्ति स्त्रीभिर्वृताः सुखम् ॥4.2.97.११०॥
स्वर्गद्वारमतः ख्यातं तत्स्थानं मुनिसत्तम ॥
तत्कुण्ड दक्षिणेभागे लिङ्गं ब्रह्मपदप्रदम् ॥ ११ ॥
गायत्रीश्वर सावित्रीश्वरौ पूज्यौ प्रयत्नतः ॥
मत्स्योदर्यास्तटे रम्ये लिङ्गं सत्यवतीश्वरम् ॥१२॥
तयोः पूर्वेण सम्पूज्य तपःश्री परिवर्धनम् ॥
उग्रेश्वरं महालिङ्गं लक्ष्मीशात्पूर्वदिक्स्थितम् ॥१३॥
जातिस्मरो भवेन्मर्त्यस्तल्लिङ्गस्य समर्चनात् ॥
तद्दक्षिणे चोग्रकुण्डं स्नानात्कनखलाधिकम् ॥ १४ ॥
करवीरेश्वरं लिङ्गन्तस्य कुण्डंस्य पश्चिमे ॥
तस्य दर्शनतः पुंसां जायते रोगसङ्क्षयः ॥ १५ ॥
तद्वाव्ये मरीचीशं कुण्डं चाघौघनाशनम् ॥
तत्पश्चाच्चेन्द्रकुण्डं लिङ्गं चेन्द्रेश्वरं मुने ॥ १६ ॥
इन्द्रेशाद्दक्षिणेभागे शुभा कर्कोटवापिका ॥
तत्र वापीजले स्नात्वा दृष्ट्वा कर्कोटकेश्वरम् ॥ ॥ १७ ॥
नागानामाधिपत्यं तु जायते नात्र संशयः ॥
तत्पश्चाद्दृमिचण्डेशो ब्रह्महत्याहरो हरः ॥ १८॥
तद्दक्षिणे महाकुण्डं रुद्रलोकफलप्रदम् ॥
तत्पश्चिमे महालिङ्गमग्नीश इति विश्रुतम् ॥ १९ ॥
आग्नेयं नाम कुण्डं च तत्पूर्वेग्निसलोकदम् ॥
आग्नेयेश्वरतः प्राच्यां कुण्डं तद्दक्षिणे शुभम्॥ 4.2.97.१२० ॥
तत्र कुण्डे नरः स्नात्वा स्वर्गे वसति पूर्वजैः ॥
तत्प्राच्यां बालचन्द्रेशश्चन्द्रलोकगतिप्रदः ॥ २१ ॥
परितो बालचन्द्रेशं गणलिङ्गान्यनेकशः ॥
विलोक्य तानि लिङ्गानि गाणपत्यं पदं लभेत् ॥२२ ॥
बालचन्द्र समीपे तु कूपः पितृगणप्रियः ॥
तत्र श्राद्धप्रदः स्नात्वा पितॄन्सप्ताऽत्र तारयेत् ॥ २३ ॥
तदन्धोः पूर्वतो लिङ्गं पुण्यं विश्वेश्वराह्वयम्॥
विश्वेश्वरस्य पूर्वेण वृद्धकालेश्वरो हरः ॥ २४ ॥
कालोदो नाम कूपोस्ति तदग्रे सर्वरोगहृत् ॥
यैस्तु तत्रोदकं पीतं स्त्रीभिः पुम्भिः स्वकर्मभिः ॥ २५ ॥
न तेषां परिवर्तोत्र कल्पकोटिशतैरपि ॥
तत्पीत्वा जन्मबन्धोत्थाद्भयान्मुच्येत मानवः ॥ २६ ॥
तत्र कूपे तु यद्दत्तं दानं शिवरतात्मनाम् ॥
संवर्तेपि न तस्यास्ति नाशः कलशसम्भव ॥२७॥
खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः ॥
ते रुद्रलोकमासाद्य मोदन्ते सुखिनः सदा ॥ २८ ॥
कालेशाद्दक्षिणे भागे मृत्य्वीशस्त्वपमृत्युहृत् ॥
लिङ्गं दक्षेश्वराह्वं च ततः कूपादुदग्दिशि ॥ २९ ॥
अपराधसहस्रं तु नश्येत्तस्य समर्चनात् ॥ 4.2.97.१३० ॥
महाकालेश लिङ्गं च दक्षेशात्पूर्वतो महत् ॥
महाकुण्डे नरः स्नात्वा महाकालं तु योर्चयेत् ॥३१॥
अर्चितं तेन वै तत्र जगदेतच्चराचरम् ॥
अन्तकेश्वरमालोक्य तद्याम्यां नान्तकस्य भीः ॥ ३२ ॥
हस्तिपालेश्वरं लिङ्गं तस्य दक्षिणतो मुने॥
तस्य पूजनतो याति पुण्यं वै हस्तिदानजम् ॥ ३३ ॥
