०८९ दक्षेश्वरप्रादुर्भावः

॥ स्कन्द उवाच ॥
पुनः स नारदोऽगस्त्य देव्याः प्राक्समुपागतः ॥
तद्वृत्तान्तमशेषं च हरायावेदितुं ययौ ॥ १ ॥
दृष्ट्वा स नारदः शम्भुं नन्दिना सह सङ्कथाम् ॥
काञ्चित्तर्जनिविन्यास पूर्वं कुर्वन्तमानमत् ॥ २ ॥
उपाविशच्च शैलादि विसृष्टासनमुत्तमम् ॥
वैलक्ष्यं नाटयन्किञ्चित्क्षणं जोषं समास्थितः ॥३॥
आकारेणैव सर्वज्ञस्तद्वृत्तान्तं विवेद ह॥
अवादीच्च मुनिं शम्भुः कुतो मौनावलम्बनम् ॥ ४ ॥
शरारिणां स्थितिरियमुत्पत्तिप्रलयात्मिका ॥
दिव्यान्यपि शरीराणि कालाद्यान्त्येवमेव हि ॥ ५ ॥
दृश्यं विनश्वरं सर्वं विशेषाद्यदनीश्वरम् ॥
ततोऽत्र चित्रं किं ब्रह्मन्कङ्कालः कालयेन्न वै ॥६॥
अभाविनो हि भावस्य भावः क्वापि न सम्भवेत् ॥
भाविनोपि हि नाभावस्ततो मुह्यन्ति नो बुधाः ॥ ७ ॥
शम्भूदीरितमाकर्ण्य स इत्थं मुनिपुङ्गवः ॥
प्रोक्तवान्सत्यमेवैतद्यद्देवेन प्रभाषितम् ॥ ८ ॥
अवश्यमेव यद्भाव्यं तद्भूतं नात्र संशयः ॥
परं मां बाधतेत्यन्तं चिन्तैका चित्तमाथिनी ॥ ९ ॥
नापचीयेत ते किञ्चिन्नोपचीयेत तत्त्वतः ॥
अव्ययत्वाच्च पूर्णत्वाद्धानिवृद्धी कृतस्त्वयि ॥ 4.2.89.१० ॥
अहो वराकः संसारः क्व भविष्यत्यनीश्वरः ॥
आरभ्याद्यदिनं न त्वामर्चयिष्यन्ति केपि यत् ॥ ११ ॥
यतः प्रजापतिर्दक्षो न त्वामाहूतवान्क्रतौ ॥
तेनाद्यरीढि तं दृष्ट्वा देवर्षिमनुजा अपि॥ १२ ॥
तव रीढां करिष्यन्ति किमैश्वर्येण रीढिनाम् ॥
प्राप्तावहेडना लोके जितकालभया अपि ॥
अथैश्वर्येण सम्पन्नाः प्रतिष्ठाभाजनं किमु ॥ १३ ॥
महीयसायुषा तेषां वसुभिर्भूरिभिश्च किम् ॥
येऽभिमानधनानेह लब्धरीढाः पदेपदे ॥ १४ ॥
अचेतनाश्च सावज्ञा जीवन्तोपि न कीर्तये ॥
अभिमानधना धन्या वरं योषित्सुसासती ॥ १५ ॥
या त्वद्विनिन्दाश्रवणात्तृणीचक्रे स्वजीवितम्॥
इत्याकर्ण्य महाकालः सम्यग्ज्ञात्वा सतीव्ययम् ॥ १६ ॥
सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम् ॥
जोषं स्थिते मुनौ तत्र तन्महाकालसाध्वसात् ॥१७॥
रुद्रश्चातीवरुद्रोभूद्बहुकोपाग्निदीपितः ॥
ततस्तत्कोपजाद्वह्निराविरासीन्महाद्युतिः ॥१८॥
प्रत्यक्षः प्रतिमाकारः कालमृत्युप्रकम्पनः ॥
उवाच च प्रणम्येशं भुशुण्डीं महतीं दधत् ॥१९॥
आज्ञां देहि पितः किं ते करवै दास्यमुत्तमम्॥
