०९३ सतीश्वरप्रादुर्भावः

॥ अगस्त्य उवाच ॥ ॥
नर्मदेशस्य माहात्म्यं श्रुतं कल्मषनाशनम् ॥
इदानीं कथय स्कन्द सतीश्वर समुद्भवम् ॥ १ ॥
स्कन्द उवाच ॥ ॥
मित्रावरुणसम्भूत कथयामि कथां शृणु ॥ यथा सतीश्वरं लिङ्गं काश्यामाविर्बभूव ह ॥ २ ॥
पुरा तताप सुमहत्तपः शतधृतिर्मुने ॥
तपसा तेन देवेशः सन्तुष्टो वरदोऽभवत् ॥ ३ ॥
उवाच चापि ब्रह्माणं नितरां ब्राह्मणप्रियः ॥
सर्वज्ञनाथो लोकात्मा वरं वरय लोककृत् ॥ ४ ॥
॥ ब्रह्मोवाच ॥ ॥
यदि प्रसन्नो देवेश वरं दास्यसि वाञ्छितम् ॥
तदा त्वं मे भव सुतो देवी दक्षसुताऽस्तु च ॥ ५ ॥
इति श्रुत्वा महादेवः सर्वदो ब्रह्मणो वरम् ॥
स्मित्वा देवीमुखं वीक्ष्य प्रोवाच चतुराननम् ॥ ६ ॥
ब्रह्मंस्त्वद्वाञ्छितं भूयात्किमदेयं पितामह ॥
इत्युक्त्वा ब्रह्मणो भालादाविरासीच्छशाङ्कभृत् ॥ ७ ॥
रुदन्स उत्तानशयो ब्रह्मणो मुखमैक्षत ॥
ततो ब्रह्मापि तं बालं रुदन्तं प्रविलोक्य च ॥ ८ ॥
किं मां जनकमाप्यापि त्वं रोदिषि मुहुर्मुहुः ॥
श्रुत्वेति पृथुकः प्राह यथोक्तं परमेष्ठिना ॥ ९ ॥
नाम्ने रोदिमि मे स्रष्टुर्नाम देहि पितामह ॥
रोदनाद्रुद्र इत्याख्यां समाया डिम्भको लभत् ॥4.2.93.१०॥
॥ अगस्त्य उवाच ॥ ॥
अर्भकत्वं गतोपीशः किं रुरोद षडानन ॥
यदि वेत्सि तदाचक्ष्व महत्कौतूहलं हि मे ॥ ११ ॥
॥ स्कन्द उवाच ॥ ॥
सर्वज्ञस्य कुमारत्वात्किञ्चित्किञ्चिदवैम्यहम् ॥
रोदने कारणं वच्मि शृणु कुम्भसमुद्भव ॥ १२ ॥
मनसीति विचारोभूद्देवस्य परमात्मनः ॥
बुद्धिवैभवमस्याहो वीक्षितुं परमेष्ठिनः ॥१३॥
सत्यलोकाधिनाथस्य चतुरास्यस्य वेधसः ॥
इत्यानन्दात्समुद्भूतो वाष्पपूरो महेशितुः ॥१४॥
॥ अगस्त्य उवाच ॥ ॥
किं बुद्धिवैभवं धातुः शम्भुना मनसीक्षितम् ।
येनानन्दाश्रु सम्भारो बाल्येप्यभवदीशितुः ॥१५॥
एतत्कथय मे प्राज्ञ सर्वज्ञानन्दवर्धन ॥
श्रुत्वागस्त्युदितं वाक्यं तारकारिरुवाच ह ॥१६॥
देवे न मनसि ध्यातमिति कुम्भजने मुने ॥
विनापत्यं जनेतारं क उद्धर्तुमिह प्रभुः ॥ १७ ॥
एको मनोरथश्चायं द्वितीयोयं सुनिश्चितम् ॥
अपत्यत्वं गते चास्मिन्स्मर्तुरुत्पत्तिहारिणि ॥ १८ ॥
क्षणङ्क्षणं समालोक्यमङ्गस्पर्शे क्षणङ्क्षणम् ॥
एकशय्यासनाहारं लप्स्यतेऽनेन क्षणेक्षणे !। १९ ॥
योयं न गोचरः क्वापि वाणीमनसयोरपि ॥
