अगस्त्य उवाच ॥ ॥
शिवलोकं समासाद्य मुनिना ब्रह्मसूनुना ॥
किं चक्रे ब्रूहि षड्वक्त्र कथां कौतुकशालिनीम् ॥ १ ॥
स्कन्द उवाच ॥ ॥
शृणु कुम्भज वक्ष्यामि नारदेन महात्मना ॥
यत्कृतं तत्र गत्वाशु कैलासं शङ्करालयम् ॥ २ ॥
मुनिर्गगनमार्गेण प्राप्य तद्धाम शाम्भवम्॥
दृष्ट्वा शिवौ प्रणम्याथ शिवेन विहितादरः ॥ ३ ॥
तदुद्दिष्टासनं भेजे पश्यंस्तत्क्रीडनं परम्॥
क्रीडन्तौ तौ तु चाक्षाभ्यां यदा न च विरमेतुः ॥ ४ ॥
तदौत्सुक्येन स मुनिः प्रेर्यमाण उवाच ह ॥
॥ नारद उवाच ॥ ॥
देवदेव तव क्रीडाखिलं ब्रह्माण्डगोलकम् ॥
मासा द्वादश ये नाथ ते सारिफलके गृहाः ॥ ५ ॥
कृष्णाः कृष्णेतरा या वै तिथयस्ताश्च सारिकाः ॥
द्विपञ्चदशमासे यास्त्वक्षयुग्मं तथायने ॥ ६ ॥
सृष्टिप्रलय सञ्ज्ञौ द्वौ ग्लहौ जयपराजयौ ॥
देवीजये भवेत्सृष्टिरसृष्टिर्धूर्जटेर्जये ॥ ७ ॥
भवतोः खेलसमयो यः सा स्थितिरुदाहृता॥
इत्थं क्रीडैव सकलमेतद्ब्रह्माण्डमीशयोः ॥ ८ ॥
न देवी जेष्यति पतिं नेशः शक्तिं विजेष्यति ॥
किञ्चिद्विज्ञप्तुकामोस्मि तन्मातरवधार्यताम् ॥ ९ ॥
देवः सर्वज्ञनाथोपि न किञ्चिदवबुध्यति ॥
मानापमानयोर्यस्मादसौ दूरे व्यवस्थितः ॥ 4.2.88.१० ॥
लीलात्मा गुणवानेष विचारादतिनिर्गुणः ॥
कुर्वन्नपि हि कर्माणि बाध्यते नैव कर्मभिः ॥ ११ ॥
मध्यस्थोपि हि सर्वस्य माध्यस्थ्यमवलम्बतै ॥
सर्वत्रायं महेशानो मित्राऽमित्रसमानदृक् ॥ १२ ॥
त्वं शक्तिरस्य देवस्य सर्वेषां मान्यभूः परा ॥
दक्षस्यापि त्वया मानो दत्तो पत्यनिमित्तकः ॥ १३ ॥
परं त्वं सर्वजगतां जनयित्र्येकिका ध्रुवम् ॥
त्वत्त आविर्भवन्त्येव धातृकेशववासवाः॥ ॥ १४ ॥
त्वमात्मानं न जानासि त्र्यक्षमायाविमोहिता ॥
अतएव हि मे चित्तं दुनोत्यतितरां सति ॥ १५ ॥
अन्या अपि हि याः सत्यः पातिव्रत्यपरायणाः ॥
ता भर्तृचरणौ हित्वा किञ्चिदन्यन्न मन्वते ॥ १६ ॥
अथवास्तामियं वार्ता प्रस्तुतं प्रब्रवीम्यहम् ॥
अद्य नीलगिरेस्तस्माद्धरिद्वारसमीपतः ॥ १७ ॥
अपूर्वमिव संवीक्ष्य परिप्राप्तस्तवान्तिकम् ॥
अत्याश्चर्यविषादाभ्यां किचिद्वक्तुमिहोत्सुकः ॥ १८ ॥
आश्चर्यहेतुरेवायं यत्पुञ्जातं त्रयीतले ॥
तद्दृष्टं सकलत्रं च दक्षस्याध्वरमण्डपे ॥ १९ ॥
सालङ्कारं समानं च सानन्दमुखपङ्कजम् ॥
विस्मृताखिलकार्यं च दक्षयज्ञप्रवर्तकम् ॥ 4.2.88.२० ॥
विषादे कारणं चैतद्यतो जातमिदं जगत् ॥
यस्मिन्प्रवर्तते यत्र लयमेष्यति च ध्रुवम् ॥ २१ ॥