ब्रह्माण्डमेककवलं करवाणि त्वदाज्ञया ॥ 4.2.89.२० ॥
पिबामि चार्णवान्सप्ताप्येकेन चुलुकेन वै ॥
रसातलं वा पातालं पातालं वा रसातलम् ॥ २१ ॥
त्वदाज्ञया नयामीश विनिमय्य स्वहेलया ॥
सलोकपालमिन्द्रं वा धृत्वा केशैरिहानये ॥ २२ ॥
अपि वैकुण्ठनाथश्चेत्तत्साहाय्यं करिष्यति ॥
तदा तं कुण्ठितास्त्रं च करिष्यामि त्वदाज्ञया ॥ २३ ॥
दनुजा दितिजाः के वै वरा कारणदुर्बलाः ॥
तेषु चोत्कटतां कोपि धत्ते तं प्रणिहन्म्यहम् ॥ २४ ॥
कालं बध्नामि वा सङ्ख्ये मृत्योर्वा मृत्युमर्थये ॥
स्थावरेषु चरेष्वत्र मयि कुद्धे रणाङ्गणे ॥ २५ ॥
त्वद्बलेन महेशान न कोपि स्थैर्यमेष्यति ॥
ममपादतलाघातादेतद्वै क्षोणिमण्डलम् ॥ २६ ॥
कदलीदलवद्वाताद्वेपते सरसातलम् ॥
चूर्णीकरोमि दोर्दण्डघाताच्चैतान्कुलाचलान् ॥ २७ ॥
किं बहूक्तेन देह्याज्ञां ममासाध्यं न किञ्चन ॥
त्वत्पादबलमासाद्य कृतं विद्ध्यद्यचिन्तितम् ॥ २८ ॥
इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत ॥
कृतकृत्यमिवात्यन्तं तं मुदा प्रत्युवाच च ॥ २९ ॥
महावीरोसि रे भद्र मम सर्वगणेष्विह ॥
वीरभद्राख्यया त्वं हि प्रथितिं परमां व्रज ॥ 4.2.89.३० ॥
कुरु मे सत्वरं कार्यं दक्षयज्ञं क्षयं नय ॥
ये त्वां तत्रावमन्यन्ते तत्साहाय्यविधायिनः ॥ ३१ ॥
ते त्वयाप्यवमन्तव्या व्रज पुत्र शुभोदय ॥
इत्याज्ञां मूर्ध्नि चाधाय स ततः पारमेश्वरीम् ॥ ३२ ॥
हरं प्रदक्षिणीकृत्य जग्मिवानतिरंहसा ॥
ततस्तदनुगाञ्शम्भुः स्वनिःश्वाससमुद्गतान् ॥ ३३ ॥
शतकोटिमितानुग्रान्गणानन्न्यानवासृजत् ॥
ते गणा वीरभद्रं तं यान्तं केचित्पुरोगताः ॥ ३४ ॥
केचित्तदनुगा जाताः केचित्तत्पार्श्वगा ययुः॥
अम्बरं तैः समाक्रान्तं तेजोवीजित भास्करैः ॥ ३५ ॥
शृङ्गाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै ॥
आचूडमूलाः कैश्चिच्च विधता वै शिलोच्चयाः ॥३६॥
उत्पाट्य महतो वृक्षान्केचित्प्राप्ता मखाङ्गणम् ॥
कैश्चिदुत्पाटिता यूपाः केचित्कुण्डान्यपूपुरन् ॥ ३७ ॥
मण्डपं ध्वंसयामासुः केचित्क्रोधोद्धुरागणाः ॥
अचीखनन्वै वेदीश्च केचिद्वै शूलपाणयः ॥
अभक्षयन्हवींष्यन्ये पृषदाज्यं पपुः परे ॥ ३८ ॥
दध्वंसुरन्नराशींश्च केचित्पर्वतसन्निभान् ॥
केचिद्वै पायसाहाराः केचिद्वै क्षीरपायिनः ॥ ॥ ३९ ॥
केचित्पक्वान्नपुष्टाङ्गा यज्ञपात्राण्यचूर्णयन् ॥