तत्रैरावतकुण्डं च लिङ्गमैरावतेश्वरम् ॥
तल्लिङ्गमर्चयन्मर्त्यो धनधान्यसमृद्धिभाक् ॥ ३४ ॥
तद्दक्षिणे श्रेयसे च लिङ्गं स्यान्मालतीश्वरम् ॥
हस्तीश्वरादुत्तरे तु जयन्तेशो जयप्रदः ॥ ३५ ॥
बन्दीश्वरो महाकाल कुण्डादुत्तरतः शुभः ॥
बन्दिकुण्डं च विख्यातं वाराणस्यां महाघहृत्॥ ३६॥
तत्र स्नानेन दानेन श्राद्धेनाक्षयमश्नुते ॥
धन्वन्तरीश्वरं लिङ्गं कुण्डं तन्नाम चैव हि ॥ ३७ ॥
तस्य लिङ्गस्य नामान्यत्कुण्डनामान्यदेव हि ॥
तुङ्गेश्वरं लिङ्ग नाम कुण्डं वैद्येश्वराभिधम् ॥ ३८ ॥
सुधामय्यो महौषध्यः क्षिप्तास्तत्र महाधियः ॥
तत्कुण्डस्नानतस्तस्मात्तल्लिङ्ग परिवीक्षणात् ॥
नश्यन्ति व्याधयः सर्वे सह पापैः सुदारुणैः ॥ ३९ ॥
तदुत्तरे हलीशेशः सर्वव्याधिनिपूदनः ॥
शिवेश्वरः शिवकरस्तुङ्गनाम्नश्च दक्षिणे ॥ 4.2.97.१४० ॥
जमदग्नीश्वरं लिङ्गं शिवेशाद्दक्षिणे शुभम् ॥
तत्पश्चिमे भैरवेशः कूपस्तस्योत्तरे शुभः ॥४१ ॥
तदुदस्पर्शमात्रेण सर्वयज्ञफलं लभेत् ॥
तत्कूपपश्चिमे भागे सुकेशो योगसिद्धिदः ॥ ४२ ॥
तन्नैर्ऋत्यां च व्यासेशः कूपश्च विमलोदकः ॥
व्यासकूपे नरः स्नात्वा तर्पयित्वा सुरान्पितॄन् ॥ ४३ ॥
अक्षयं लभते लोकं यत्रकुत्राभिकाङ्क्षितम् ॥
व्यासतीर्थात्पश्चिमतो घण्टाकर्णो ह्रदो महान् ॥ ४४ ॥
घण्टाकर्णह्रदे स्नात्वा व्यासम्श परिदर्शनात् ॥
यत्रतत्र मृतो वापि वाराणस्यां मृतो भवेत् ॥ ४५ ॥
घण्टाकर्ण समीपे तु पञ्चचूडाप्सरः सरः ॥
पञ्चचूडाजले स्नात्वा दृष्ट्वा देवं तमीश्वरम् ॥ ४६॥
स्वर्गलोकं नरो याति पञ्चचूडाप्रियो भवेत् ॥
गौरीकूपस्ततोवाच्यां सर्वजाड्यविनाशनः ॥ ४७ ॥
पञ्चचूडोत्तरे भागे तीर्थं चाशोकसञ्ज्ञितम्॥
मन्दाकिनी महातीर्थं तदुदीच्यां महाघहृत् ॥ ४८ ॥
स्वर्गलोकेपि सा पुण्या किं पुनर्मानवे मुने ॥
तदुत्तरे मध्यमेशो मध्ये क्षेत्रं स्वपित्यहो ॥४९॥
तत्र जागरणं कृत्वाऽशोकाष्टम्यां मधौ नरः ॥
न जातु शोकं लभते सदानन्दमयो भवेत्॥4.2.97.१५०॥
मुक्तिक्षेत्रप्रमाणं च क्रोशं क्रोशं च सर्वतः॥
आरभ्य लिङ्गादस्माच्च पुण्यदान्मध्यमेश्वरात् ॥५१॥
एतदेव सदा प्राहुः सर्वे वै प्रपितामहाः ॥
कश्चिदस्मत्कुले जातो मन्दाकिन्या जलाप्लुतः ॥५२॥
भोजयेत्प्रयतो विप्रान्यतीन्पाशुपतानपि ॥
मदाकिन्यां नरः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ॥ ५३ ॥
एकविंशत्कुलोपेतो रुद्रलोके वसेच्चिरम् ॥
मध्यमेशादवाच्यां च विश्वेदेवेश्वरः शुभः ॥५४॥
तदर्चनादर्चिताः स्युर्विश्वेदेवास्त्रयोदश ॥
तत्पूर्वे वीरभद्रेशो महावीरपदप्रदः ॥५५॥
भद्रदा भद्र्काली च तस्य दक्षिणतः शुभा ॥
भद्राकाल ह्रदो नाम तत्रातीव शुभप्रदः ॥५६॥
आपस्तम्बेश्वरं लिङ्गं तत्प्राच्यां ज्ञानदं परम् ॥