तदेव तत्र नो दृष्टं भवद्वन्द्वं भवापहम् ॥
प्रायो विषादजनकं भवतोर्यददर्शनम् ॥ २२ ॥
तदेव नाभवत्तत्र समभूदन्यदेव हि ॥
तच्च वक्तुं न शक्येत तद्वक्ता दक्ष एव सः ॥ २३ ॥
तानि वाक्यानि चाकर्ण्य द्रुहिणेन ययेततः ॥
महर्षिणा दधीचेन धिक्कृतो नितरां हि सः ॥२४ ॥
शप्तश्च वीक्षमाणानां देवर्षीणां प्रजापतिः ॥
मया च कर्णौ पिहितौ श्रुत्वा तद्गर्हणा गिरः ॥ २५ ॥
दधीचिना समं केचिद्दुर्वासः प्रमुखा द्विजाः ॥
भवनिन्दां समाकर्ण्य कियतोपि विनिर्ययुः ॥२६॥
प्रावर्तत महायागो हृष्टपुष्टमहाजनः ॥
तथा द्रष्टुं न शक्नोमि तत आगतवानिह ॥२७ ॥
भगिन्योपि च या देवि तव तत्र सभर्तृकाः ॥
तासां गौरवमालोक्य न किञ्चिद्वक्तुमुत्सहे ॥ २८ ॥
इति देवी समाकर्ण्य सती दक्षकुमारिका ॥
करादक्षौ समुत्सृज्य दध्यौ किञ्चित्क्षणं हृदि ॥ २९ ॥
उवाच च भवत्वेवं शरणं भव एव मे ॥
सम्प्रधार्येति मनसि सती दाक्षायणी ततः ॥4.2.88.३०॥
द्रुतमेव समुत्तस्थौ प्रणनाम च शङ्करम् ॥
मौलावञ्जलिमाधाय देवी देवं व्यजिज्ञपत् ॥३१॥
॥ देव्युवाच ॥ ॥
विजयस्वान्धकध्वंसिं त्र्यम्बक त्रिपुरान्तक ॥
चरणौ शरणं ते मे देह्यनुज्ञा सदाशिव ॥३२॥
मा निषेधीः प्रार्थयामि यास्यमि पितुरन्तिकम् ॥
उक्त्वेति मौलिमदधादन्धकारि पदाम्बुजे ॥ ३३ ॥
अथोक्ता शम्भुना देवी मृडान्युत्तिष्ठ भामिनि ॥
किमपूर्णं तवास्त्यत्र वदसौ भाग्यसुन्दरि ॥ ३४ ॥
लक्ष्म्या अपि च सौभाग्यं ब्रह्माण्यै कान्तिरुत्तमा ॥
शच्यै नित्यनवीनत्वं भवत्या दत्तमीश्वरि ॥ ३५ ॥
त्वया च शक्तिमानस्मि महदैश्वर्यरक्षणे ॥
त्वां च शक्तिं समासाद्य स्वलीलारूपधारिणीम् ॥ ३६ ॥
एतत्सृजामि पाम्यद्मि त्वल्लीलाप्रेरितोङ्गने ॥
कुतो मां हातुमिच्छेस्त्वं मम वामार्धधारिणि ॥ ३७ ॥
शिवा शिवोदितं चेति श्रुत्वाप्याह महेश्वरम् ॥
जीवितेश विहाय त्वां न क्वापि परियाम्यहम् ॥३८॥
मनो मे चरणद्वन्द्वे तव स्थास्यति निश्चलम् ॥
क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित् ॥३९॥
शम्भुः कात्यायनीवाक्यामिति श्रुत्वा तदाब्रवीत् ॥
क्रतुस्त्वया नेक्षितश्चेदाहरामि ततः क्रतुम् ॥ 4.2.88.४० ॥
मच्छक्ति धारिणी त्वं वा सृजैवान्यां क्रतुक्रियाम् ॥
अन्यो यज्ञपुमानस्तु सन्त्वन्ये लोकपालकाः ॥ ४१ ॥
अन्यानाशु विधेहि त्वमृषीनार्त्विज्यकर्मणि ॥
पुनर्जगाद देवीति श्रुत्वा शम्भोरुदीरितम् ॥ ४२ ॥
पितुर्यज्ञोत्सवो नाथ द्रष्टव्योऽत्र मया ध्रुवम् ॥