अमोटयन्स्रुचादण्डान्केचिद्दोर्दण्डशालिनः ॥ 4.2.89.४०
व्यभजञ्छकटान्केचित्पशून्केचिदजीगिलन् ॥
अग्निं निर्वापयामासुः केचिदत्यग्नितेजसः ॥ ४१ ॥
स्वयं परिदधुश्चान्ये दुकूलानि मुदा युताः ॥
जगृहुः केचन पुरा रत्नानां पर्वतं कृतम् ॥ ४२ ॥
एकेन च भगो देवः पश्यंश्चक्रे विलोचनः ॥
पूष्णो दन्तावलीमन्यः पातयामास कोपितः ॥ ४३ ॥
यज्ञः पलायितो दृष्टः केनचिन्मृगरूपधृक् ॥
शिरोविरहितश्चक्रे तेन चक्रेण दूरतः ॥ ४४ ॥
एकः सरस्वतीं यान्तीं दृष्ट्वा निर्नासिकां व्यधात् ॥
अदितेरोष्ठपुटकौ छिन्नावन्येन कोपिना ॥ ४५ ॥
अर्यम्णो बाहुयुगलं तथोत्पाटितवान्परः॥
अग्नेरुत्पाटयामास कश्चिज्जिह्वां प्रसह्य च ॥४६॥
चिच्छेद वायोर्वृषणं पार्षदोन्यः प्रतापवान् ॥
पाशयित्वा यमं कश्चित्को धर्म इति पृष्टवान् ॥४७॥
यत्र धर्मे महेशो न प्रथमं परिपूज्यते ॥
नैर्ऋतं सङ्गृहीत्वान्यः केशेष्वातो्ल्यचासकृत् ॥४८॥
अनीश्वरं हविर्भुक्तं त्वयेत्या ताडयत्पदा ॥
कुबेरमपरो धृत्वा पादयोरधुनोद्बलात् ॥ ४९ ॥
वामयामास बहुशो भक्षिता ह्यध्वराहुतीः ॥
एकादशाऽपि ये रुद्रा लोकपालैकपङ्क्तयः ॥ 4.2.89.५० ॥
रुद्राख्या धारणवशात्प्रमथैस्तेऽवहेलिताः ॥
वरुणोदरमापीड्य प्रमथोन्यो बलेनहि ॥ ५१ ॥
बहिरुद्गिरयामास यद्दत्तं चेशवर्ज्जितम् ॥
मायूरीं तनुमासाद्य सहस्राक्षो महामतिः ॥ ५२ ॥
उड्डीय गिरिमाश्रित्यच्छन्नः कौतुकमैक्षत ॥
ब्राह्मणान्प्रमथा नत्वा यातयातेतिचाब्रुवन् ॥ ५३ ॥
प्रमथाः कालयामासुरन्यानपि च याचकान् ॥
इत्थं प्रमथिते यागे प्रमथैः प्रथमागतैः ॥
वीरभद्रः स्वतः प्राप्तः प्रमथानीकिनी वृतः ॥५४॥
यज्ञवाटं श्मशानाभं दृष्ट्वा तैः प्रमथैः पुरा ॥
अतिशोच्यां दशां नीतं वीरभद्रस्ततो जगौ ॥ ॥ ५५ ॥
गणाः पश्यत दुर्वृत्तैः प्रारब्धानां च कर्मणाम् ॥
अनीश्वरैरवस्थेयं कुतो द्वेषो महेश्वरे ॥ ५६ ॥
ये द्विषन्ति महादेवं सर्वकर्मैकसाक्षिणम् ॥
धर्मकार्ये प्रवृत्तास्तु ते प्राप्स्यन्तीदृशं दशाम् ॥ ५७ ॥
क्व स दक्षो दुराचारः क्व च यज्ञभुजः सुराः ॥
धृत्वा सर्वानानयत यात द्रुततरं गणाः ॥५८॥
इत्याज्ञा वीरभद्रस्य प्राप्य ते प्रमथा द्रुतम्॥
यावद्यान्त्यग्रतस्तावदृष्टः कुद्धो गदाधरः ॥ ५९ ॥
तेन ते प्रमथाः सर्वे महाबलपराक्रमाः ॥
