॥ अगस्त्य उवाच ॥ ॥
सर्वज्ञसूनो षड्वक्त्र सर्वार्थकुशल प्रभो ॥
प्रादुर्भावं निशम्यैषां लिङ्गानां मुक्तिदायिनाम् ॥ १ ॥
नितरां परितृप्तोस्मि सुधां पीत्वेव निर्जरः ॥
ओङ्कारप्रमुखैर्लिङ्गैरिदमानन्दकाननम्॥२॥
आनन्दमेवजनयेदपि पापजुषामिह ॥
परानन्दमहं प्राप्तः श्रुत्वैतल्लिङ्गकीर्तनम् ॥३॥
जीवन्मुक्तइवासं हि क्षेत्रतत्त्वश्रुतेरहम् ॥
स्कन्ददक्षेश्वरादीनि लिङ्गानीह चतुर्दश ॥
यान्युक्तानि समाचक्ष्व तत्प्रभावमशेषतः ॥ ४ ॥
यो दक्षो गर्हयामास मध्ये देवसभं विभुम् ॥
स कथं लिङ्गमीशस्य प्रत्यस्थापयदद्भुतम् ॥५॥
इति श्रुत्वा शिखिरथः कुम्भयोनेरुदीरितम् ॥
सूत सङ्कथयामास दक्षेश्वर समुद्भवम् ॥६॥
॥ स्कन्द उवाच ॥
आकर्णय मुने वच्मि कथां कल्मषहारिणीम् ॥
पुरश्चरणकामोसौ दक्षः काशीं समाययौ ॥ ७ ॥
छागवक्त्रो विरूपास्यो दधीचि परिधिक्कृतः ॥
प्रायश्चित्तविधानार्थं सूपदिष्टः स्वयम्भुवा ॥ ८ ॥
एकदा देवदेवस्य सेवार्थं शशिमौलिनः ॥
कैलासमगमद्विष्णुः पद्मयोनिपुरस्कृतः ॥ ९ ॥
इन्द्रादयो लोकपाला विश्वेदेवा मरुद्गणाः ॥
आदित्या वसवो रुद्राः साध्या विद्याधरोरगाः ॥ 4.2.87.१० ॥
ऋषयोऽप्सरसोयक्षा गन्धर्वाः सिद्धचारणाः ॥
तैर्नतो देवदेवेशः परिहृष्टतनूरुहैः ॥११॥
स्तुतश्च नाना स्तुतिभिः शम्भुनापि कृतादराः ॥
विविशुश्चासनश्रेण्यां तन्मुखासक्तदृष्टयः ॥ १२ ॥
अथ तेषूपविष्टेषु शम्भुना विष्टरश्रवाः ॥
कृतहस्तपरिस्पर्शमानः पृष्टो महादरम् ॥ १३ ॥
श्रीवत्सलाञ्छन हरे दैत्यवंशदवानल ॥
कच्चित्पालयितुं शक्तिस्त्रिलोकीमस्त्यकुण्ठिता॥ १४ ॥
दितिजान्दनुजान्दुष्टान्कच्चिच्छासि रणाङ्गणे ॥
अपि कुद्धान्महीदेवान्मामिव प्रतिमन्यसे ॥ १५ ॥
बाधया रहिता गावः कच्चित्सन्ति महीतले ॥
स्त्रियः सन्ति हि सुश्रीकाः पतिव्रतपरायणाः ॥ १६ ॥
विधियज्ञाः प्रवर्तन्ते पृथिव्यां बहुदक्षिणाः ॥
निराबाधं तपः कच्चिदस्ति शश्वत्तपस्विनाम् ॥ १७ ॥
निष्प्रत्यूहं पठन्त्येव साङ्गान्वेदान्द्विजोत्तमाः ॥
महीपालाः प्रजाः कच्चित्पान्ति त्वमिवकेशव ॥ १८॥
स्वेषु स्वेषु च धर्मेषु कच्चिद्वर्णाश्रमास्तथा ॥
निष्ठावन्तो हि तिष्ठन्ति प्रहृष्टेन्द्रियमानसाः ॥ १९ ॥
धूर्जटिः परिपृछ्येति हृष्टं वैकुण्ठनायकम्।
ब्रह्माणं चापि पप्रच्छ ब्राह्मं तेजः समेधते ॥ 4.2.87.२० ॥
सत्यमस्खलितं कच्चिदस्ति त्रैलोक्यमण्डपे ॥
तीर्थावरोधो न क्वापि केनचित्क्रियते विधे ॥ २१ ॥
इन्द्रादयः सुराः कच्चित्स्वेषु स्वेषु पुरेष्वहो ॥
