॥ पार्वत्युवाच ॥ ॥
विश्वकर्मेश्वरं लिङ्गं यत्काश्यां प्रथितं परम् ॥
तस्य लिङ्गस्य कथय देवदेव समुद्भवम् ॥ १ ॥
॥ देवदेव उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पातकनाशिनीम् ॥
विश्वकर्मेश लिङ्गस्य प्रादुर्भावं मनोहरम्॥२॥
विश्वकर्माभवत्पूर्वं ब्रह्मणस्त्वपरा तनुः ॥
त्वष्टुः प्रजापतेः पुत्रो निपुणः सर्वकर्मसु ॥३॥
कृतोपनयनः सोथ बालो गुरुकुले वसन् ॥
चकार गुरुशुश्रूषां भिक्षान्नकृतभोजनः॥४ ॥
एकदा तद्गुरुः प्राह प्रावृट्काले समागते ॥
कुरूटजं मदर्थं त्वं यथा प्रावृण्न बाधते ॥ ५ ॥
यत्कदाचिन्न भज्येत न पुरातनतां व्रजेत्॥
गुरुपत्न्यात्वभिहितो रे त्वाष्ट्र कुरु कञ्चुकम् ॥६॥
ममाङ्गयोग्यं नो गाढं न श्लथं च प्रयत्नतः ॥
विनैव वाससा चारु वाल्कलं च सदोज्ज्वलम् ॥७॥
गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु ॥
यदारूढस्य मे पादौ न पङ्कः संस्पृशेत्क्वचित् ॥ ८ ॥
चर्मादिबन्धनिर्मुक्ते धावतो मे सुखप्रदे ॥
याभ्यां च सञ्चरे वारि स्थल भूमाविव द्रुतम्॥ ॥ ९ ॥
गुरुकन्यापि तं प्राह त्वाष्ट्र मे श्रवणोचिते ॥
भूषणे स्वेन हस्तेन कुरु काञ्चननिर्मिते ॥4.2.86.१०॥
कुमारी क्रीडनीयानि कौतुकानि च देहि मे ॥
दन्तिदन्तमयान्येव स्वहस्तरचितानि च ॥ ११ ॥
गृहोपकरणं द्रव्यं मुसलोलूखलादिकम् ॥
तथा घटय मेधाविन्यथा त्रुट्यति न क्वचित् ॥ १२ ॥
अक्षालितान्यपि यथा नित्यं पीठानि सत्तम ॥
उज्ज्वलानि भवन्त्येव स्थालिकाश्च तथा कुरु ॥ १३ ॥
सूपकर्मण्यपि च मां प्रशाधि त्वष्ट्रनन्दन ॥
यथाङ्गुल्यो न दह्यन्ते पाकः स्याच्च यथा शुभः ॥ ॥ १४ ॥
एकस्तम्भमयं गेहमेकदारुविनिर्मितम् ॥
तथा कुरु वरं त्वाष्ट्र यत्रेच्छा तत्र धारये ॥ १५ ॥
ये सहाध्यायिनोप्यस्य वयोज्येष्ठाश्च तेपि हि ॥
सर्वेसर्वे समीहन्ते कर्म तत्कृतमेव हि॥१६॥
तथेति स प्रतिज्ञाय सर्वेषां पुरतोद्रिजे ॥
मध्ये वनं प्राविशच्च महाचिन्ताभयार्दितः ॥१७॥
किञ्चित्कर्तुं न जानाति प्रतिज्ञातं च तेन वै॥
सर्वेषां पुरतः सर्वं करिष्यामीति निश्चितम्॥ १८॥
किं करोमि क्व गच्छामि को मे साहाय्यमर्पयेत् ॥
बुद्धेरपि वनस्थस्य शरणं कं व्रजामि च ॥ १९ ॥
अङ्गीकृत्य गुरोर्वाक्यं गुरुपत्न्या गुरोः शिशोः ॥
यो न निष्पादयेन्मूढः स भवेन्निरयी नरः ॥ 4.2.86.२० ॥