शुष्कपर्णतृणावस्थां प्रापिता वात्ययेव हि ॥4.2.89.६०॥
अथ नष्टेषु सर्वेषु प्रमथेषु हरेर्भयात् ॥
चुकोप वीरभद्रः स प्रलयानलसन्निभः ॥ ६१ ॥
ददर्श शार्ङ्गिणं चाग्रे स्वगणैश्च परिष्टुतम् ॥
चतुर्भुजैरसङ्ख्यातैर्जितदैत्यमहाबलैः ॥६२॥
चक्रिभिर्गदिभिर्जुष्टं खड्गिभिश्चापि शार्ङ्गिभिः ॥
वीरभद्रस्ततः प्राह दृष्ट्वा तं दैत्यसूदनम् ॥ ६३ ॥
त्वं तु यज्ञपुमानत्र महायज्ञप्रवर्तकः ॥
रक्षिता निजवीर्येण दक्षस्य त्र्यक्षवैरिणः ॥ ६४ ॥
किं वा दक्षं समानीय देहि युध्यस्व वा मया ॥
न दास्यसि च चेद्दक्षं ततस्तं रक्ष यत्नतः ॥ ६५ ॥
प्रायशः शम्भुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः ॥
एकोनेऽब्जसहस्रेप्राग्ददौ नेत्राम्बुजं भवान् ॥ ६६ ॥
तुष्टेन शम्भुना दत्तं तुभ्यं चक्रं सुदर्शनम् ॥
यत्साहाय्यमवाप्याजौ त्वं जयेर्दनुजाधिपान् ॥ ६७ ॥
इत्याकर्ण्य वचस्तस्य वीरभद्रस्य चोर्जितम्॥
जिज्ञासुस्तद्बलं विष्णुर्वीरभद्रमुवाच ह ॥ ६८ ॥
त्वं शम्भोः सुत देशीयो गणानां प्रवरोस्यहो ॥
राजादेशमनुप्राप्य ततोप्यतिबलो महान् ॥ ६९ ॥
योसि सोस्यहमप्यत्र दक्षरक्षणदक्षधीः ॥
पश्यामि तव सामर्थ्यं कथं दक्षं हरिष्यसि ॥ 4.2.89.७० ॥
इत्युक्तो वीरभद्रः स तेन वै शार्ङ्गधन्वना ॥
प्रमथान्दृष्टिभङ्ग्यैव प्रेरयामास सङ्गरे ॥ ७१ ॥
अथ तैः प्रमथैर्विष्णोरनुगा गदिता रणे ॥
आददानास्तृणं वक्त्रे णापिताः पाशवीं दशाम् ॥ ७२ ॥
ततस्तार्क्ष्यरथः क्रुद्धस्त्वेकैकं रणमूर्धनि ॥
सहस्रेणसहस्रेण बाणानां हृद्यताडयत् ॥ ७३ ॥
ते भिन्नवक्षसः सर्वे गणा रुधिरवर्षिणः ॥
वासन्तीं कैंशुकीं शोभां परिप्रापूरणाजिरे ॥ ७४ ॥
क्षरन्त इव मातङ्गाः स्रवन्त इव पर्वताः ॥
मदेन धातुरागेण मिश्रैः शुशुभिरे गणाः ॥ ७५ ॥
ततः प्रहस्य गणपोऽब्रवीद्वै कुण्ठनायकम् ॥
हे शार्ङ्गधन्वञ्जाने त्वां त्वं रणाङ्गण पण्डितः ॥ ७६ ॥
परं युध्यसि दैत्येन्द्रैर्दानवेन्द्रैर्न पार्षदैः ॥
इत्युक्ता वीरभद्रेण भुशुण्डीकलिताकरे ॥७७॥
गदिनाऽथ गदा तूर्णं दैत्येन्द्रगिरिरेणुकृत् ॥
ततः प्रहतवान्वीरो भुशुण्ड्या तं गदाधरम् ॥ ७८ ॥
तदङ्गसङ्गमासाद्य विदद्रे शतधा तया ॥
कौमोदकी प्रहारेण वीरभद्रं प्रतापिनम् ॥ ७९ ॥
जघान वासुदेवोपि तरसाऽज्ञातवेदनम् ॥
ततः खट्वाङ्गमादाय गदाहस्तं गदाधरम् ॥4.2.89.८०॥