राज्यं प्रशासति स्वस्थाः कृष्णदोर्दण्डपालिताः ॥ २२ ॥
प्रत्येकं परिपृच्छयेशः सर्वानित्थं कृतादरान् ॥
पृष्ट्वा गमनकार्यं च तेषां कृत्वा मनोरथान् ॥ २३ ॥
विससर्जाथ तान्सर्वान्देवः सौधं समाविशत् ॥
गतेष्वथ च देवेषु स्वस्व धिष्ण्येषु हृष्टवत् ॥ २४ ॥
मध्ये मार्गं स चिन्तोभूद्दक्षः सत्याः पिता तदा ॥
अन्यदेवसमानं स मानं प्राप न चाधिकम् ॥ २५ ॥
अतीव क्षुब्धचित्तोभून्मन्दराघाततोऽब्धिवत् ॥
उवाच च मनस्येतन्महाक्रोधरयान्धदृक्॥ २६ ॥
अतीवगर्वितो जातः सती मे प्राप्य कन्यकाम् ॥
कस्यचिन्नाप्यसौ प्रायो न कोस्यापि क्वचित्पुनः ॥ २७ ॥
किं वंश्यस्त्वेष किं गोत्रः किं देशीयः किमात्मकः ॥
किं वृत्तिः किं समाचारो विपा(षा?)दी वृषवाहनः ॥ २८ ॥
न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम् ॥
न गृहस्थेषु गण्योसौ श्मशाननिलयो यतः ॥ २९ ॥
असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः॥
वानप्रस्थ्यं कुतश्चास्मिन्नैश्वर्यमदमोहिते ॥4.2.87.३०॥
न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम् ॥
शस्त्रास्त्रधारणात्प्रायः क्षत्रियः स्यान्न सोप्ययम्॥ ३१ ॥
क्षतात्सन्त्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये ॥
वैश्योपि न भवेदेष सदा निर्धनचेष्टनः ॥ ३२ ॥
शूद्रोपि न भवेत्प्रायो नागयज्ञोपवीतवान् ॥
एवं वर्णाश्रमातीतः कोसौ सम्यङ्नकीर्त्यते ॥ ३३ ॥
सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ॥
प्रायशः पुरुषोनासावर्धनारीवपुर्यतः ॥ ३४ ॥
योषापि न भवेदेष यतोसौ श्मश्रुलाननः ॥
नपुंसकोपि न भवेल्लिङ्गमस्ययतोर्च्यते ॥ ३५ ॥
बालोपि न भवत्येष यतोऽयं बहुवार्षिकः॥
अनादिवृद्धो लोकेषु गीयते चोग्र एष यत् ॥ ३६ ॥
अतो युवत्वं सम्भाव्यं नात्र नूनं चिरन्तने ॥
वृद्धोऽपि न भवत्येष जरामरणवर्जितः ॥ ३७ ॥
ब्रह्मादीन्संहरेत्प्रान्ते तथापि च न पातकी ॥
पुण्यलेशोपि नास्त्यस्मिन्ब्रह्ममौलिच्छिदिक्रुधा॥ ३८ ॥
अस्थिनेपथ्यवति च क्व शुचित्वं विवाससि ॥
किं बहूक्तेन नो किञ्चिज्ज्ञायतेऽस्य विचेष्टितम् ॥ २९ ॥
अहो धार्ष्ट्यं महद्दृष्टं जटिलस्याद्य चाद्भुतम् ॥
यदासनान्नोत्थितोसौ दृष्ट्वा मां श्वशुरं गुरुम् ॥ 4.2.87.४० ॥
एवम्भूता भवन्त्येव मातापितृविवर्जिताः ॥
निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरङ्कुशाः ॥ ४१ ॥
स्वच्छन्दचारिणोऽनाथाः सर्वत्र स्वाभिमानिनः ॥
अकिञ्चना अपिप्रायस्तथापीश्वरमानिनः ॥ ४२ ॥