गुरुशुश्रूषणं धर्म एको हि ब्रह्मचारिणाम् ॥
अनिष्पाद्य तु तद्वाक्यं कथं मे निष्कृतिर्भवेत् ॥ २१ ॥
गुरूणां वाक्यकरणात्सर्व एव मनोरथाः ॥
सिद्ध्यन्तीतरथा नैव तस्मात्कार्यं हि तद्वचः ॥२२॥
कथं तद्वचसः सिद्धिं प्राप्स्याम्यत्र वने स्थितः ॥
कश्च मेत्र सहायी स्याद्धिषणादुर्बलस्य वै ॥ २३ ॥
आस्तां गुरुकथा दूरं योऽन्यस्यापि लघोरपि ॥
ओमित्युक्त्वा न कुरुते कार्यं सोथ व्रजत्यधः ॥ २४ ॥
कथमेतानि कर्माणि करिष्येऽज्ञोऽसहायवान् ॥
अङ्गीकृतानि तद्भीत्या नमस्ते भवितव्यते ॥ २५ ॥
यावदित्थं चिन्तयति स त्वाष्ट्रो वनमध्यगः ॥
तावत्तदेव सम्प्राप्तस्तेनैकोऽदर्शि तापसः ॥ २६ ॥
अथ नत्वा स तं प्राह वने दृष्टं तपस्विनम् ॥
को भवान्मानसं मे यो नितरां सुखयत्यहो ॥२७॥
त्वद्दर्शनेन मे गात्रं चिन्तासन्तापतापितम् ॥
हिमानी गाहनेनेव शीतलं भवति क्षणम् ॥ २८ ॥
किं त्वं मे प्राक्तनं कर्म प्राप्तं तापसरूपधृक् ॥
अथवा करुणावार्धिराविर्भूतः शिवो भवान् ॥ २९ ॥
योसि सोसि नमस्तुभ्यमुपदेशेन युङ्क्ष्व माम् ॥
गुरूक्तं गुरुपत्न्युक्तं गुर्वपत्योक्तमेव च ॥ 4.2.86.३० ॥
कथं कर्तुमहं शक्तः कर्म तत्र दिशाद्भुतम् ॥
कुरु मे बुद्धिसाहाय्यं निर्जने बन्धुतां गतः ॥ ॥ ३१ ॥
इत्युक्तस्तेन स वने तापसो ब्रह्मचारिणा ॥
कारुण्यपूर्णहृदयो यथोक्तमुपदिष्टवान् ॥ ३२ ॥
य आप्तत्वेन सम्पृष्टो दुर्बुद्धिं सम्प्रयच्छति ॥
स याति नरकं घोरं यावदाभूतसम्प्लवम् ॥ ३३ ॥
तापस उवाच ॥ ॥
ब्रह्मचारिञ्शृणु ब्रूयां किमद्भुततरं त्विदम्॥
विश्वेशानुग्रहाद्ब्रह्माप्यभवत्सृष्टिकोविदः ॥ ३४ ॥
यदि त्वं त्वाष्ट्र सर्वज्ञं काश्यामाराधयिष्यसि ॥
ततस्ते विश्वकर्मेति नाम सत्यं भविष्यति ॥ ३५ ॥
विश्वेशानुग्रहात्काश्यामभिलाषा न दुर्लभाः ॥
सुलभो दुर्लभो वै यद्यत्र मोक्षस्तनुत्यजाम् ॥ ३६ ॥
सृष्टेःकरण सामर्थ्यं सृष्टिरक्षाप्रवीणता ॥
विधिना विष्णुना प्रापि विश्वेशानुग्रहात्परात् ॥ ३७ ॥
याहि वैश्वेश्वरं सद्म पद्मया समधिष्ठितम् ॥
निर्वाणसञ्ज्ञया बाला यदीच्छेः स्वान्मनोरथान् ॥ ३८ ॥
स हि सर्वप्रदः शम्भुर्याचितश्चोपमन्युना ॥
पयोमात्रं ददौ तस्मै सर्वं क्षीराब्धिमेव च ॥ ३९ ॥
आनन्दकानने शम्भोः किं किं केन न लभ्यते ॥