आताड्य सव्यदोर्दण्डे गदां भूमावपातयत् ॥
कुपितोयं मधुद्वेषी चक्रेणाताडयच्च तम् ॥ ८१ ॥
स च चक्रं समागच्छद्दृष्ट्वा सस्मार शङ्करम् ॥
शङ्करस्मरणाच्चक्रं मनाग्वक्रत्वमाप्य च ॥
कण्ठमासाद्यवीरस्य सम्यग्जातं सुदर्शनम् ॥८२॥
तेन चक्रेण शुशुभे नितरां स गणेश्वरः ॥
वीरलक्ष्म्यावृत इव समरे विजयस्रजा ॥ ८३ ॥
ततः सुदर्शनं दृष्ट्वा तत्कण्ठाभरणं हरिः ॥
मनाक्स चकितं स्मित्वा ततो जग्राह नन्दकम् ॥ ८४ ॥
सनन्दकं करं तस्य प्रोद्यतं मधुविद्विषः ॥
पश्यतां दिविसिद्धानां स्तम्भयामास हुङ्कृता ॥ ८५ ॥
अभ्यधावच्च वेगेन गृहीत्वा शूलमुज्ज्वलम् ॥
यावज्जिघांसति हरिं तावदाकाशवाचया ॥ ८६ ॥
वारितो गणराजः स मा कार्षीः साहसं त्विति ॥
ततस्तमपहायाशु वीरभद्रो गणोत्तमः ॥ ८७ ॥
प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिन्दकम् ॥
यस्येदृगस्ति सम्पत्तिर्यत्रदेवाः सहायिनः ॥
स कथं सेश्वरं कर्म न कुर्याद्दक्षतान्दधत् ॥ ८८ ॥
येनास्येन पवित्रेण भवता निन्दितः शिवः ॥
चूर्णयामि तदास्यं ते चपेटाभिः समन्ततः ॥८९॥
इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ॥
चिच्छेद वदनं वीरश्चपेटशतघातनैः ॥ ॥ 4.2.89.९० ॥
ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे ॥
त्रोटयामास कर्णादीन्यङ्गप्रत्यङ्गकानि च ॥ ९१ ॥
वेणीदण्डाश्च कासाञ्चित्तेनच्छिन्ना महारुषा ॥
कासाञ्चिच्च कराश्छिन्ना कासाञ्चित्कर्तितास्तनाः ॥ ९२ ॥
नासापुटांस्तथान्यासां पाटयामास पार्षदः ॥
चिच्छेद चाङ्गुलीश्चापि तथान्यासां शिवप्रियः॥ ॥ ९३ ॥
ये ये निनिन्दुर्देवेशं ये ये च शुश्रुवुस्तदा ॥
तेषां जिह्वाश्रुतीः कोपादच्छिनच्चाकरोद्द्विधा ॥ ९४ ॥
केचिदुल्लम्बिता यूपे पाशयित्वा दृढं गले ॥
अधोमुखायै देवेशं विहायात्तं महाहविः ॥ ९५ ॥
द्विजराजश्च धर्मश्च भृगुमारीचिमुख्यकाः ॥
अत्यन्तमपमानस्य भाजनं तेन कारिताः ॥ ९६ ॥
एते जामातरस्तस्य यतो दक्षस्य दुर्धियः ॥
हित्वा महेश्वरममून्सोपश्यदधिकाञ्शिवात् ॥ ९७ ॥
तानि कुण्डानि ते यूपास्ते स्तम्भाः स च मण्डपः ॥
तावेद्यस्तानि पात्राणि तानि हव्यान्यनेकधा ॥ ९८ ॥
ते च वै यज्ञसम्भारास्ते ते यज्ञप्रवर्तकाः ॥
ते रक्षपालास्तेमन्त्रा विनेशुर्हेलयाऽखिलाः ॥ ९९ ॥
स्तोकेनैव हि कालेन यथर्धिः परवञ्चनात् ॥