जामातॄणां स्वभावोयं प्रायशो गर्वभाजनम् ॥
किञ्चिदैश्वयर्मासाद्य भवत्येव न संशयः ॥ ४३ ॥
द्विजराजः स गर्विष्ठो रोहिणीप्रेमनिर्भरः ॥
कृत्तिकादिषु चास्नेही मया शप्तः क्षयीकृतः ॥ ४४ ॥
अस्याहं गर्वसर्वस्वं हरिष्याम्येव शूलिनः ॥
यथावमानितश्चाहमनेनास्य गृहं गतः ॥ ४५ ॥
तथास्याहं करिष्यामि मानहानिं च सर्वतः ॥
सम्प्रधार्येति बहुशः स तु दक्षः प्रजापतिः ॥ ४६ ॥
प्राप्य स्वभवनं देवानाजुहाव सवासवान् ॥
अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ॥ ४७ ॥
भवन्तु यज्ञसम्भारानानयन्तु त्वरान्विताः ॥
श्वेतद्वीपमथो गत्वा चक्रे चक्रिणमच्युतम् ॥ ४८ ॥
महाक्रतूपद्रष्टारं यज्ञपूरुषमेव च ॥
तस्यर्त्विजोभवन्सर्व ऋषयो ब्रह्मवादिनः ॥ ४९ ॥
प्रावर्तत ततस्तस्य दक्षस्य च महाध्वरः ॥
दृष्ट्वा देवनिकायांश्च तस्मिन्दक्ष महाध्वरे ॥ 4.2.87.५० ॥
अनीश्वरांस्ततो वेधा व्याजं कृत्वा गृहं ययौ ॥
दधीचिरथ संवीक्ष्य सर्वांस्त्रैलोक्यवासिनः ॥ ५१ ॥
दक्षयज्ञे समायातान्सतीश्वरविवर्जितान् ॥
प्राप्तसम्मानसम्भारान्वासोलङ्कृतिपूर्वकम् ॥५२ ॥
दक्षस्य हि शुभोदर्कमिच्छन्प्रोवाच चेति वै ॥ ॥
दधीचिरुवाच ॥
दक्षप्रजापते दक्ष साक्षाद्धातृस्वरूपधृक् ॥ ५३ ॥
न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम् ॥
यादृशः क्रतुसम्भारस्तव चेह समीक्ष्यते ॥ ५४ ॥
न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते ॥
क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ॥ ५५ ॥
कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्सम्पत्ति रीदृशी ॥
साक्षादग्निः स्वयं कुण्डे साक्षादिन्द्रादिदेवताः ॥५६॥
साक्षाच्च सर्वे मन्त्रा वै साक्षाद्यज्ञपुमानसौ ॥
आचार्यपदवीमेष देवाचार्यः स्वयं चरेत् ॥
साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकाण्डवित् ॥ ५७ ॥
अयं पूषा भगस्त्वेष इयं देवी सरस्वती ॥
एते च सर्वदिक्पाला यज्ञरक्षाकृतः स्वयम् ॥ ५८॥
त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया ॥
जामाता त्वेष ते धर्मः पत्नीभिर्दशभिः सह ॥ ५९ ॥
स्वयमेव हि कुर्वीत धर्मकार्यं प्रयत्नतः ॥
ओषधीनामयं नाथस्तव जामातृषूत्तमः ॥ 4.2.87.६० ॥
सप्तविंशतिभिः सार्धं पत्नीभिस्तव कार्यकृत् ॥
ओषधीः पूरयेत्सर्वा द्विजराजो महासुधीः ॥६१॥
दीक्षितो राजसूयस्य दत्तत्रैलोक्यदक्षिणः ॥
मारीचः कश्यपश्चासौ प्रजापतिषु सत्तमः ॥
त्रयोदशमिताभिश्च भार्याभिस्तव कार्यकृत् ॥ ६२ ॥