यत्र वासकृतां पुंसां धर्मराशिः पदेपदे ॥ 4.2.86.४० ॥
स्वर्धुनी स्पर्शमात्रेण महापातकसन्ततिः ॥
यत्र सङ्क्षयति क्षिप्रं तां काशीं को न संश्रयेत् ॥ ४१ ॥
न तादृग्धर्मसम्भारो लभ्यते क्रतुकोटिभिः ॥
यादृग्वाराणसी वीथी सञ्चारेण पदेपदे ॥ ४२ ॥
धर्मार्थकाममोक्षाणां यद्यत्रास्ति मनोरथः ॥
तदा वाराणसीं याहि याहि त्रैलोक्यपावनीम् ॥ ४३ ॥
सर्वकामफलप्राप्तिस्तदैव स्याद्ध्रुवं नृणाम् ॥
यदैव सर्वदः सर्वः काश्यां विश्वेश्वरः श्रितः ॥ ४४ ॥
स तापसोक्तमाकर्ण्य त्वाष्ट्र इत्थं सुहृष्टवान् ॥
काशीसम्प्रात्युपायं च तमेव समपृच्छत ॥४५॥
॥ त्वाष्ट्र उवाच ॥ ॥
तदानन्दवनं शम्भोः क्वास्ति तापससत्तम ॥
यत्र नो दुर्लभं किञ्चित्साधकानां त्रयीस्थितम् ॥ ४६ ॥
स्वर्गे वा मर्त्यलोके वा बलिसद्मनि वा मुने ॥
क्व तदानन्दगहनं यत्रानन्दपयोब्धिजा ॥ ४७ ॥
यत्र विश्वेश्वरो देवो विश्वेषां कर्णधारकः ॥
व्याचष्टे तारकं ज्ञानं येन तन्मयतां ययुः ॥ ४८ ॥
सुलभा यत्र नियतमानन्दवनचारिणः ॥
अपि नैःश्रेयसी लक्ष्मीः किमन्येल्प मनोरथाः॥४९॥
कस्तां मां प्रापयेच्छम्भोः कथं यामि तथा वद ॥
स तपस्वीति तद्वाक्यमाकर्ण्य श्रद्धयान्वितम् ॥4.2.86.५०॥
प्राहागच्छ नयामि त्वां यियासुरहमप्यहो॥
दुर्लभं प्राप्य मानुष्यं यदि काशी न सेविता ॥ ५१ ॥
पुनःक्व नृत्वं श्रेयोभूः क्व काशीकर्मबन्धहृत् ॥
वृथागते हि मानुष्ये काशीप्राप्तिविवर्जनात् ॥ ५२ ॥
आयुष्यं च भविष्यं च सर्वमेव वृथागतम्॥
अतोहं सफलीकर्तुं मानुष्यं चातिचञ्चलम् ॥ ५३ ॥
यास्यामि काशीमायाहि मायां हित्वा त्वमप्यहो ॥
इति तेन सह त्वाष्ट्रो मुनिनातिकृपालुना ॥ ५४ ॥
पुरीं वैश्वेश्वरीं प्राप्तो मनःस्वास्थ्यमवाप च ॥
ततः प्रापय्य तां काशीं तापसः क्वाप्यतर्कितम् ॥ ५५ ॥
जगाम कुम्भसम्भूत स त्वाष्ट्रोपीत्यमन्यत ॥
अवश्यं स हि विश्वेशः सर्वेषां चिन्तितप्रदः॥ ५६॥
सत्पथस्थिरवृतीनां दूरस्थोपि समीपगः ॥
यस्मिन्प्रसन्नदृक्त्र्यक्षस्तं दविष्ठमपि ध्रुवम् ॥५७॥।
सुनेदिष्ठं करोत्येव स्वयंवर्त्मोपदेशयन् ॥
क्वाहं तत्र वने बालश्चिन्ताकुलितमानसः ॥
क्व तापसः स यो मां वै सूदिश्येह चानयत् ॥ ५८ ॥
खेलोयमस्य त्र्यक्षस्य यस्य भक्तस्य कुत्रचित् ॥
न दुर्लभतरं किञ्चिदहो क्वाहं क्व काशिका ॥ ५९ ॥
