॥ व्यास उवाच [। ॥
शृणु सूत महाबुद्धे यथा स्कन्देन भाषितम् ॥
भविष्यं मम तस्याग्रे कुम्भयोने महामते ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
निशामय महाभाग त्वं मैत्रावरुणे मुने ॥
पाराशर्यो मुनिवरो यथा मोहमुपैष्यति ॥ २ ॥
व्यस्य वेदान्महाबुद्धिर्नाना शाखा प्रभेदतः ॥
अष्टादशपुराणानि सूतादीन्परिपाठ्य च ॥ ३ ॥
श्रुतिस्मृतिपुराणानां रहस्यं यस्त्वचीकरत् ॥
महाभारतसञ्ज्ञं च सर्वलोकमनोहरम् ॥४॥
सर्वपापप्रशमनं सर्वशान्तिकरं परम् ॥
यस्य श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥५॥
एकदा स मुनिः श्रीमान्पर्यटन्पृथिवीतले ॥
सम्प्राप्तो नैमिषारण्यं यत्र सन्ति मुनीश्वराः ॥ ६ ॥
अष्टाशीतिसहस्राणि शौनकाद्यास्तपोधनाः ॥.
त्रिपुण्ड्रितमहाभाला लसद्रुद्राक्षमालिनः ॥ ७ ॥
विभूतिधारिणो भक्त्या रुद्रसूक्तजपप्रियान् ॥
लिङ्गाराधनसंसक्ताञ्छिवनामकृतादरान् ॥ ८ ॥
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥
इति ब्रुवाणान्सततं परिनिश्चितमानसान् ॥ ९ ॥
विलोक्य स मुनिर्व्यासस्तासर्वान्गिरिशात्मनः ॥
उत्क्षिप्य तर्जनीमुच्चैः प्रोवाचेदं वचः पुनः ॥ 4.2.95.१० ॥
परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥
इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ॥ ११ ॥
वेदे रामायणे चैव पुराणेषु च भारते ॥
आदिमध्यावसानेषु हरिरेकोऽत्र नापरः ॥ १२ ॥
सत्यं सत्यं त्रिसत्यं पुनः सत्यं न मृषा पुनः ॥
न वेदादपरं शास्त्रं न देवोच्युततः परः ॥ १३ ॥
लक्ष्मीशः सर्वदो नान्यो लक्ष्मीशोप्यपवर्गदः ॥
एक एव हि लक्ष्मीशस्ततो ध्येयो न चापरः ॥ १४ ॥
भुक्तेर्मुक्तेरिहान्यत्र नान्यो दाता जनार्दनात्॥
तस्माच्चतुर्भुजो नित्यं सेवनीयः सुखेप्सुभिः ॥ १५ ॥
विहाय केशवादन्यं ये सेवन्तेल्पमेधसः ॥
संसारचक्रे गहने ते विशन्ति पुनःपुनः ॥ १६ ॥
एक एव हि सर्वेशो हृषीकेशः परात्परः ॥
तं सेवमानः सततं सेव्यस्त्रिजगतां भवेत्॥१७॥
एको धर्मप्रदो विष्णुस्त्वेको बह्वर्थदो हरिः ॥
एकः कामप्रदश्चक्री त्वेको मोक्षप्रदोच्युतः ॥ १८ ॥
शार्ङ्गिणं ये परित्यज्य देवमन्यमुपासते ॥
ते सद्भिश्च बहिष्कार्या वेदहीना यथा द्विजाः ॥ १९ ॥
श्रुत्वेति वाक्यं व्यासस्य नैमिषारण्यवासिनः॥
प्रवेपमानहृदयाः परिप्रोचुरिदं वचः ॥ 4.2.95.२० ॥
॥ ऋषय ऊचुः ॥ ॥
पाराशर्य मुने मान्यस्त्वमस्माकं महामते ॥
यतो वेदास्त्वया व्यस्ताः पुराणान्यपि वेत्ति यत् ॥ २१ ॥
यतश्च कर्ता त्वमसि महतो भारतस्य वै ॥
धर्मार्थकाममोक्षाणां विनिश्चयकृतो ध्रुवम् ॥ २२ ॥
तत्त्वज्ञः कोपरश्चात्र त्वत्तः सत्यवतीसुत॥
भवता यत्प्रतिज्ञातं निश्चित्योक्षिप्यतर्जनीम् ॥ २३ ॥
अस्मिन्माणवकास्तत्र परिश्रद्दधते नहि ॥
प्रतिज्ञा तस्य वचसस्तव श्रद्धा भवेत्तदा ॥२४॥
यदाऽऽनन्दवने शम्भोः प्रतिजानासि वै वचः ॥२५॥
गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः स्वयम् ॥
न तत्र युगधर्मोस्ति न च लग्ना वसुन्धरा ॥२६॥
इति श्रुत्वा मुनिर्व्यासः किञ्चित्कुपितवद्धृदि ॥