देह्यनुज्ञां गमिष्यामि मा मे कार्षीर्वचोन्यथा ॥ ४३ ॥
कः प्रतीपयितुं शक्तश्चेतो वा जलमेव वा ॥
निम्नायाभ्युद्यतं नाथ माद्य मां प्रतिषेधय ॥ ४४ ॥
निशम्येति पुनः प्राह सर्वज्ञो भूतनायकः ॥
मा याहि देवि मां हित्वा गता च न मिलिष्यसि ॥ ४५ ॥
अद्य प्राचीं यियासुं त्वां वारयेत्पङ्गुवासरः ॥
नक्षत्रं च तथा ज्येष्ठा तिथिश्च नवमी प्रिये ॥ ४६ ॥
अद्य सप्तदशो योगो वियोगोद्य तनोऽशुभः ॥
धनिष्ठार्ध समुत्पन्ने तव ताराद्य पञ्चमी ॥ ॥ ४७ ॥
मा गा देवि गताद्य त्वं नहि द्रक्ष्यसि मां पुनः ॥
पुनर्देवी बभाषे सा यदि नाम्नाप्यहं सती ॥ ४८ ॥
तदा तन्वन्तरेणापि करिष्ये तव दासताम् ॥
ततो भवः पुनः प्राह को वा वारयितुं प्रभुः ॥ ४९ ॥
परिक्षुब्धमनोवृत्तिं स्त्रियं वा पुरुषं तु वा ॥
पुनर्न दर्शनं देवि मया सत्यं ब्रवीम्यहम् ॥4.2.88.५०॥
परं न देवि गन्तव्यं महामानधनेच्छुभिः ॥
अनाहूत तया कान्ते मातापितृगृहानपि ॥ ५१ ॥
यथा सिन्धुगता सिन्धुर्न पुनः परिवर्तते ॥
तथाद्य गन्त्र्या नो जातु तवागमनमिष्यते ॥ ५२ ॥
॥ देव्युवाच ॥ ॥
अवश्यं यद्यहं रक्ता तव पादाबुञ्जद्वये ॥
तथा त्वमेव मे नाथो भविष्यसि भवान्तरे ॥ ५३ ॥
इत्युक्त्वा निर्ययौ देवी कोपान्धीकृतलोचना ॥
यियासुभिश्च कार्यार्थं यत्कर्तव्यं न तत्कृतम् ॥ ५४ ॥
न ननाम महादेवं न च चक्रे प्रदक्षिणम् ॥
अतएव हि सा देवी न गता पुनरागता ॥ ५५ ॥
अप्रणम्य महेशानमकृत्वापि प्रदक्षिणम् ॥
अद्यापि न निवर्तन्ते गताः प्राग्वासरा इव ॥ ५६ ॥
तया चरणचारिण्या राज्ञ्या त्रिभुवनेशितुः ॥
अपि तत्पावनं वर्त्म मेनेति कठिनं बहु ॥ ५७ ॥
देवोपि तां सतीं यान्तीं दृष्ट्वा चरणचारिणीम् ॥
अतीव विव्यथे चित्ते गणांश्चाथ समाह्वयत् ॥ ५८ ॥
गणा विमानं नयत मनःपवनचक्रिणम् ॥
पञ्चास्यायुतसंयुक्तं रत्नसानुध्वजोच्छ्रितम् ॥ ५९ ॥
महावातपताकं च महाबुद्ध्यक्षलक्षितम् ॥
नर्मदालकनन्दा च यत्रेषादण्डताङ्गते ॥ 4.2.88.६० ॥ रथोपरि टिप्पणी
छत्रीभूतौ च यत्रस्तः सूर्याचन्द्रमसावपि ॥
यस्मिन्मकरतुण्डं च वाराहीशक्तिरुत्तमा ॥ ६१ ॥
धूः स्वयं चापि गायत्री रज्जवस्तक्षकादयः ॥
सारथिः प्रणवो यत्र क्रेङ्कारः प्रणवध्वनिः ॥ ६२ ॥
अङ्गानि रक्षका यत्र वरूथश्छन्दसां गणः ॥
इत्याज्ञप्ता गणास्तूर्णं रथं निन्युर्हराज्ञया ॥ ६३ ॥
देव्या सनाथं तं कृत्वा विमानं पार्षदा दिवि ॥
अनुजग्मुर्महादेवीं दिव्यां तेजोविजृम्भिणीम्॥ ६४ ॥