नाराधितो मया शम्भुः प्राक्तने जन्मनि क्वचित् ॥
शरीरित्वानुमानेन ज्ञातमेतदसंशयम्॥ 4.2.86.६० ॥
अस्मिञ्जन्मनि बालत्वान्न चैवाराधितः स्फुटम् ॥
प्रत्यक्षमेव मे वैतत्कुतोनुग्रहधीर्मयि ॥ ६१ ॥
आज्ञातं गुरुभक्तिर्मे हेतुः शम्भुप्रसादने ॥
ययेहानुगृहीतोस्मि विश्वेशेन कृपालुना ॥ ६२ ॥
अथवा कारणापेक्षस्त्र्यक्षस्त्वितरदेववत् ॥
रङ्कमप्यनुगृह्णाति केवलं कारणं कृपा॥ ६३ ॥
यदि नो मय्यनुक्रोशः कथं तापससङ्गतिः ॥
तद्रूपेण स्वयं शम्भुरानिनायेह मां ध्रुवम् ॥६४॥
न दानानि न वै यज्ञा न तपांसि व्रतानि च ॥।
शम्भोः प्रसादहेतूनि कारणं तत्कृपैव हि ॥ ॥ ६५ ॥
दयामपि तदा कुर्यादसौ विश्वेश्वरः पराम् ॥
यदाश्रुत्युक्तमध्वानं सद्भिः क्षुण्णं न सन्त्यजेत् ॥ ६६ ॥
अनुक्रोशं समर्थ्येति स त्वाष्ट्रः र्शाभवं शुचिः॥
संस्थाप्य लिङ्गमीशस्याराधयत्स्वस्थमानसः ॥ ६७ ॥
आनीय पुष्पसम्भारमार्तवं काननाद्बहु ॥
स्नात्वाभ्यर्चयतीशानं कन्दमूलफलाशनः ॥ ६८ ॥
इत्थं त्वष्टृतनूजस्य लिङ्गाराधनचेतसः ॥
त्रिहायनात्प्रसन्नोभूत्तस्येशः करुणानिधिः ॥ ६९ ॥
तस्मादेव हि लिङ्गाच्च प्रादुर्भूय भवोऽब्रवीत् ॥
वरं वरय रे त्वाष्ट्र दृढभक्त्यानया तव ॥ ॥ 4.2.86.७० ॥
प्रसन्नोस्मि भृशं बाल गुर्वर्थकृतचेतसः ॥
गुरुणा गुरुपत्न्या च गुर्वपत्यद्वयेन च ॥ ७१ ॥
यथार्थितं तथा कर्तुं ते सामर्थ्यं भविष्यति ॥ ७२ ॥
अन्यान्वरांश्च ते दद्यां त्वाष्ट्र तुष्टस्त्वदर्चया ॥
ताञ्शृणुष्व महाभाग लिङ्गस्यास्याद्भुतश्रियः ॥ ७३ ॥
त्वं सुवर्णादिधातूनां दारूणां दृषदामपि ॥
मणीनामपिरत्नानां पुष्पाणामपि वाससाम् ॥ ७४ ॥
कर्पूरादिसुगन्धीनां द्रव्याणामप्यपामपि ॥
कन्दमूलफलानां च द्रव्याणामपि च त्वचाम्॥ ॥ ७५ ॥
सर्वेषां वस्तुजातानां कर्तुं कर्म प्रवेत्स्यसि ॥
यस्य यस्य रुचिर्यत्र सद्म देवालयादिषु ॥ ७६ ॥
तस्य तस्येह तुष्ट्यै त्वं तथा कर्तुं प्रवेत्स्यसि ॥
सर्वनेपथ्यरचनाः सर्वाः सूपस्य संस्कृतीः ॥७७॥
सर्वाणि शिल्पकार्याणि तौर्यत्रिकमथापि च ॥
सर्वं ज्ञास्यसि कर्तुं त्वं द्वितीय इव पद्मभूः ॥७८॥
नानाविधानि यन्त्राणि नानायुधविधानकम् ॥
जलाशयानां रचनाः सुदुर्गरचनास्तथा ॥ ७९ ॥
तादृक्कर्तुं पुरा वेत्सि यादृङ्नान्योऽधियास्यति ॥
कलाजातं हि सर्वं त्वमवयास्यसि मे वरात् ॥ 4.2.86.८० ॥
