॥ स्कन्द उवाच ॥ ॥
अन्यान्यपि च लिङ्गानि कथयामि महामुने ॥
अमृतेशमुखादीनि यन्नामाप्यमृतप्रदम् ॥ १ ॥
पुरा सनारु नामासीन्मुनिरत्र गृहाश्रमी ॥
ब्रह्मयज्ञरतो नित्यं नित्यं चातिथिदैवतः ॥ २ ॥
लिङ्गपूजारतो नित्यं नित्यं तीर्थाप्रतिग्रही ॥
तस्यर्षेरभवत्पुत्रः सनारोरुपजङ्घनिः ॥३॥
स कदाचिद्गतोरण्यं तत्र दष्टः पृदाकुना ॥
अथ तत्स वयोभिश्च स आनीतः स्वमाश्रमम् ॥ ४ ॥
सनारुणा समुच्छ्वस्य नीतः स उपजङ्घनिः ॥
महाश्मशानभूभागं स्वर्गद्वारसमीपतः ॥ ५ ॥
तत्रासीच्छ्रीफलाकारं लिङ्गमेकं सुगुप्तवत् ॥
निधाय तत्र तं यावच्छवं सञ्चिन्तयेत्सुधीः ॥ ६ ॥
सर्पदष्टस्य संस्कारः कथं भवति चेति वै ॥
तावत्स जीवन्नुत्तस्थौ सुप्तवच्चौपजङ्घनिः ॥ ७ ॥
अथ तं वीक्ष्य स मुनिः सनारुरुपजङ्घनिम् ॥
पुनः प्राणितसम्पन्नं विस्मयं प्राप्तवान्परम् ॥ ८ ॥
प्राणितव्येऽत्र को हेतुर्मच्छिशोरुपजङ्घनेः ॥
क्षेत्राद्बहिरहिर्यं हि दष्टा नैषीत्परासु ताम् ॥ ९ ॥
इति यावत्स सन्धत्ते धियं तज्जीवितैकिकाम्॥
तावत्पिपीलिका त्वेका मृतं क्वापि पिपीलिकम् ॥ 4.2.94.१० ॥
आनिनाय च तत्रैव सोप्य नन्निर्गतस्ततः ॥
अथ विज्ञाय स मुनिस्तत्त्वं जीवितसूचितम्॥ ११ ॥
मृदु हस्ततलेनैव यावत्खनति वै मुनिः ॥
तावच्छ्रीफलमात्रं हि लिङ्गं तेन समीक्षितम् ॥ १२ ॥
सनारुणाथ तल्लिङ्गं तेन तत्र समर्चितम् ॥
चिरकालीन लिङ्गस्य कृतं नामापि सान्वयम् ॥ १३ ॥
अमृतेश्वरनामेदं लिङ्गमानन्दकानने ॥
एतल्लिङ्गस्य संस्पर्शादमृतत्वं लभेद्ध्रुवम् ॥ १४ ॥
अमृतेशं समभ्यर्च्य जीवत्पुत्रः स वै मुनिः॥
स्वास्पदं समनुप्राप्तो दृष्टआश्चर्यवज्जनैः ॥ १५ ॥
तदाप्रभृति तल्लिङ्गममृतेशं मुनीश्वर ॥
काश्यां सिद्धिप्रदं नृणां कलौ गुप्तं भवेत्पुनः ॥ १६ ॥
अमृतेश्वर संस्पर्शान्मृता जीवन्ति तत्क्षणात् ॥
अमृतत्वं भजन्तेऽत्र जीवन्तः स्पर्शमात्रतः ॥ ३७ ॥
अमृतेश समं लिङ्गं नास्ति क्वापि महीतले॥
तल्लिङ्गं शम्भुना तिष्ये कृतं गुप्तं प्रयत्नतः ॥ १८ ॥
अमृतेश्वर नामापि ये काश्यां परिगृह्णते ॥
न तेषामुपसर्गोत्थं भयं क्वापि भविष्यति॥१९॥
मुनेऽन्यच्च महालिङ्गं करुणेश्वरसञ्ज्ञितम्॥
मोक्षद्वार समीपे तु मोक्षद्वारेश्वराग्रतः ॥4.2.94.२०॥
दर्शनात्तस्य लिङ्गस्य महाकारुणिकस्य वै ॥
न क्षेत्रान्निर्गमो जातु बहिर्भवति कस्यचित् ॥ २१ ॥
स्नातव्यं मणिकर्ण्यां च द्रष्टव्यः करुणेश्वरः ॥
क्षेत्रोपसर्गजा भीतिर्हातव्या परया मुदा ॥ २२ ॥
सोमवासरमासाद्य एकभक्तव्रतं चरेत् ॥
यष्टव्यः करुणापुष्पैर्व्रतिना करुणेश्वरः ॥ २३ ॥
तेन व्रतेन सन्तुष्टः करुणेशः कदाचन ॥
न तं क्षेत्राद्बहिः कुर्यात्तस्मात्कार्यं व्रतं त्विदम् ॥ २४ ॥
तत्पत्रैस्तत्फलैर्वापि सम्पूज्यः करुणेश्वरः ॥
यो न जानाति तल्लिङ्गं सम्यग्ज्ञानविवर्जितः ॥ २५ ॥
तेनार्च्यः करुणावृक्षो देवेशः प्रीयतामिति ॥
यो वर्षं सोमवारस्य व्रतं कुर्यादिति द्विजः ॥ २६ ॥
प्रसन्नः करुणेशोत्र तस्य दास्यति वाञ्छितम् ॥
द्रष्टव्यः करुणेशोत्र काश्यां यत्नेन मानवैः ॥ २७ ॥
इति ते करुणेशस्य महिमोक्तो महत्तरः ॥
यं श्रुत्वा नोपसर्गोत्थं भयं काश्यां भविष्यति ॥ २८ ॥
मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा ॥
उभौ काश्यां नरो दृष्ट्वा स्वर्गं मोक्षं च विन्दति ॥ २९ ॥
ज्योतीरूपेश्वरं लिङ्गं काश्यामन्यत्प्रकाशते ॥
तस्य सम्पूजनाद्भक्ता ज्योतीरूपा भवन्ति हि ॥ 4.2.94.३० ॥