तदुत्तरे पुण्यकूपस्तत्पश्चाच्छौनको ह्रदः ॥ ५७ ॥
ह्रदपश्चिमतो लिङ्गं शौनकेशं सुधीप्रदम् ॥
ह्रदे तत्र नरः स्नात्वा दृष्ट्वा वै शौनकेश्वरम् ॥ ५८ ॥
ज्ञानं तत्संलभेद्दिव्यं येन मृत्युं तरत्यसौ ॥
तद्दक्षिणे जम्बुकेशस्तिर्यग्योनि निवारकः ॥५९॥
तदुत्तरे मतङ्गेशो गानविद्याप्रबोधकः ॥
मतङ्गेशस्य वायव्ये नानालिङ्गानि सर्वतः ॥4.2.97.१६०॥
मुनिभिः स्थापितानीह सर्वसिद्धिप्रदानि च ॥
ब्रह्मरातेश्वरं लिङ्गं मतङ्गेशाच्च दक्षिणे ॥६१॥
तल्लिङ्गदर्शनादायुर्नान्तराच्छिद्यते क्वचित् ॥
तत्राज्यपेश्वरं लिङ्गं पितृलिङ्गान्यनेकशः ॥
तल्लिङ्गसेवया सर्वे तुष्यन्ति प्रपितामहाः ॥ ६२ ॥
तद्दक्षिणे सिद्धकूपः सिद्धाः सन्ति सहस्रशः॥
वायुरूपास्तु ये सिद्धा ये सिद्धा भानुरश्मिगाः ॥ ६३ ॥
तैः स्थापितं तु यल्लिङ्गं तत्सिद्धेश्वरमीरितम् ॥
तस्य सन्दर्शनादेव सर्वाः स्युः सिद्धयोऽमलाः ॥ ६४ ॥
तत्पश्चिमे सिद्धवापी पीता स्नाता च सिद्धिदा ॥
प्राच्यां च सिद्धकूपाद्वै लिङ्गं व्याघ्रेश्वराभिधम् ॥ ६५ ॥
तल्लिङ्गदर्शनान्नृणां न भयं व्याघ्रचोरजम् ॥
ज्येष्ठेश्वरं च तद्याम्यां ज्येष्ठस्थानेति सिद्धिदम् ॥६६॥
तद्दक्षिणे मुदां धाम लिङ्गं प्रहसितेश्वरम् ॥
तदुत्तरे निवासेश काशीवासफलप्रदः ॥ ६७ ॥
चतुःसमुद्रकूपोस्ति तत्राब्धिस्नान पुण्यदः ॥
ज्येष्ठा देवी तु तत्रास्ति नता ज्येष्ठपदप्रदा ॥ ६८ ॥
अवाच्यां व्याघ्रलिङ्गाच्च लिङ्गं चण्डीश्वराभिधम् ॥
तदुत्तरे दण्डखातं सरः पितृमुदावहम् ॥ ६९ ॥
ग्रहणानन्तरे स्नानं दण्डखातेति पुण्यदम् ॥
जैगीषव्य गुहा तत्र तत्र लिङ्गं तदाह्वयम्॥4.2.97.१७०॥
त्रिरात्रोपोषितस्तत्र ज्ञानं लभ्येत निर्मलम् ॥
महापुण्यप्रदं लिङ्गं तत्पश्चाद्देवलेश्वरम् ॥ ७१ ॥
शतकालस्तत्समीपे शतं कालानुमापतिः ॥
तल्लिङ्गाविर्भवे काश्यां कालयामास कुम्भज ॥ ७२ ॥
तल्लिङ्गदशर्नादायुः शतवर्षाण्यखण्डितम् ॥
शातातपेशस्तद्याम्यां महाजपफलप्रदः ॥ ७३ ॥
तत्पश्चिमे हेतुकेशो हेतुभूतो महाफले ॥
तद्दक्षिणेक्षपादेशो महाज्ञानप्रर्वतकः ॥ ७४ ॥
तदग्रे च कणादेशस्तत्र पुण्योदकः प्रहिः ॥
स्नात्वा काणादकूपे यः कणादेशं समर्चयेत् ॥ ७५॥
न धनेन न धान्येन त्यज्यते स कदाचन ॥
तस्य दक्षिणतो दृश्यो भूतीशो भूतिकृत्सताम् ॥७६॥
तत्पश्चिमेऽघसंहर्तृ आषाढीश्वर सञ्ज्ञितम् ॥
दुर्वासेशश्च तत्पूर्वे सर्वकामसमृद्धिकृत् ॥७७ ॥
तद्याम्यां भारभूतेशः पापभारापहारकः ॥
व्यासेश्वरस्य पूर्वेण द्वौ शङ्खलिखितेश्वरौ ॥
तौ दृश्यौ यत्नतः काश्यां महाज्ञान प्रवर्तकौ ॥ ७८॥
यत्समाप्याप्यते पुण्यं निष्ठा पाशुपतव्रतम् ॥
तदाप्यतेत्र विश्वेश सकृदीक्षणतः क्षणात् ॥७९॥