स मेऽपत्यत्वमासाद्य किं न दास्यति चिन्तितम् ॥ 4.2.93.२० ॥
योऽमुं सकृत्स्पृशेज्जन्तुर्योमुं पश्येत्सकृन्मुदा ।
न स भूयोभिजायेत भवेच्चानन्दमेदुरः ॥ २१ ॥
गृहक्रीडनकं मे सौ यदि भूयात्कथञ्चन ॥
तदापरस्य सौख्यस्य निधानं स्यामसंशयम् ॥ २२ ॥
विधेः समीहितं चेति नूनं ज्ञात्वा स सर्ववित् ॥
आनन्दवाष्पकलितं चक्षुस्त्रयमदीधरत् ॥ २३ ॥
श्रुत्वैत्यगस्तिः स्कन्दस्य भाषितं पर्यमूमुदत् ॥
ननाम चाङ्घ्री प्रोवाच जयसर्वज्ञनन्दन ॥ २४ ॥
विधेरपि मनोज्ञातं शम्भोरपि मनोगतम् ॥
सम्यक्चित्तं त्वया ज्ञातं नमस्तुभ्यं चिदात्मने ॥ २५ ॥
स्कन्दोपि नितरां तुष्टःश्रोतुरानन्ददर्शनात् ॥
धन्योस्यगस्त्य धन्योसि श्रोतुं जानासि तत्त्वतः ॥ २६ ॥
न मे श्रमो वृथा जातो ब्रुवतस्ते पुरः कथाम् ॥
इत्यगस्तिं समाभाष्य पुनः प्राह षडाननः ॥ २७ ॥
देवे रुद्रत्वमापन्ने देवी दक्षसुताभवत् ॥
सापि तप्त्वा तपस्तीव्रं सती काश्यां वरार्थिनी ॥ २८ ॥
ददर्श लिङ्गरूपेण प्रादुर्भूतं हरं पुरः ॥
अलं तप्त्वा महादेवि प्रोक्तवन्तमिति स्फुटम् ॥ २१ ॥
इदं सतीश्वरं लिङ्गं तव नाम्ना भविष्यति .॥
यथा मनोरथस्तेऽत्र फलितो दक्षकन्यके ॥ 4.2.93.३० ॥
तथैतल्लिङ्गमाराध्यान्यस्यापि हि फलिष्यति ॥
कुमारी प्राप्स्यति पतिं मनसोपि समुच्छ्रितम् ॥ ३१ ॥
एतल्लिङ्गं समाराध्य कुमारोपि वराङ्गनाम् ॥
यस्य यस्य हि यः कामस्तस्य तस्य हि स ध्रुवम् ॥ ३२ ॥
भविष्यति न सन्देहः सतीश्वरसमर्चगात् ॥
सतीश्वरं समभ्यर्च्य यो यो यं यं समीहते ॥ ३३ ॥
तस्य तस्य स स क्षिप्रं भविष्यति मनोरथः ॥ ३४ ॥
इतोष्टमे च दिवसे त्वज्जनेता प्रजापतिः ॥
मह्यं दास्यति कन्यां त्वां सफलस्ते मनोरथः ॥
इत्युक्त्वा देवदेवेशस्तत्रैवान्तर्हितोभवत् ॥ ३५ ॥
सापि स्वभवनं याता सती दाक्षायणी मुदा ॥
पितापि तस्मै प्रादात्तां रुद्राय दिवसेष्टमे ॥ ३६ ॥
॥ स्कन्द उवाव ॥ ॥
इत्थं सतीश्वरं लिङ्गं काश्यां प्रादुरभून्मुने ॥
स्मरणादपि लिङ्गं च दद्यात्सत्त्वगुणं परम् ॥ ३७ ॥
रत्नेशात्पूर्वतो भागे दृष्ट्वा लिङ्गं सतीश्वरम् ॥
मुच्यते पातकैः सद्यः क्रमाज्ज्ञानं च विन्दति ॥ ३८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे सतीश्वरप्रादुर्भावो नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