हविः कामदुघा सूते कल्पवृक्षः समित्कुशान् ॥
दारुपात्राणि सर्वाणि शकटं मण्डपादिकम् ॥ ६३ ॥
विश्वकर्माप्यलङ्कारान्कुरुतेभ्यागतर्त्विजाम् ॥
वसूनि चाऽपि वासांसि वसवोष्टौ ददत्यपि ॥ ६४ ॥
स्वयंलक्ष्मीरलङ्कुर्याद्यावै चात्र सुवासिनीः ॥ ६५ ॥
सर्वे सुखाय मे दक्ष वीक्षमाणस्य सर्वतः ॥
एकं दुःखाकरोत्येव यत्त्वं विस्मृतवानसि ॥ ६६ ॥
जीवहीनो यथा देहो भूषितोपि न शोभते ॥
तथेश्वरं विना यज्ञः श्मशानमिव लक्ष्यते ॥ ६७ ॥
इत्थं दधीचिवचनं श्रुत्वा दक्षः प्रजापतिः ॥
भृशं जज्वाल कोपेन हविषा कृष्णवर्त्मवत् ॥ ६८ ॥
पूर्वस्तुत्याति संहृष्टो दृष्टो योसौ दधीचिना ॥
स एव चापि कोपाग्निमुद्वमन्वीक्षितो मुखात् ॥ ६९ ॥
प्रत्युवाचाथ तं विप्रं वेपमानाङ्गयष्टिकः ॥
दक्षः प्रजापती रोषाज्जिघांसुरिव तं द्विजम् ॥ 4.2.87.७० ॥
॥ दक्ष उवाच ॥ ॥
ब्राह्मणोसि दधीचे त्वं किं करोमि तवात्र वै ॥
दीक्षामहमहो प्राप्तः कर्तुं नायाति किञ्चन ॥ ७१ ॥
भवान्केन समाहूतो यदत्रागान्महाजडः ॥
आगतोपि हि केन त्वं पृष्ट इत्थं प्रब्रवीषि यत् ॥ ७२ ॥
सर्वमङ्गलमाङ्गल्यो यत्र श्रीमानयं हरिः ॥
स्वयं वै यज्ञपुरुषः स मखः किं श्मशानवत् ॥ ७३ ॥
यत्र वज्रधरः शक्रः शतयज्ञैकदीक्षितः ॥
त्रयस्त्रिंशतिकोटीनाममराणां पतिः स्वयम् ॥ ७४ ॥
तं त्वञ्चोपमिमीषेमुं श्मशानेन महामखम् ॥
धर्मराट्च स्वयं यत्र धर्माधर्मैककोविदः ॥ ७५ ॥
श्रीदोस्ति यत्र श्रीदाता साक्षाद्यत्राशुशुक्षणिः ॥
तं यज्ञमुपमासि त्वममङ्गलभुवातया ॥ ७६ ॥
देवाचार्यः स्वयं यत्र क्रतोराचार्यतागतः ॥
अभिमानवशात्तं त्वमाख्यासि पितृकाननम् ॥ ७७ ॥
यत्रार्त्विज्यं भजन्तेऽमी वसिष्ठप्रमुखर्षयः ॥
तमध्वरं समाचक्षे मङ्गलेतरभूमिवत् ॥ ७८ ॥
निशम्येति मुनिः प्राह दधीचिर्ज्ञानिनां वरः ॥
सर्वमङ्गलमाङ्गल्यो भवेद्यज्ञपुमान्हरिः ॥ ७९ ॥
तथापि शाम्भवी शक्तिर्वेदे विष्णुः प्रपठ्यते ॥
वामाङ्गं स्रष्टुराद्यस्य हरिस्तदितरद्विधिः ॥ 4.2.87.८० ॥
दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः ॥
दुर्वाससा क्षणेनापि नीतो निःश्रीकतां हि सः ॥ ८१ ॥
पुनराराध्य भूतेशं प्रापैकाममरावतीम् ॥
यस्त्वया धर्मराजोत्र कथितः क्रतुरक्षकः ॥ ८२ ॥
बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा ॥
धनदस्त्र्यम्बकसखस्तच्चक्षुश्चाशुशुक्षणिः ॥ ८३ ॥
पार्ष्णिग्राह्यभवद्रुद्रो देवाचार्यस्य वै तदा ॥
यदा तारामधार्षीत्स द्विजराजोऽतिसुन्दरीम् ॥ ८४ ॥