तदीशानेवधूतेशो योगज्ञानप्रवर्तकः ॥
तीर्थं चैवावधूतेशं सर्वकल्मषनाशकृत् ॥4.2.97.१८०॥
अवधूतेश्वरात्पूर्वे लिङ्गं पशुपतीश्वरम् ॥
तल्लिङ्गसेवया पुंसां पशुपाशविमोक्षणम् ॥८१॥
तद्दक्षिणे गोभिलेशो महाभिलषितप्रदः।
जीमूतवाहनेशश्च तत्पश्चाल्लिङ्गमुत्तमम् ॥ ८२ ॥
विद्याधरपदप्राप्तिस्तल्लिङ्गपरिसेवनात्॥
मयूखार्कः पञ्चनदे गभस्तीशश्च तत्र वै ॥ ८३ ॥
दधिकल्पह्रदो नाम तदुदीच्यां महाप्रहिः ॥
दुर्लभं तत्प्रहिस्नानं दुर्लभं च तदीक्षणम् ॥ ८४ ॥
गभस्तीशोत्तरे भागे दधिकल्पेश्वरो हरः ॥
नरस्तमाशु संवीक्ष्य कल्पं त्र्यक्षपुरे वसेत् ॥ ८५ ॥
गभस्तीशाद्दक्षिणे तु मङ्गलां मङ्गलालयाम् ॥
उद्दिश्य मङ्गलां गौरीं भोजयेद्द्विजदम्पती ॥ ८६ ॥
अलङ्कृत्य यथाशक्ति तत्पुण्यान्तो न कर्हिचित् ॥
क्षितिप्रदक्षिणफला मङ्गलैका प्रदक्षिणा ॥ ८७ ॥
वदनप्रेक्षणादेवी मुखप्रेक्षेश्वरोत्तरे ॥
मङ्गलायाः समीपे तु सर्वसिद्धिकरी शिवा ॥ ८८ ॥
लिङ्गे त्वष्ट्रीशवृत्तेशौ मुखप्रेक्षोत्तरे शुभे ॥
सहेमभूमिदानस्य फलं दर्शनतस्तयोः ॥८९॥
तदुत्तरे चर्चिकाया देव्याः सन्दर्शनं शुभम् ॥
रेवतेश्वर लिङ्गं च चर्चिकाग्रेण शान्तिकृत् ॥ 4.2.97.१९० ॥
महाशुभायतस्याग्रे लिङ्गं पञ्चनदेश्वरम् ॥
मङ्गलोदो महाकूपो मङ्गला पश्चिमे शुभः ॥ ९१ ॥
उपमन्योर्महालिङ्गं मङ्गला पश्चिमे शुभम् ॥
व्याघ्रपादेश्वरं लिङ्गं तत्पश्चाद्व्याघ्रभीतिहृत् ॥ ९२ ॥
नैर्ऋत्यां च गभस्तीशाच्छशाङ्केशोघसङ्घहृत् ॥
तत्पश्चिमे चैत्ररथं लिङ्गं दिव्यगतिप्रदम् ॥ ९३ ॥
रेवतेशात्पश्चिमतो जैमिनीशो महाघहृत् ॥
तत्र लिङ्गान्यनेकानि ऋषीणामृषिसत्तम ॥ ९४ ॥
जैमिनीशाच्च वायव्ये लिङ्गं वै रावणेश्वरम् ॥
न तद्दशर्नतः पुंसां राक्षसानां महाभयम् ॥ ९५ ॥
तद्दक्षिणे वराहेशो माण्डव्येशस्ततो यमे ॥
तद्दक्षिणे प्रचण्डेशो योगेशो दक्षिणे ततः ॥ ९६ ॥
तद्दक्षिणे च धातेशः सोमेशश्च तदग्रतः ॥
तन्नैर्ऋत्यां कनकेशो महाकनकदः सताम् ॥ ९७ ॥
तदुत्तरे पाण्डवानां पञ्चलिङ्गानि सन्मुदे ॥
संवर्तेशस्तदग्रे च श्वेतेशस्तस्य पश्चिमे ॥ ९८ ॥
तत्पश्चात्कलशेशश्च लिङ्गं कालाभयप्रदम् ॥
कालेन पाशिते श्वेते मुने कुम्भात्समुत्थितम् ॥९९॥
चित्रगुप्तेश्वरं लिङ्गं तदुदीच्यामघापहम् ॥
चित्रगुप्तेश्वरात्पश्चाद्यो दृढेशो महाफलः ॥ 4.2.97.२०० ॥
कलशेशादवाच्यां च ग्रहेशो लिङ्गमुत्तमम् ॥
ग्रहबाधां शमयति तल्लिङ्ग परिलोकनम् ॥ १ ॥
चित्रगुप्तेश्वरात्पश्चाद्यदृच्छेशो महाफलः ॥
उतथ्यवामदेवेशं लिङ्गं याम्यां ग्रहेश्वरात् ॥२॥
कम्बलाश्वतरेशौ च तस्य दक्षिणतः शुभे ॥
तत्रैव निर्मलं लिङ्गं नलकूबरपूजितम् ॥ ३ ॥
तद्याम्यां मणिकर्णीशं तदुदक्पलितेश्वरम् ॥