अर्जिता नश्यति क्षिप्रं दक्षसम्पद्गताऽशिवा ॥4.2.89.१००॥
नीते महाक्रतौ तेन सगणेनेदृशीं दशाम् ॥
विधिर्विधि विलोपाच्च हरं विज्ञाप्य चानयत् ॥१ ॥
तत्र यत्र मखः सोभूदीदृक्षः शिववर्जितः ॥
आयातेथ महादेवे वीरभद्रोतिलज्जितः ॥ २ ॥
नत्वा न किञ्चिदवदद्देवः सर्वमवैत्स्वयम् ॥
प्रसाद्य देवदेवेशं सुरज्येष्ठोऽब्रवीत्पुनः ॥ ३ ॥
अपराध्यप्ययं दक्षः सम्प्रसाद्यः कृषानिधे ॥
यथापूर्वं पुनरमून्सर्वान्कारय शङ्कर ॥ ४ ॥
यथाविधिः प्रवर्तेत वैदिकः पुनरेव हि ॥
तथाज्ञा दीयतां शम्भो कर्मसिद्ध्यति सेश्वरम्॥५ ॥
अनीश्वरासु सर्वासु क्रियासु परमेश्वर ॥
एवमेव भवत्येव विघ्रजाताः सहस्रशः ॥ ६ ॥
विचारतो वराकोयम दक्षो भक्ततरस्तव ॥
कुर्वन्योऽनीश्वरम कर्म परदृष्टान्ततां गतः ॥ ७ ॥
अन्योपि यो महेशानं हित्वा कर्म करिष्यति ॥
तस्य तत्कर्मसंसिद्धिर्दक्षस्येव भविष्यति ॥८॥
अतो न कश्चित्किञ्चिच्च क्वचित्कर्म विना शिवम् ॥
विधास्यति निशम्यास्य दक्षत्येदृक्ष चेष्टितम् ॥९॥
विधीरितमिति श्रुत्वा स्मित्वा देवो महेश्वरः ॥
वीरमाज्ञापयामास यथापूर्वं प्रकल्पय ॥ 4.2.89.११० ॥
वीरभद्रोपि तत्सर्वं शर्वाज्ञां प्रतिपद्य च ॥
विना दक्षस्य वदनं यथापूर्वमकल्पपयत् ॥ ११ ॥
ईश्वरं ये विनिन्दन्ति ते मूकाः पशवो ध्रुवम् ॥
ततो मेषमुखं दक्षं वीरभद्रो गणो व्यधात् ॥ १२ ॥
देवो ब्रह्माणमापृच्छय धर्माद्गार्हस्थ्यतश्च्युतः ॥
सपापं दोहिमप्रस्थं जगाम तपसे ततः ॥ १३ ॥
अनाश्रमवता पुंसा यतः कालो मनागपि ॥
मुधा कलयितव्यो न तस्माच्छ्रेयः सदा श्रम ॥ १४ ॥
अतः स सर्वं तपसां फलदाता महेश्वरः ॥
तपश्चचार सगणो ब्रह्मा दक्षं त्वशिक्षयत् ॥ १५ ॥
हरनिन्दा समुद्भूत पापपङ्कं सुदुस्त्यजम् ॥
यदि क्षालयितुं काङ्क्षा तदा वाराणसीं व्रज ॥ १६ ॥
प्राप्य वाराणसीं पुण्यां महापापौघहारिणीम् ॥
कुरु लिङ्गप्रतिष्ठां त्वं तेन शम्भुः स तुष्यति ॥ १७ ॥
तुष्टे महेश्वरे तुष्टं जगदेतच्चराचरम् ॥
नान्यत्र पापं ते गन्तृ विना वाराणसीं पुरीम् ॥ १८ ॥
ब्रह्महत्यादि पापानां प्रायश्चित्तं मनीषिभिः ॥
प्रोक्तं न हरनिन्दायास्तत्र काश्येव केवलम ।१९॥
काश्यां लिङ्गप्रतिष्ठायैः कृताऽत्र सुकृतात्मभिः ॥
सर्वे धर्माः कृतास्तैस्तु त एव पुरुषार्थिनः ॥ 4.2.89.१२० ॥