तं विदन्ति वसिष्ठाद्यास्तवार्त्विज्यं भजन्ति ये ॥
एको रुद्रो न द्वितीयः संविदाना अपीति हि ॥ ८५॥
प्रावर्तन्तर्षयोन्येपि गौरवात्तव ते क्रतौ ॥
यदि मे ब्राह्मणस्यैकं शृणोषि वचनं हितम् ॥ ८६ ॥
तदा क्रतुफलाधीशं विश्वेशं त्वं समाह्वय ॥
विना तेन क्रतुरसौ कृतोप्यकृत एव हि ॥ ८७ ॥
सति तस्म्निमहादेवे विश्वकर्मैकसाक्षिणि ॥
तवापि चैषा सर्वेषां फलिष्यन्ति मनोरथाः ॥ ८८ ॥
यथा जडानि बीजानि न फलन्ति स्वयं तथा ॥
जडानि सर्वकर्माणि न फलन्तीश्वरं विना ॥ ८९ ॥
अर्थहीना यथा वाणी धर्महीना यथा तनुः ॥
पतिहीना यथा नारी शिवहीना तथा क्रिया ॥ ॥ 4.2.87.९० ॥
गङ्गाहीना यथा देशाः पुत्रहीना यथा गृहाः ॥
दानहीना यथा सम्पच्छिवहीना तथा क्रिया ॥ ९१ ॥
मन्त्रिहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः ॥
योषा हीनं यथा सौख्यं शिवहीना तथा क्रिया ॥ ९२ ॥
दर्भहीना यथा सन्ध्या तिलहीनं च तर्पणम् ॥
हविर्हीनो यथा होमः शिवहीना तथा क्रिया ॥ ९३ ॥
इत्थं दधीचिनाख्यातं जग्राह वचनं न तत् ॥
दक्षो दक्षोपि तत्रैव शम्भोर्माया विमोहितः॥ ९४ ॥
प्रोवाच च भृशं क्रुद्धः का चिन्ता तव मे क्रतोः ॥
क्रतुमुख्यानि सर्वाणि यानि कर्माणि सर्वतः ॥ ९५ ॥
तानि सिद्ध्यन्ति नियतं यथार्थकरणादिह ॥
अयथार्थविधानेन सिद्ध्येत्कर्मापि नेशितुः ॥ ९६ ॥
स्वकर्मसिद्धये चाथ सर्व एव हि चेश्वरः ॥
ईश्वरः कर्मणां साक्षी यत्त्वयापीति भाषितम् ॥ ९७ ॥
तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित् ॥ ९८ ॥
जडानि सर्वकर्माणि न फलन्तीश्वरं विना ॥
यदुक्तं भवता तत्राप्यहो दृष्टान्तयाम्यहम् ॥ ९९ ॥
जडान्यपि च बीजानि कालं सम्प्राप्यवात्मनः ॥
अङ्कूरयन्ति कालाच्च पुष्प्यन्ति च फलन्ति च ॥ 4.2.87.१०० ॥
विनापीशं तथा कर्म स्वयं कालात्फलत्यहो ॥
किमीश्वरेण तेनात्र महामङ्गलमूर्तिना ॥ १ ॥
॥ दधीचिरुवाच ॥ ॥
यथार्थकरणात्सिद्धमपि कार्यं कदाचन ॥
ईश्वरप्रातिकूल्याच्च सिद्धमेवाशु नश्यति ॥ २ ॥
ईश्वरेच्छा बलात्कर्म कृतमप्यविधानतः ॥
संसिद्ध्येत्तदधीनाश्च कथं सर्व इहेश्वराः ॥ ३ ॥
सामान्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम् ॥
साक्षीभवेदसन्दिग्धः फलस्य प्रतिभूरपि ॥ ४ ॥
भूजलादिस्वरूपेण बीजमाविश्यसर्वकृत् ॥
स्वयं कालस्वरूपेण विदध्यादङ्कुरोदयम् ॥ ५ ॥
यत्त्वयोक्तं विनापीशं काले कर्मफलेत्स्वयम् ॥
स एव कालो भगवान्सर्वकर्ता महेशिता ॥ ६ ॥
अन्यच्च भवता प्रोक्तं तदेकं तथ्यमेव तत् ॥
