॥ स्कन्द उवाच ॥ ॥
नर्मदेशस्य माहात्म्यं कथयामि मुने तव ॥
यस्य स्मरणमात्रेण महापातकसङ्क्षयः ॥ १ ॥
अस्य वाराहकल्पस्य प्रवेशे मुनिपुङ्गवैः ॥
आपृच्छि का सरिच्छ्रेष्ठा वद तां त्वं मृकण्डज ॥२॥
मार्कण्डेय उवाच ॥ ॥
शृणुध्वं मुनयः सर्वे सन्ति नद्यः परःशतम् ॥
सर्वा अप्यघहारिण्यः सर्वा अपि वृषप्रदाः ॥३॥
सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः॥
ततोपि हि महाश्रेष्ठाः सरित्सु सरिदुत्तमाः ॥ ४ ॥
गङ्गा च यमुनाचाथ नर्मदा च सरस्वती ॥
चतुष्टयमिदं पुण्यं धुनीषु मुनिपुङ्गवाः ॥ ५ ॥
ऋग्वेदमूर्तिर्गङ्गा स्याद्यमुना च यजुर्ध्रुवम् ॥
नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती ॥ ६ ॥
गङ्गा सर्वसरिद्योनिः समुद्रस्यापि पूरणी ॥
गङ्गाया न लभेत्साम्यं काचिदत्र सरिद्वरा ॥ ॥ ७ ॥
किन्तु पूर्वं तपस्तप्त्वा रेवया बह्वनेहसम् ॥
वरदानोन्मुखो धाता प्रार्थितश्चेति सत्तम ॥ ८ ॥
गङ्गा साम्यं विधे देहि प्रसन्नोसि यदि प्रभो ॥
ब्रह्मणाथ ततः प्रोक्ता नर्मदा स्मितपूर्वकम् ॥९॥
यदि त्र्यक्षसमत्वं तु लभ्यतेऽन्येन केनचित् ॥
तदा गङ्गासमत्वं च लभ्यते सरितान्यया ॥4.2.92.१०॥
पुरुषोत्तम तुल्यः स्यात्पुरुषोन्यो यदि क्वचित ॥
स्रोतस्विनी तदा साम्यं लभते गङ्गया परा ॥ ११ ॥
यदि गौरी समा नारी क्वचिदन्या भवेदिह ॥
अन्या धुनीह स्वर्धुन्यास्तदा साम्यमुपैष्यति ॥ १२ ॥
यदि काशीपुरी तुल्या भवेदस्या क्वचित्पुरी ॥
तदा स्वर्गतरङ्गिण्याः साम्यमन्या नदी लभेत् ॥ १३ ॥
निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा ॥
धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम् ॥ १४ ॥
सर्वेभ्योपि हि पुण्येभ्यः काश्यां लिङ्गप्रतिष्ठितेः ॥
अपरा न समुद्दिष्टा कैश्चिच्छ्रेयस्करी क्रिया ॥ १५ ॥
अथ सा नर्मदा पुण्या विधिपूर्वां प्रतिष्ठितिम् ॥
व्यधात्पिलिपिलातीर्थे त्रिविषिष्टपसमीपतः ॥ १६ ॥
ततः शम्भुः प्रसन्नोभूऽत्तस्यै नद्यै शुभात्मने ॥
वरं वृणीष्व सुभगे यत्तुभ्यं रोचतेऽनघे ॥ १७ ॥
सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् ॥
किं वरेणेह देवेश भृशं तुच्छेन धूर्जटे ॥ ॥ १८ ॥
निर्द्वन्द्वा त्वत्पदद्वन्द्वे भक्तिरस्तु महेश्वर ॥
श्रुत्वेति नितरां तुष्टो रेवागिरमनुत्तमाम् ॥ १९ ॥
प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् ॥
गृहाण पुण्यनिलये वितरामि वरान्तरम् ॥ 4.2.92.२० ॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे ॥
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम ॥ २१ ॥
अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम् ॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः ॥ २२ ॥
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा ॥
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः ॥ ॥ २३ ॥
अपरं च वरं दद्यां नर्मदे दर्शनाघहे ॥
भवत्या स्थापितं लिङ्गं नर्मदेश्वरसञ्जकम् ॥ २४ ॥
यत्तल्लिङ्गं महापुण्यं मुक्तिं दास्यति शाश्वतीम ॥
अस्य लिङ्गस्य ये भक्तास्तान्दृष्ट्वा सूर्यनन्दनः ॥ २५ ॥
प्रणमिष्यन्ति यत्नेन महाश्रेयोभिवृद्धये ॥
सन्ति लिङ्गान्यनेकानि काश्यां देवि पदेपदे ॥ २६ ॥
परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः ॥
इत्युक्त्वा देवदेवेशस्तस्मिल्ँलिङ्गे लयं ययौ ॥ २७ ॥
नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम् ॥
स्वदेशं च परिप्राप्ता दृष्टमात्राघहारिणी ॥ २८ ॥
वाक्यं मृकण्डजमुनेस्तेपि श्रुत्वा मुनीश्वराः ॥
प्रहृष्टचेतसो जाताश्चक्रुः स्वं स्वं ततो हितम् ॥ २९ ॥
॥ स्कन्द उवाच ॥ ॥
नर्मदेशस्य माहात्म्यं श्रुत्वा भक्तियुतो नरः ॥
पापकञ्चुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम् ॥ 4.2.92.३० ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे नर्मदेश्वराख्यानं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