जगाम तूर्णं सहितः स्वशिष्यैरयुतोन्मितैः ॥ २७ ॥
प्राप्य वाराणसीं व्यासः स्नात्वा पञ्चनदे ह्रदे ॥
श्रीमन्माधवमभ्यर्च्य ययौ पादोदकं ततः ॥ २८ ॥
तत्र स्नानादिकं कृत्वा दृष्ट्वा चैवादिकेशवम् ॥
पञ्चरात्रं ततः कृत्वा वैष्णवैरभिनन्दितः ॥ २९ ॥
अग्रतः पृष्ठतः शङ्खैर्वाद्यमानैः प्रमोदितः ॥
जयविष्णो हृषीकेश गोविन्द मधुसूदन ॥ 4.2.95.३० ॥
अच्युतानन्तवैकुण्ठ माधवोपेन्द्रकेशव ॥
त्रिविक्रम गदापाणे शार्ङ्गपाणे जनार्दन ॥ ३१ ॥
श्रीवत्सवक्षः श्रीकान्त पीताम्बर मुरान्तक ॥
कैटभारे बलिध्वंसिन्कंसारे केशिसूदन ॥ ॥ ३२ ॥
नारायणासुररिपो कृष्ण शौरे चतुर्भुज ॥
देवकीहृदयानन्द यशोदानन्दवर्धन ॥ ३३ ॥
पुण्डरीकाक्ष दैत्यारे दामोदर बलप्रिय ॥
बलारातिस्तुत हरे वासुदेव वसुप्रद ॥ ३४ ॥
विष्वक्चमूस्तार्क्ष्य रथवनमालिन्नरोत्तम ॥
अधोक्षज क्षमाधार पद्मनाभ जलेशय ॥३५॥
नृसिम्ह यज्ञवाराह गोपगोपालवल्लभ ॥
गोपीपते गुणातीत गरुडध्वज गोत्रभृत् ॥ ३६ ॥
जय चाणूरमथन जय त्रैलोक्यरक्षण ॥
जयानाद्य जयानन्द जय नीलोत्पलद्युते ॥ ३७ ॥
कौस्तुभोद्भूषितोरस्क पूतनाधातुशोषण ॥
रक्षरक्ष जगद्रक्षामणे नरकहारक ॥ ३८ ॥
सहस्रशीर्षपुरुष पुरुहूत सुखप्रद ॥
यद्भूतं यच्च भाव्यं वै तत्रैकः पुरुषो भवान् ॥ ३९ ॥
इत्यादि नाममालाभिः संस्तुवन्वनमालिनम् ॥
स्वच्छन्दलीलया गायन्नृत्यंश्च परया मुदा ॥ 4.2.95.४० ॥
व्यासो विश्वेशभवनं समायातः सुहृष्टवत् ॥
ज्ञानवापी पुरोभागे महाभागवतैः सह ॥ ४१ ॥
विराजमानसत्कण्ठस्तुलसीवरदामभिः ॥
स्वयं तालधरो जातः स्वयं जातः सुनर्तकः ॥४२॥
वेणुवादनतत्त्वज्ञः स्वयं श्रुतिधरोभवत् ॥
नृत्यं परिसमाप्येत्थं व्यासः सत्यवतीसुतः ॥ ४३ ॥
पुनरूर्ध्वभुजं कृत्वा दक्षिणं शिष्यमध्यगः ॥
पुनः पपाठ तानेव श्लोकान्गायन्निवोच्चकैः ॥ ४४ ॥
परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥
इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ॥ ४५ ॥
इत्यादि श्लोकसङ्घातं स्वप्रतिज्ञा प्रबोधकम्॥
यावत्पठति स व्यासः सव्यमुत्क्षिप्य वै भुजम् ॥ ४६ ॥
तस्तम्भ तावत्तद्बाहुं स शैलादिः स्वलीलया ॥
वाक्स्तम्भश्चापि तस्यासीन्मुनेर्व्यासस्य सन्मुनेः ॥ ४७ ॥
ततो गुप्तं समागम्य विष्णुर्व्यासमभाषत ॥
अपराद्धं महच्चात्र भवता व्यास निश्चितम् ॥ ४८ ॥
तवैतदपराधेन भीतिर्मेपि महत्तरा ॥
एक एव हि विश्वेशो द्वितीयो नास्ति कश्चन ॥ ४९ ॥
तत्प्रसादादहं चक्री लक्ष्मीशस्तत्प्रभावतः ॥
त्रैलोक्यरक्षासामर्थ्यं दत्तं तेनैव शम्भुना ॥4.2.95.५०॥
तद्भक्त्या परमैश्वर्यं मया लब्धं वरात्ततः ॥
इदानीं स्तुहि तं शम्भुं यदि मे शुभमिच्छसि ॥५१॥
अन्यदापि न वै कार्या भवता शेमुषीदृशी ॥
पाराशर्य इति श्रुत्वा सञ्ज्ञया व्याजहार ह ॥५२॥
भुजस्तम्भः कृतस्तेन नन्दिना दृष्टिमात्रतः ॥
वाक्स्तम्भस्तद्भयाज्जातः स्पृश मे कण्ठकन्दलीम्॥ ५३ ॥
यथा स्तोतुं भवानीश प्रभवाभि भवान्तकम ॥
संस्पृश्य विष्णुस्तत्कण्ठं गुप्तमेव जगाम ह ॥५४॥
ततः सत्यवतीसूनुस्तथा स्तम्भितदोर्लतः॥