किमीश्वरेण तेनात्र महामङ्गलमूर्तिना ॥ ७ ॥
ये महान्तो भवन्त्येव ये च मङ्गलमूर्तयः ॥
ईश्वराख्या च येष्वस्ति किं तैरत्र तवान्तिके ॥ ८ ॥
उत्तरादुत्तरं चेति प्रत्युत्तरयति द्विजे ॥
दधीचौ चुक्रुधेऽत्यन्तं दक्षोगर्वातिसुश्रिया ॥ ९ ॥
आदिदेश समीपस्थानालोक्य परितस्त्विति ॥
ब्राह्मणापसदं चामुं परिदूरयताशु वै ॥ 4.2.87.११० ॥
अमुष्मादध्वरश्रेष्ठादवरिष्ठमनोगतम् ॥
इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव ॥ ११ ॥
किं मां दूरयसे मूढ दूरीभूतो भवानपि ॥
सर्वेभ्यो मङ्गलेभ्यश्च सर्वैरेभिः समं ध्रुवम् ॥ १२ ॥
अकाण्डे क्रोधजो दण्डस्तव मूर्ध्नि पतिष्यति ॥
महेशितुस्त्रिजगती परिशास्तुः प्रजापते ॥ १३ ॥
इत्युक्त्वा निर्जगामाशु यज्ञवाटात्ततो द्विजः ॥
तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो भवान् ॥ १४ ॥
उत्तङ्क उपमन्युश्च ऋचीकोद्दालकावपि ॥
माण्डव्यो वामदेवश्च गालवो गर्गगौतमौ ॥१५॥
शिवतत्त्वविदोन्येपि दक्षयज्ञाद्विनिर्ययुः ॥
गते दधीचौ सानन्दं प्रावर्तत महामखः ॥१६॥
ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुण दक्षिणाम् ॥
प्रादात्प्रजापतिर्दक्षस्त्वन्येभ्योप्यधिकं वसु ॥ ॥ १७ ॥
सर्वे जामातरस्तेन तोषिता भूरिशोधनैः ॥
कन्याश्चालङ्कृताः सर्वा महाविभवविस्तरैः ॥१८॥
ऋषिपत्न्योपि बहुशो देवपत्न्योप्यनेकशः ॥
तथा पुराङ्गनाः सर्वास्तेन मानभुवः कृताः ॥ १९ ॥
ब्रह्मघोषेण तारेण व्योमशब्दगुणं स्फुटम् ॥
कारितं तेन दक्षेण विप्राणां हृष्टचेतसाम् ॥ 4.2.87.१२० ॥
अग्निर्मन्दाग्निरभवत्तस्मिञ्जुह्वति दीक्षिते ॥
हविः परिमलेनैव परितृप्ता दिगङ्गनाः ॥ २१ ॥
स्वाहाकारैर्वषट्कारैः सुरा जाताः पिचण्डिलाः ॥
रचिता गिरयस्तेन सदन्नानां पदेपदे ॥२२॥
घृतकुल्याः कृतास्तेन मधुकुल्याः सहस्रशः ॥
महासरांसि पयसां द्रप्सस्यापि महाह्रदाः ॥ २३ ॥
राशयश्च दुकूलानां रत्नानां शिखराणि च ॥
यज्ञवाटस्य वसुधा स्वर्णरूप्यमयीकृता ॥ २४ ॥
न लभ्यन्ते क्रतौ तस्य मार्गिता अपि मार्गणाः ॥
हृष्टाः पुष्टाः समभवन्नपि तत्परिचारकाः ॥ २५ ॥
ध्वनिर्मङ्गलगीतानां व्यानशे गगनाङ्गणम् ॥
जहृषे चाप्सरोवृन्दैर्गन्धर्वैर्मुमुदेतराम् ॥ २६ ॥
विद्याधरैर्ननन्दे च वसुधा ववृधे भृशम् ॥
महाविभवसम्भारे तस्मिन्दाक्षे महाक्रतौ ॥
इत्थं प्रवृत्तेऽथ मुनिः कैलासं नारदो ययौ ॥१२७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे दक्षयज्ञप्रादुर्भावोनाम सप्ताशीतितमोऽध्यायः ॥ ८७॥ ॥ छ ॥ ॥