०९१ गङ्गेश्वरमहिमाख्यानम्

॥ स्कन्द उवाच ॥ ॥
पार्वतीशस्य महिमा कथितस्ते मयानघ ॥
मुने निशामयेदानीं गङ्गेश्वरसमुद्भवम् ॥ १ ॥
यं श्रुत्वा यत्रकुत्रापि गङ्गास्नानफलं लभेत् ॥
चक्रपुष्करिणीतीर्थं यदा गङ्गा समागता ॥ ॥ २ ॥
तेन दैलीपिना सार्धमस्मिन्नानन्दकानने ॥
क्षेत्रप्रभावमतुलं ज्ञात्वा शम्भुपरिग्रहात् ॥ ३ ॥
स्मृत्वा लिङ्गप्रतिष्ठायाः काश्यां लोकोत्तरं फलम् ॥
गङ्गया स्थापितं लिङ्गं विश्वेशात्पूर्वतः शुभम्॥ ४॥
गङ्गेश्वरस्य लिङ्गस्य काश्यां दृष्टिः सुदुर्लभा ॥
तिथौ दशहरायां च यो गङ्गेशं समर्चयेत् ॥ ५ ॥
तस्य जन्मसहस्रस्य पापं सङ्क्षीयते क्षणात् ॥
कलौ गङ्गेश्वरं लिङ्गं गुप्तप्रायं भविष्यति ॥ ६ ॥
तस्य सन्दर्शनं पुंसां जायते पुण्यहेतवे ॥
दृष्टं गङ्गेश्वरं लिङ्गं येन काश्यां सुदुर्लभम् ॥ ७॥
प्रत्यक्षरूपिणी गङ्गा तेन दृष्टा न संशयः ॥
कलौ सुदुर्लभा गङ्गा सर्वकल्मषहारिणी ॥ ८ ॥
भविष्यति न सन्देहो मित्रावरुणनन्दन॥
ततोपि तिष्ये सम्प्राप्ते काश्यत्यन्तं सुदुर्लभा ॥ ९ ॥
ततोपि दुर्लभं काश्यां लिङ्गं गङ्गेश्वराभिधम् ॥
यस्य सन्दर्शनं पुंसां भवेत्पापक्षयाय वै ॥ 4.2.91.१० ॥
श्रुत्वा गङ्गेश माहात्म्यं न नरो निरयी भवेत् ॥
लभेच्च पुण्यसम्भारं चिन्तितं चाधिगच्छति ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखण्ड उत्तरार्धे गङ्गेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः ॥ ९१ ॥