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम् ॥
समभ्यर्च्याप्नुयान्मर्त्यो ज्योतीरूपं न संशयः ॥ ३१ ॥
यदा भागीरथी गङ्गा तत्र प्राप्ता सरिद्वरा ॥
तदारभ्यार्चयेन्नित्यं तल्लिङ्गं स्वर्धुनी मुदा ॥ ३२ ॥
पुरा विष्णौ तपत्यत्र तल्लिङ्गं स्वयमेव हि ॥
तत्राविरासीत्तेजस्वि तेन क्षेत्रमिदं शुभम् ॥ ३३ ॥
चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा ॥
दूरस्थोपीह यो ध्यायेत्तस्य सिद्धिरदूरतः॥३४॥
एतेष्वपि च लिङ्गेषु चतुर्दशसु सत्तम॥
लिङ्गाष्टकं महावीर्यं कर्मबीजदवानलम् ॥ ३५ ॥
ओङ्कारादीनि लिङ्गानि यान्युक्तानि चतुर्दश ॥
तथा दक्षेश्वरादीनि लिङ्गान्यष्टौ महान्ति च ॥३६॥
शैलैशादीनि लिङ्गानि तथा यानि चतुर्दश ॥
पुनः षट्त्रिंशदेतानि क्षेत्रसंसिद्धि हेतवे ॥ ३७ ॥
षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः ॥
अस्मिन्क्षेत्रे वसन्नित्यं तारकं ज्ञानमादिशेत् ॥ ३८ ॥
क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिङ्गरूप्यहो ॥
एतेषां भजनात्पुंसां न भवेद्दुर्गतिः क्वचित् ॥३९॥
मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम्॥
एतल्लिङ्गप्रभावाच्च मुक्तिरत्र सुनिश्चिता ॥ 4.2.94.४० ॥
मोक्षक्षेत्रमिन्दं काशी लिङ्गैरेतैर्मेहामते ॥
एतान्यन्यानि सिद्धानि सम्भवन्ति युगेयुगे ॥ ४१ ॥
आनन्दकाननं शम्भोः क्षेत्रमेतदनादिमत्॥
अत्र संस्थितिमापन्ना मुक्ता एव न संशयः ॥ ४२ ॥
योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि ॥
व्रतसिद्धिर्मन्त्रसिद्धिस्तीर्थसिद्धिः सुनिश्चितम् ॥ ४३ ॥
सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम् ॥
तज्जन्मभूमिरेषैव शम्भोरानन्दवाटिका ॥४४॥
निर्वाणलक्ष्म्याः सदनमेतदानन्दकाननम् ॥
एतत्प्राप्य न मोक्तव्यं पुण्यैः संसारभीरुणा ॥ ४५ ॥
अयमेव महालाभ इदमेव परं तपः ॥
एतदेव महत्पुण्यं लब्धा वाराणसीह यत् ॥ ॥ ४६ ॥
अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति ॥
कर्मानुसारिणी लभ्या गतिः पश्चाच्छुभाशुभा ॥ ४७ ॥
मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम् ॥
अवश्यं काशिका सेव्या सर्वकर्मनिवारिणी ॥ ४८ ॥
मानुष्यं प्राप्य यं मूढा निमेषमितजीवितम् ॥
न सेवन्ते पुरीं काशीं ते मुष्टा मन्दबुद्धयः ॥ ४९ ॥
दुर्लभं जन्म मानुष्यं दुर्लभा काशिकापुरी ॥
उभयोः सङ्गमासाद्य मुक्ता एव न संशयः ॥ 4.2.94.५० ॥
क्व च तादृक्तपांसीह क्व तादृग्योग उत्तमः ॥
यादृग्भिः प्राप्यते मुक्तिः काश्यां मोक्षोत्तमोत्तमः ॥ ५१ ॥
सत्यं सत्यं पुनः सत्यं सत्यपूर्वं पुनःपुनः ॥
न काशी सदृशी मुक्त्यै भूमिरन्या महीतले॥ ५२ ॥
विश्वेशो मुक्तिदो नित्यं मुक्त्यै चोत्तरवाहिनी ॥
आनन्दकानने मुक्तिर्मुक्तिर्नान्यत्र कुत्रचित् ॥ ५३ ॥
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥
स एव काशीं प्रापय्य मुक्तिं यच्छति नान्यतः ॥ ५४ ॥
सायुज्यमुक्तिरत्रैव सान्निध्यादिरथान्यतः ॥
सुलभा सापि नो नूनं काश्यां मोक्षोस्ति हेलया ॥५५॥
॥ स्कन्द उवाच ॥ ॥
शृण्वगस्त्य महाभाग भविष्यं कथयाम्यहम् ॥
कृष्णद्वैपायनो व्यासोऽकथयद्यन्महद्वचः ॥
निश्चिकेतुमनाः पश्चाद्यत्करिष्यति तच्छृणु ॥५६॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धेऽमृतेशादिलिङ्गप्रादुर्भावोनाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