०९० पार्वतीशवर्णनम्

अगस्त्य उवाच ॥ ॥
पार्वतीहृदयानन्द पार्वतीश समुद्भवम् ॥
कथयेह यदुद्दिष्टं भवता प्रागघापहम् ॥ १ ॥
॥ स्कन्द उवाच ॥
शृण्वगस्ते यदा मेना हिमाचलपतिव्रता ॥
गिरीन्द्रजां सुतामाह पुत्रि तेस्य महेशितुः ॥ २ ॥
किं स्थानं वसतिर्वा का को बन्धुर्वेत्सि किञ्चन ॥
प्रायो गृहं न जामातुरस्य कोपि च कुत्रचित् ॥ ३ ॥
निशम्येति वचो मातुरतिह्रीणा गिरीन्द्रजा ॥
आसाद्यावसरं शम्भुं नत्वा गौरी व्यजिज्ञपत् ॥ ४ ॥
मया श्वश्रूगृहं कान्त गम्यमद्य विनिश्चितम् ॥
नाथात्र नैव वस्तव्यं नय मां स्वं निकेतनम् ॥ ५ ॥
गिरीन्द्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित् ॥
हित्वा हिमगिरिं प्राप्तो निजमानन्दकाननम् ॥ ६॥
प्राप्यानन्दवनं देवी परमानन्दकारणम्॥
विस्मृत्य पितृसंवासं जाता चानन्दरूपिणी ॥ ७ ॥
अथ विज्ञापयाञ्चक्रे गौरी गिरिशमेकदा ॥
अच्छिन्नानन्दसन्दोहः कुतः क्षेत्रेऽत्र तद्वद ॥ ८ ॥
इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक् ॥
पञ्चक्रोशपरीमाणे क्षेत्रेस्मिन्मुक्तिसद्मनि ॥ ९ ॥
तिलान्तरं न देव्यस्ति विना लिङ्गं हि कुत्रचित् ॥
एकैकं परितो लिङ्गं क्रोशं क्रोशं च यावनिः ॥ 4.2.90.१० ॥
अन्यत्रापि हि सा देवि भवेदानन्दकारणम् ॥
अत्रानन्दवने देवि परमानन्दजन्मनि ॥ ११ ॥
परमानन्दरूपाणि सन्ति लिङ्गान्यनेकशः ॥
चतुर्दशसु लोकेषु कृतिनो ये वसन्ति हि ॥ १२ ॥
तैः स्वनाम्नेह लिङ्गानि कृत्वाऽऽपि कृतकृत्यता ॥
अत्र येन महादेवि लिङ्गं संस्थापितं मम ॥ १३ ॥
वेत्ति तच्छ्रेयसः सङ्ख्यां शेषोपि न विशेषवित् ॥ १४ ॥
परिच्छेदव्यतीतस्यानन्दस्य परकारणम् ॥
अतस्त्विदं परं क्षेत्रं लिर्गैर्भूयोभिरद्रिजे ॥ १५ ॥
निशम्येति महादेवी पुनः पादौ प्रणम्य च ॥
देह्यनुज्ञां महादेव लिङ्गसंस्थापनाय मे॥१६॥
पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता ॥
न तस्याः श्रेयसो हानिः संवर्तेपि कदाचन ॥ १७ ॥
इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः ॥
लिङ्गं संस्थापितं गौर्या महादेव समीपतः ॥ १८ ॥
तल्लिङ्गदर्शनात्पुंसां ब्रह्महत्यादिपातकम् ॥
विलीयेत न सन्देहो देहबन्धोपि नो पुनः ॥ १९ ॥
तत्र लिङ्गे वरो दत्तो देवदेवेन यः पुनः ॥
निशामय मुने तं तु भक्तानां हितकाम्यया ॥ 4.2.90.२० ॥
लिङ्गं यः पार्वतीशाख्यं काश्यां सम्पूजयिष्यति ॥
तद्देहावसितिं प्राप्य काशीलिङ्गं भविष्यति ॥ २१ ॥
काशीलिङ्गत्वमासाद्य मामेवानुप्रवेक्ष्यति ॥
चैत्रशुक्लतृतीयायां पार्वतीशसमर्चनात् ॥ २२ ॥
इह सौभाग्यमाप्नोति परत्र च शुभां गतिम् ॥
पार्वतीश्वरमाराध्य योषिद्वा पुरुषोपि वा ॥ २३ ॥
न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम् ॥
पार्वतीशस्य लिङ्गस्य नामापि परिगृह्णतः ॥२४॥
अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ॥
पार्वतीशस्य माहात्म्यं यः श्रोष्यति नरोत्तमः ॥
ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः ॥ २५ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे पार्वतीशवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