जराहरं च तत्रैव तत्पश्चात्पापनाशनम् ॥४॥
तत्पश्चिमे निर्जरेशस्तन्नैर्ऋत्यां पितामहः ॥
पितामहस्रोतिका च तत्र श्राद्धं महाफलम् ॥५॥
तद्याम्यां वरुणेशश्च बाणेशस्तस्य दक्षिणे।
पितामहस्रोतिकायां कूश्माण्डेशस्तु सिद्धिकृत् ॥ ६ ॥
तत्पूर्वतो राक्षसेशो गङ्गेशस्तस्य दक्षिणे ॥
तदुत्तरे निम्नगेशाः सन्ति लिङ्गान्यनेकशः ॥ ७ ॥
वैवस्वतेश्वरस्तत्र यमलोकनिवारकः ॥
तत्पश्चाददितीशश्च चक्रेशस्तस्य चाग्रतः ॥ ८ ॥
तदग्रे कालकेशाख्यो दृष्टप्रत्ययकृत्परः ॥
छाया सन्दृश्यते तत्र निष्पापस्तदवेक्षणात् ॥ ९ ॥
तदग्रे तारकेशश्च तदग्रे स्वर्णभारदः॥
तदुत्तरे मरुत्तेशः शक्रेशश्च तदग्रतः ॥ 4.2.97.२१० ॥
तद्दक्षिणे च रम्भेशस्तत्रैव च शशीश्वरः ॥
तदुत्तरे लोकपेशास्तत्र लिङ्गान्यनेकशः ॥ ११ ॥
नागगन्धर्वयक्षाणां किन्नराप्सरसामपि ॥
देवर्षिगणवृदानां नानासिद्धिकराण्यपि ॥ १२ ॥
शक्रेशाद्दक्षिणे भागे फाल्गुनेशो महाघहृत् ॥
महापाशुपतेशश्च तद्याम्यां शुभकृत्परः ॥ १३ ॥
तत्पश्चिमे समुद्रेश ईशानेशस्तदुत्तरे॥
तत्पूर्वे लाङ्गलीशश्च सर्वसिद्धिसमर्पकः ॥ १४ ॥
रागद्वेषविनिर्मुक्ताः सिद्धिं यान्ति च पूजकाः ॥
तेषां मोक्षो मया ख्यातो न तु ते देवि मानवाः ॥ १५ ॥
मधुपिङ्गश्वेतकेतू लाङ्गलीशे तपस्विनौ ॥
अनेनैव शरीरेण जग्मतुः सिद्धिमुत्तमाम् ॥ १६ ॥
तत्रैव नकुलीशश्च कपिलेशश्च तत्र वै॥
रहस्यं परमं चोभौ मम व्रत निषेविणौ॥ १७ ॥
तत्सन्निधौ प्रीतिकेशस्तत्र प्रीतिर्मम प्रिये ॥
तत्रोपवासादेकस्मात्फलमब्दशताधिकम् ॥ १८ ॥
एकं जागरणं कृत्वा प्रीतिकेश उपोषितः ॥
गणत्वपदवी तस्य निश्चिता मम पर्वणि ॥ १९ ॥
देवस्य दक्षिणे भागे तत्र वापी शुभोदका ॥
तदम्बुप्राशनं नृणामपुनर्भवहेतवे ॥ 4.2.97.२२० ॥
तज्जलात्पश्चिमे भागे दण्डपाणिः सदावति ॥
तत्प्राच्यवाच्युत्तरस्यां तारः कालः शिलादजः॥२१॥
लिङ्गत्रयं हृदब्जेयच्छ्रद्धयापी तमर्पयेत् ॥
यैस्तत्र तज्जलं पीतं कृतार्थास्ते नरोत्तमाः ॥२२॥
अविमुक्तसमीपेच्यों मोक्षेशो मोक्षबुद्धिदः ॥
करुणेशो दयाधाम तदुदीच्यां समर्चयेत् ॥२३॥
स्वर्णाक्षेशस्तु तत्प्राच्यां ज्ञानदस्तस्य चोत्तरे ॥
सौभाग्यगौरी सम्पूज्या बहुसौभाग्यसम्पदे ॥२४॥
विश्वेशाद्दक्षिणेभागे निकुम्भेशः प्रयत्नतः ॥
क्षेत्रक्षेमकरः पूज्यस्तत्पश्चाद्विघ्ननायकः ॥ २५ ॥
सर्वविघ्नच्छिदभ्यर्च्यश्चतुर्थ्यां तु विशेषतः ॥
विरूपाक्षो निकुम्भेशाद्वह्नौ पूज्यः सुसिद्धिदः ॥ २६ ॥
तद्दक्षिणे च शुक्रेशः पुत्रपौत्रप्रवर्धनः ॥
तदुदीच्यां महालिङ्गं देवयानीश्वराभिधम्॥ २७ ॥
शुक्रेशादग्रतः पूज्यः कचेश इति सञ्ज्ञितः ॥
शुक्रकूपमुपस्पृश्य हयमेधफलं लभेत् ॥ २८ ॥