सा क्षणं त्र्यक्षरमणी वीक्ष्य दक्षसभाङ्गणम्॥
नभोंऽगणाद्विमानस्थानतो वेगादवातरत् ॥ ६५ ॥
अविशद् यज्ञवाटं च चकितंरक्षि वीक्षिता ॥
कृतमङ्गलनेपथ्यां प्रसूं दृष्ट्वा किरीटिनीम्॥ ६६ ॥
सभर्तृकाश्च भगिनीर्नवालङ्कृतिशालिनीः ॥
साश्चर्याश्च सगर्वाश्च सानन्दाश्च ससाध्वसाः ॥ ६७॥
अचिन्तिता त्वनाहूता विमानाद्धरवल्लभा ॥
कथमेषा परिप्राप्ता क्षणमित्थं प्रपश्यतीः॥ ॥ ६८ ॥
असम्भाष्या पिताः सर्वा गता दक्षान्तिकं सती ॥
पित्रा पृष्टा तु मात्रापि भद्रं जातं त्वदागमे ॥ ६९ ॥
॥ सत्युवाच ॥ ॥
यदि भद्रं जनेतर्मे समागमनतो भवेत् ॥
कथं नाहं समाहूता यथैता मे सहोदराः ॥ 4.2.88.७० ॥
॥ दक्ष उवाच ॥ ॥
अयि कन्ये महाधन्ये ह्यनन्ये सर्वमङ्गले ॥
अयं ते न मनाग्दोषो दोष एष ममैव हि ॥ ७१ ॥
तादृग्विधाय यत्पत्ये मया दत्ताज्ञबुद्धिना ॥
यदहं तं समाज्ञास्यमीश्वरोसौ निरीश्वरः ॥ ७२ ॥
तदा कथमदास्यं त्वां तस्मै मायास्वरूपिणं ॥
अहं शिवाख्यया तुष्टो न जाने शिवरूपिणम्॥ ७३ ॥
पितामहेन बहुधा वर्णितोसौ ममाग्रतः ॥
शङ्करोयमयं शभुरसौ पशुपतिः शिवः ॥ ७४ ॥
श्रीकण्ठोसौ महेशोऽसौ सर्वज्ञोसौ वृषध्वजः ॥
अस्मै कन्यां प्रयच्छ त्वं महादेवाय धन्विने ॥ ७५ ॥
वाक्याच्छतधृतेस्तस्मात्तस्मै दत्ता मयानघे ॥
न जाने तं विरूपाक्षमुक्षगं विषभक्षिणम् ॥ ७६ ॥
पितृकाननसंवासं शूलिनं च कपालिनम् ॥
द्विजिह्वसङ्गसुभगं जलाधारं कपर्दिनम्॥ ७७ ॥
कलङ्किकृतमौलिं च धूलिधूसरचर्चितम् ॥
क्वचित्कौपीनवसनं नग्नं वातूलवत्क्वचित् ॥ ७८ ॥
क्वचिच्च चर्मवसनं क्वचिद्भिक्षाटनप्रियम् ॥
विटङ्कभूतानुचरं स्थाणुमुग्रं तमोगुणम्॥ ॥ ७९ ॥
रुद्रं रौद्रपरीवारं महाकालवपुर्धरम् ॥
नृकरोटीपरिकरं जातिगोत्रविवर्जितम् ॥ 4.2.88.८० ॥
न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ॥
किं बहूक्तेन तनये समस्त नयशालिनि ॥ ८१ ॥
क्व पांसुलपटच्छन्नो महाशङ्खविभूषणः ॥
प्रबद्धसर्पकेयूरः प्रलम्बित जटासटः ॥ ८२ ॥
डमड्डमरुकव्यग्र हस्ताग्रः खण्डचन्द्रभृत् ॥
ताण्डवाडम्बररुचिः सर्वामङ्गल चेष्टितः ॥८३॥
मृडानि सहरः क्वाऽयमध्वरो मङ्गलालयः ॥
अतएव समाहूता नेह त्वं सर्वमङ्गले ॥ ८४ ॥
दुकूलान्यनुकूलानि रत्नालङ्कृतयः शुभाः ॥
प्रागेव धारितास्तेत्र पश्यागत्य गृहाण च ॥ ८५ ॥
इह मङ्गलवेशेषु देवेन्द्रेषु स शूलधृक् ॥
कथमर्हो भवेच्चेति मङ्गले विषमेक्षणः ॥ ८६ ॥
इत्याकर्ण्य सती साध्वी जनेतुरुदितं तदा ॥