प्रारब्धवान्महेशानं परितुष्टोतुमुदारधीः ॥ ॥ ५५ ॥
॥ व्यास उवाच ॥ ॥
एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किञ्चित् ॥
यद्यप्यन्यः कोपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ॥ २६ ॥
यः क्षीराब्धेर्मन्दराघातजातो ज्वालामाली कालकूटोति भीमः ॥
तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः ॥ ५७ ॥
यद्वाणोभूच्छ्रीपतिर्यस्य यन्ता लोकेशो यत्स्यन्दनं भूः समस्ता ॥
वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः ॥ ५८ ॥
यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि ॥
पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोन्यः ॥ ५९ ॥
यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी ॥
तं देवेशं मादृशः कोल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम् ॥ 4.2.95.६० ॥
यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ॥
नो यस्यादिर्यः समस्तादिरेको नो यस्यान्तो योन्तकृत्तं नतोस्मि ॥ ६१ ॥
यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेन्द्रलक्ष्मीः ॥
यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा ॥६२॥
नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शम्भोर्ऋतेऽहम् ॥
नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न ॥ ६३ ॥
इत्थं यावत्स्तौति शम्भुं महर्षिस्तावन्नन्दी शाम्भवाद्दृक्प्रसादात् ॥
तद्दोः स्तम्भं त्यक्तवांश्चाबभाषे स्मायंस्मायं ब्राह्मणेभ्यो नमो वः ॥ ६४ ॥
नन्दिकेश्वर उवाच ॥
इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् ॥
यः पठिष्यति मेधावी तस्य तुष्यति शङ्करः ॥६५॥
व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः ॥
दुःस्वप्नपापशमनं शिवसान्निध्यकारकम् ॥ ६६ ॥
मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा ॥
सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात् ॥ ६७ ॥
स्कन्द उवाच ॥ ॥
पाराशर्यस्तदारभ्य शम्भुभक्तिपरोभवत् ॥
लिङ्गं व्यासेश्वरं स्थाप्य घण्टाकर्ण ह्रदाग्रतः ॥६८॥
विभूतिभूषणो नित्यं नित्यरुद्राक्षभूषणः ॥
रुद्रसूक्तपरो नित्यं नित्यं लिङ्गार्चकोभवत् ॥ ६९ ॥
स कृत्वा क्षेत्रसन्न्यासं त्यजेन्नाद्यापि काशिकाम् ॥
तत्त्वं क्षेत्रस्य विज्ञाय निर्वाणपददायिनः ॥ 4.2.95.७० ॥
घण्टाकर्णह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं नरः ॥
यत्रकुत्र मृतो वापि वाराणस्यां मृतो भवेत् ॥ ७१ ॥
काश्यां व्यासेश्वरं लिङ्गं पूजयित्वा नरोत्तमः ॥
न ज्ञानाद्भ्रश्यते क्वापि पातकैर्नाभिभूयते ॥ ७२ ॥
व्यासेश्वरस्य ये भक्ता न तेषां कलिकालतः ॥
न पापतो भयं क्वापि न च क्षेत्रोपसर्गतः ॥ ७३ ॥
व्यासेश्वरः प्रयत्नेन द्रष्टव्यः काशिवासिभिः ॥
घण्टाकर्णकृतस्नानैः क्षेत्रपातकभीरुभिः ॥ ७४ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे व्यासभुजस्तम्भोनाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