भवानीशौ नमस्यौ च शुक्रेशात्पश्चिमे शुभौ ॥
भक्तपोतप्रदौ तौ तु निजभक्तस्य सर्वदा ॥ २९ ॥
अलर्केशः समभ्यर्च्यः शुक्रेशात्पूर्वदिक्स्थितः ॥
मदालसेश्वरस्तत्र तत्पूर्वे सर्वविघ्नहृत् ॥ 4.2.97.२३० ॥
गणेश्वरेश्वरं लिङ्गं सर्वसिद्धिकरं परम् ॥
हत्वा लङ्केश्वरं विप्र रघुणाथ प्रतिष्ठितम् ॥३१॥
तल्लिङ्गस्पर्शनादाशु ब्रह्महापि विशुध्यति ॥
महापुण्यप्रदं चान्यत्तत्रार्च्यं त्रिपुरान्तकम् ॥ ३२ ॥
दत्तात्रेयेश्वरं लिङ्गं तस्य पश्चिमतः शुभम् ॥
तद्याम्यां हरिकेशेशो गोकर्णेशस्ततः परम् ॥ ३३ ॥
सरस्तदग्रे पापघ्नं तत्पश्चाच्च ध्रुवेश्वरः ॥
तदग्रे धुवकुण्डं च पितृप्रीतिकरं परम् ॥ ३४ ॥
तदुत्तरपिशाचेशः पैशाच्य पदहारकः ॥
पित्रीशस्तद्यमदिशि पितृकुण्डं तदग्रतः ॥ ३५ ॥
तत्र श्राद्धकृतां पुंसां तुष्येयुः प्रपितामहाः॥
अग्रे ध्रुवेशात्तारेशो वैद्यनाथः स एव हि ॥ ३६ ॥
तन्नैर्ऋत्यां मनोलिङ्गं वंशवृद्धिकरं परम् ॥
प्रियव्रतेश्वरं लिङ्गं वैद्यनाथपुरोगतम्॥ ३७ ॥
तद्याम्यां मुचुकुन्देशस्तत्पार्श्वे गौतमेश्वरः ॥
तत्पश्चिमेन भद्रेश्तद्याम्यामृष्यशृङ्गिणः ॥ ३८ ॥
ब्रह्मेशस्तत्पुरस्ताच्च पर्जन्येशस्तदीशगः ॥
तत्प्राच्यां नहुषेशश्च विशालाक्षी च तत्पुरः ॥ ३९ ॥
विशालाक्षीश्वरं लिङ्गं तत्रैव क्षेत्रवस्तिदम् ॥
जरासन्धेश्वरं लिङ्गं तद्याम्यां ज्वरनाशनम् ॥ 4.2.97.२४० ॥
तत्पुरस्ताद्धिरण्याक्षलिङ्गं पूज्यं हिरण्यदम् ॥
तत्पश्चिमे गयाधीशस्तत्प्रतीच्यां भगीरथः ॥ ४१ ॥
तदग्रे च दिलीपेशो ब्रह्मेशात्पश्चिमे मुने ॥
तत्र लिङ्गं सकुण्डं च स्नातुरिष्टफलप्रदम् ॥ ४२ ॥
तत्र विश्वावसोर्लिङ्गं मुण्डेशस्तत्र पूर्वतः ॥
तद्दक्षिणे विधीशश्च तद्याम्यां वाजिमेधकः ॥४३ ॥
दशाश्वमेधिके स्नात्वा दृष्ट्वा तल्लिङ्गमुत्तमम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ४४ ॥
तदुत्तरे मातृतीर्थं स्नातुर्जन्मभयापहृत् ॥
तत्र स्नानं तु यकुर्यान्नारी वा पुरुषोपि वा ॥ ४५ ॥
ईप्सितं फलमाप्नोति मातृणां च प्रसादतः ॥
दक्षिणे तव कुण्डाच्च पुष्पदन्तेश्वरः परः ॥ ४६ ॥
तदग्निदिशि देवर्षि गण लिङ्गान्यनेकशः ॥
पुष्पदन्ताद्दक्षिणतः सिद्धीशः परसिद्धिदः ॥ ४७ ॥
पञ्चोपचारपूजातः स्वप्ने सिद्धिं परां दिशेत् ॥
राज्यप्राप्तिर्भवेत्पुंसां हरिश्चन्द्रेशसेवया ॥ ४८ ॥
तत्पश्चिमे नैर्ऋतेशोङ्गिरसेशस्ततो यमे ॥
तद्दक्षिणे च क्षेमेशश्चित्राङ्गेशस्ततो यमे ॥ ४९ ॥
तद्दक्षिणे च केदारो रुद्रानुचरताप्रदः ॥
चन्द्रसूर्यान्वयैर्भूपैः केदाराद्दक्षिणापथे ॥ 4.2.97.२५० ॥
प्रतिष्ठितानि लिङ्गानि शतशोथ सहस्रशः ॥
लोलार्काद्दक्षिणाशायां सर्वाशापूरकोर्चितः ॥ ५१ ॥