इत्याकर्ण्य विधेर्वाक्यं दक्षः प्राप्याथ सत्वरम् ॥
अविमुक्तं महाक्षेत्रं तताप परमं तपः ॥२१॥
संस्थाप्य लिङ्गं विधिवल्लिङ्गाराधनतत्परः ॥
न वेत्ति लिङ्गादपरं स किञ्चिज्जगतीतले ॥ २२ ॥
दिवानिशं महेशानं परिष्टौति समर्चति ॥
नमति ध्यायतीक्षेत दक्षो दक्षप्रजापतिः ॥२३॥
एकचित्तस्य दक्षस्य ध्यायतो लिङ्गमैश्वरम् ॥
समाः सहस्रमगमन्मितं द्वादशसङ्ख्यया ॥।२४॥।
मेनां यावत्सती प्राप्य हिमाचलपतिव्रताम् ॥
उमारूपाति तपसा पतिं प्राप पिनाकिनम् ॥२५॥
तावत्स दक्षस्तपसि निश्चलो लिङ्गमार्चयत् ॥
ततः काशीं समासाद्य सह भर्त्रा गिरीन्द्रजा ॥२६॥
दृष्ट्वा तं निश्चलहृदं शिवलिङ्गार्चने रतम् ॥
हरं व्यजिज्ञपद्देवी क्षीणोयं तपसा विभो ॥ २७ ॥
प्रसादय कृपासिन्धो वरणैनं प्रजापतिम् ॥
इत्युक्तोऽपर्णया शम्भुः प्राह तं दक्षमीशिता ॥ २. ॥
वरं ब्रूहि महाभाग दास्यामि मनसेप्सितम् ॥
इतीशोदितमाकर्ण्य प्रणम्य बहुशो हरम् ॥२९॥
स्तुत्वा नानाविधैः स्तोत्रैः प्रसन्नं वीक्ष्य शङ्करम् ॥
प्रोवाच देवदेवेशं यदि देयो वरो मम ॥ 4.2.89.१३० ॥
तत्त्वदीय पदद्वन्द्वे निर्द्वन्द्वा भक्तिरस्तु मे ॥
इदं च ते महालिङ्गं यन्मयाऽत्र प्रतिष्ठितम् ॥
अस्मिल्ँलिङ्गे त्वया नाथ स्थातव्यं सर्वदैव हि ॥ ३१ ॥ ।
मयापराद्धं यद्देव तत्क्षन्तव्यं कृपानिधे ॥
एत एव वराः सन्तु क्रिमन्यैरुत्तमैर्वरैः ॥३२॥
इति श्रुत्वा महादेवः प्रसन्नोतितरां भवः ॥
प्रोवाच च यदुक्तं ते तत्तथास्तु न चान्यथा ॥ ३३॥
अन्यच्च ते वरं दद्यां तच्छृणुष्व प्रजापते ॥
यत्त्वया स्थापितं लिङ्गमेतद्दक्षेश्वराभिधम् ॥ ३४ ॥
अस्य संसेवनात्पुंसामपराधसहस्रकम्॥
क्षमिष्येहं न सन्देहस्तस्मात्पूज्यमिदं जनैः ॥ ३५ ॥
त्वं तु लिङ्गार्चनादस्मात्सर्वमान्यो भविष्यसि ॥
परार्धद्वितयप्रान्ते ततो मोक्षमवाप्स्यसि ॥ ३६ ॥
इत्युक्त्वा देवदेवेशस्तस्मिल्ँलिङ्गे लयं ययौ ॥
दक्षोपि गतवान्गेहं परिप्राप्तमनोरथः ॥ ३७॥
॥ स्कन्द उवाच ॥ ॥
इत्यगस्त्य समाख्यातो दक्षेश्वरसमुद्भवः ॥
यं श्रुत्वा मुच्यते जन्तुरपराध शतैरपि ॥।३५॥
श्रुत्वाख्यानमिदं पुण्यं दक्षेश्वरसमुद्भवम् ॥
नरो न लिप्यते पापैरपराधालयोपि हि ॥ १३९ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे दक्षेश्वरप्रादुर्भावोनाम नवाशीतितमोऽध्यायः ॥ ८९ ॥ ॥