अत्यन्तदूनहृदया वक्तुं समुपचक्रमे ॥८७॥
सत्युवाच ॥ ॥
नाकर्णितं मया किञ्चित्त्वयि प्रब्रुवति प्रभो ॥
पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम् ॥८८॥
न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ॥
एतत्सम्यक्त्वयाख्यायि कस्तं वेत्ति सदाशिवम्॥ ८९ ॥
त्वं तु प्रतारितः पूर्वमधुनापि प्रतारितः ॥
कृत्वा तेन च सम्बन्धमसम्बद्धप्रलापभाक् ॥ 4.2.88.९० ॥
यादृशं वक्षितं शम्भुं तादृशं यद्यमन्यथाः ॥
कुतो मामददास्तस्मै यं च कश्च न वेद न ॥ ९१ ॥
अथवा तेन सम्बन्धे न हेतुर्भवतो मतिः ॥
तत्र हेतुरभूत्तात मम पुण्यैकगौरवम्॥ ॥ ९२ ॥
अथोक्त्वैवं बहुतरं त्वं जनेतास्य वर्ष्मणः ॥
श्रुतानेन च देहेन पत्युः परिविगर्हणा ॥ ९३ ॥
पुरश्चरणमेवैतद्यदस्यैव विसर्जनम् ॥
सुश्लाघ्यजन्मया तावत्प्राणितव्यं सुयोषिता ॥
यावज्जीवितनाथस्याश्रवणीया विगर्हणा ॥ ९४ ॥
इत्युक्त्वा क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ॥
जुहाव देहसमिधं प्राणरोधविधानतः ॥ ९५ ॥
ततो विवर्णतां प्राप्ताः सर्वे देवाः सवासवाः ॥
नाग्निर्जज्वाल च तथा यथाज्याहुतिभिः पुरा ॥ ९६ ॥
मन्त्राः कुण्ठितसामर्थ्यास्तत्क्षणादेव चाभवन् ॥
अहो महानिष्टतरं किमेतत्समुपस्थितम् ॥९७॥
केचिदूचुर्द्विजवरा मिथः परियियासवः ॥
महाझञ्झानिलः प्राप्तः पर्वतान्दोलनक्षमः ॥ ९८॥
मखमण्डप भूस्तेन क्षणतः स्थपुटीकृता ॥
अकाण्डं तडिदापातो जातोभूद्भूप्रकपनः ॥९९॥
दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ॥
आतापिगृध्रैरुपरि गगने मण्डलायितम् ॥ 4.2.88.१०० ॥
रवेरधस्तादशिवं शिवास्तत्राप्यरारिषुः ॥
मेघारुधिरविपुड्भिस्तत्र वृष्टिं व्यधुः पराम् ॥ १ ॥
निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकम्पनः ॥
दिव्यायुधानि च मिथो युध्यन्ति स्मातिभीषणम् ॥ २ ॥
हवनीयं महद्रव्यं दूषितं क्रोष्टुभिः श्वभिः ॥
चकोराः करटास्तत्र विचेरुर्यज्ञमण्डपे ॥ ३ ॥
श्मशानवाटवज्जातो यज्ञवाटः स वै क्षणात॥
यद्यत्रावस्थितं सर्वं तत्तत्रैव परिष्ठितम् ॥ ४ ॥
चित्रन्यस्तमिवासीच्च वस्तुजातमशोभि च ॥
स्थगिता इव संवृत्तास्तत्र चक्रधरादयः ॥ ५ ॥
दक्षोपि वदनग्लानिमवाप्य सपरिच्छदः ॥
पुनर्यथाकथञ्चिच्च यज्ञं प्रावर्तयन्द्विजाः ॥१०६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे सतीदेहविसर्जनं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