करन्धमेश्वरं लिङ्गं तत्प्रतीच्यां महाफलम् ॥
तत्पश्चिमे महादुर्गा महादुर्गप्रभञ्जनी ॥ ५२ ॥
शुष्केश्वरं च तद्याम्यां शुष्कया सरितार्चितम् ॥
जनकेशस्तत्प्रतीच्यां शङ्कुकर्णस्तदुत्तरे ॥ ५३ ॥
महासिद्धीश्वरं लिङ्गं तत्प्राच्यां सर्वसिद्धिदम् ॥
सिद्धकुण्डे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं महत् ॥ ५४ ॥
सर्वासामेव सिद्धीनां पारं गच्छति मानवः ॥
शङ्कुकर्णेश वायव्ये लिङ्गं वाडव्यसञ्ज्ञितम् ॥ ५५ ॥
तदग्रे च विभाण्डेशः कहोलेशस्तदुत्तरे ॥
तत्र द्वारेश्वरं लिङ्गं देवी द्वारेश्वरी शुभा ॥ ५६ ॥
तत्पूजनाद्भवेत्सिद्धिरानन्दारण्य वस्तिदा ॥
रक्षकाश्च गणास्तत्र नानारूपायुधा मुने ॥ ५७ ॥
तत्रैव हरिदीशं च लिङ्गं कात्यायनं ततः ॥
तत्पार्श्वे जाङ्गलेशश्च तत्पश्चान्मुकुटेश्वरः ॥ ५८ ॥
तत्रैव कुण्डं विमलं सर्वयात्राफलप्रदम् ॥
स्नात्वा मुकुटकुण्डे च दृष्ट्वा वै मुकुटेश्वरम् ॥ ५९ ॥
यात्रया सर्व लिङ्गानां यत्फलं तदवाप्यते ॥
तपसश्चापि योगस्य सिद्धिदा साऽवनीपरा ॥4.2.97.२६०॥
मुने शतं सहस्राणि तत्र लिङ्गानि सिद्धये ॥
एका दिगुत्तरा देवि वाराणस्यां प्रिया मम ॥ ६१ ॥
तत्रापि पञ्चायतने रतिर्मे नितरां प्रिये ॥
उत्पत्तिस्थिति कालेपि तत्राहं सर्वदा स्थितः ॥ ६२ ॥
एवं यस्तु विजानाति न स पापैः प्रलिप्यते ॥
सत्यं सत्यं पुनः सत्यं त्रिसत्यं नान्यतः प्रिये ॥ ६३ ॥
शीघ्रं तत्रैव गन्तव्यं यदीच्छेन्मामकं पदम् ॥
उद्देशमात्रं लिगानि कथितानि मया मुने ॥ ६४ ॥
द्विस्त्रिः कृत्वः स्थापितानि भक्त्या लिङ्गानि कानिचित् ॥
न तानि पुनरुक्तानि श्रद्धयार्च्यानि सर्वतः ॥ ६५ ॥
एतानि यानि लिङ्गानि यानि कुण्डानि येंऽधवः ॥
या वाप्यस्तानि सर्वाणि श्रद्धेयानि मनीषिभिः ॥६६॥
एतेषां दर्शनात्स्नानात्फलमत्रोत्तरोत्तरम्॥
अत्रत्यानां च लिङ्गानां कूपानां सरसामपि ॥६७॥
वापीनां चापि मूर्तीनां कः सङ्ख्यातुं प्रभुर्भवेत् ॥
आनन्दकाननस्थानि तृणान्यपि परं वरम् ॥६८॥
दिवौकसोपि नान्यत्र यत्पुनर्जन्मभाजनम्॥
सर्वलिङ्गमयी काशी सर्वतीर्थेकजन्मभूः ॥६९॥
स्वर्गापवर्गयोर्दात्री दृष्टा देहान्तसेविता ॥
मम प्रियतमा देवि त्वमेव तपसो बलात् ॥ 4.2.97.२७० ॥
स्वभावतस्त्वियं काशी सुखविश्रामभूर्मम ॥
ये काश्यानाम गृह्णन्ति येनुमोदन्त एव हि ॥ ७१ ॥
ते मे शाखविशाखाभाः स्कन्दनन्दिगजास्यवत् ॥
त एव भक्ता मे देवि त एव मम सेवकाः ॥७२॥
मुमुक्षवस्त एवात्र येचानन्दवनौकसः ॥
तपस्तप्तं महत्तैस्तु कृतं तैस्तु महाव्रतम्॥ ७३ ॥
तैश्च दत्तं महादानं ये चानन्दवनौकसः ॥
ते स्नातसर्वतीर्था वै तेखिलाध्वरदीक्षिताः ॥ ७४ ॥
ते चीर्णसर्वधर्माहि ये चानन्दवनौकसः ॥
सुरासुरोरगनरा भूमिभारायतेऽखिलाः ॥
वयस्यपीह चरमे येनानन्दवनौकसः ॥ ७५ ॥
अन्त्यजोपि वरः काश्यां नान्यत्र श्रुतिपारगः ॥
संसारपारगः पूर्वस्त्वन्त्यश्चान्त्यजतोप्यधः ॥ ७६ ॥
स एव नूनं सर्वज्ञः स एव ह्यधिकेक्षणः ॥
यः पार्थिवीं तनुं हित्वा काश्यां धत्ते सुधामयीम् ॥७७॥
श्रुत्वाध्यायमिदं पुण्यं सर्वतीर्थरहस्यवत् ॥
काशीदर्शनजं पुण्यं प्राप्नोति नियतं नरः॥७८॥
यः पठेदिममध्यायं प्रातः प्रातर्दिनेदिने ॥
दृष्टानि तेन सर्वाणि तीर्थान्येतानि नान्यथा ॥ ७९ ॥
सर्वलिङ्गमयाध्यायं योऽमुं नित्यं जपेत्सुधीः ॥
न तं यमो न तं दूता नैनमंहोपि बाधते ॥ 4.2.97.२८० ॥
ब्रह्मयज्ञफलं तस्य जायते सुकृतात्मनः ॥
यो जपेदमुमध्यायं शुचिस्तद्गतमानसः ॥ ८१ ॥
स स्नातः सर्वकुण्डेषु सर्ववाप्यम्बुपः स च ॥
सर्वलिङ्गार्चकः सोत्र योऽमुमध्यायमाजपेत्॥८२॥
किमन्यैर्बहुभिः स्तोत्रैरतिस्तोकफलप्रदैः ॥
मत्प्रेमवद्भिरध्यायो जप्तव्योयं महाफल॥८३॥
महादानेषु दत्तेषु यत्फलं प्राप्यतेऽत्र वै ॥
सकृज्जपान्महाध्यायादमुष्मात्तत्समाप्यते ॥ ८४ ॥
स्नात्वा सर्वाणि तीर्थानि दृष्ट्वा लिङ्गान्यनेकशः ॥
यत्फलं लभ्यते मर्त्यैस्तदेतज्जपनाद्ध्रुवम् ॥ ८५ ॥
इदमेव तपोत्युग्रमयमेव जपो महान् ॥
काशीलिङ्गावली नामाध्यायो जप्येत यन्मुने ॥ ८६ ॥
मम द्रुहे नास्तिकाय वेदनिन्दारताय च॥
न दातव्यो न दातव्यो न दातव्यो जपस्त्वयम् ॥ ८७ ॥
अध्यायस्यास्य जपनात्पापं ब्रह्मवधोद्भवम् ॥
अगम्यागमनं चापि तथाभक्षस्यभक्षणम् ॥ ८८ ॥
गुरुदाराभिचारोत्थं हेमस्तेयसमुद्भवम् ॥
मातापितृवधाज्जातं गोभ्रूणहननोद्भवम् ॥ ८९ ॥
महापापानि पापानि ज्ञाताज्ञातानि भूरिशः ॥
उपपापानि पापानि मनोवाक्कायजान्यपि ॥ 4.2.97.२९० ॥
विलयं यान्त्यशेषाणि निःसन्देहं ममाज्ञया ॥
पुत्रान्पौत्रान्धनं धान्यं कलत्रं क्षेत्रमेव च॥९१॥
मनःसमीहितं सर्वं स्वर्गं मोक्षसुखान्यपि ॥
जप्त्वाध्यायमिमं विद्वान्प्राप्स्यत्येव न संशयः॥९२॥
इति यावत्समाख्याति देवो देवीपुरः कथाम् ॥
तावन्नन्दीसमागत्य प्रणम्येति व्यजिज्ञपत्॥ ९३ ॥
जाता परिसमाप्तिश्च महाप्रासादनिर्मितेः ॥
सज्जीकृतो रथश्चायं ब्रह्माद्या मिलिताः सुराः ॥ ९४ ॥
तार्क्ष्यगः पुण्डरीकाक्षो द्वारि तिष्ठति सानुगः ॥
प्रतीक्षमाणोऽवसरं पुरस्कृत्य मुनीश्वरान्॥ ९५ ॥
चतुर्दशसु लोकेषु ये ये तिष्ठन्ति सुव्रताः ॥
ते निशम्याद्यमिलिताः प्रावेशिक महोत्सवम् ॥ ९६ ॥
॥ स्कन्द उवाच ॥ ॥
इति नन्दिवचः श्रुत्वा देवो देवी समायुतः ॥
दिव्यं रथं समारुह्य निर्जगाम त्रिविष्टपात् ॥ २९७ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे क्षेत्रतीर्थवर्णनं नाम सप्तनवतितमोऽध्यायः ॥ ९७॥