सर्वेन्द्रजालिकी विद्या त्वदधीना भविष्यति ॥
सर्वकर्मसु कौशल्यं सर्वबुद्धिवरिष्ठताम् ॥८१ ॥
सर्वेषां च मनोवृत्तिं त्वं ज्ञास्यसि वरान्मम ॥
किं बहूक्तेन यत्स्वर्गे यत्पाताले यदत्र च॥ ८२॥
अतिलोकोत्तरं कर्म तत्सर्वं वेत्स्यसि स्वयम् ॥ ८३ ॥
विश्वेषां विश्वकर्माणि विश्वेषु भुवनेषु च ॥
यतो ज्ञास्यसि तन्नाम विश्वकर्मेति तेऽनघ ॥ ८४ ॥
अपरः को वरो देयस्तव तं प्रार्थयाश्वहो ॥
तवादेयं न मे किञ्चिल्लिङ्गार्चनरतस्य हि ॥ ८५ ॥
अन्यत्रापि हि यो लिङ्गं समर्चयति सन्मतिः ॥
तस्यापि वाञ्छितं देयं किम्पुनर्योविकाशिकम् ॥ ८६ ॥
येन काश्यां समभ्यर्चि येन काश्यां प्रतिष्ठितम् ॥
येन काश्यां स्तुतं लिङ्गं स मे रूपाय दर्पणः॥ ८७ ॥
तत्त्वं स्वच्छोसि मुकुरो मम नेत्रत्रयस्य हि ॥
काश्यां लिङ्गार्चनात्त्वाष्ट्र वरं वरय सुव्रत ॥ ८८ ॥
काश्यां यो राजधान्यां मे हित्वा मामन्यमर्चयेत् ॥
स वराकोल्पधीर्मुष्टोऽल्पतुष्टिर्मुक्तिवर्जितः ॥ ८९ ॥
तदानन्दवनेह्यत्र समर्च्योहं मुमुक्षुभिः ॥
द्रुहिणोपेन्द्रचन्द्रेन्द्रैरिहान्यो न समर्च्यते ॥ 4.2.86.९० ॥
यथानन्दवनं प्राप्य त्वं मामर्चितवानसि ॥
तथान्ये पुण्यकर्माणो मामभ्यर्च्यैव मामिताः ॥ ९१ ॥
अनुग्राह्योऽसि नितरां ततो वरय दुर्लभम् ॥
श्राणितं तदवैहि त्वं वद मा चिरयस्व भोः ॥ ९२ ॥
॥ विश्वकर्मोवाच ॥ ॥
इदं यत्स्थापितं लिङ्गं मयाज्ञेनापि शङ्कर ॥
तल्लिङ्गमन्येप्याराध्य सन्तु समृद्धिभाजनम् ॥ ९३ ॥
अन्यच्च नाथ प्रार्थ्योसि तच्च विश्राणयिष्यसि ॥
मया विनिर्मापयिता स्वं प्रासादं कदा भवान् ॥ ९४ ॥
देवदेव उवाच ॥ ॥
एवमस्तु यदुक्तं ते तव लिङ्गसमर्चकाः ॥
समृद्धिभाजनं वै स्युः स्युश्च निर्वाणदीक्षिताः ॥ ९५ ॥
यदा च राजा भविता दिवोदासो विधेर्वरात्॥
तदा मे वचनात्तात प्रासादं मे विधास्यति ॥ ९६ ॥
नवीकृत्य पुनः काशी निर्विष्टा तेन भूभुजा ॥
गणेशमायया राज्यात्परिनिर्विण्णचेतसा ॥ ९७ ॥
विष्णोः सदुपदेशाच्च मामेव शरणं गतः ॥
निर्वाणलक्ष्मीः प्राप्तेह हित्वा राज्यश्रियं चलाम्॥ ९८ ॥
विश्वकर्मन्व्रज गुरोः शासनाय यतस्व च ॥
गुरुभक्तिकृतो यस्मान्मद्भक्ता नात्र संशयः ॥ ९९ ॥
ये गुरुं चावमन्यन्ते तेवमान्या मयाप्यहो ॥
तस्माद्गुरूपदिष्टं हि कुरु शिष्यसमीहितम् ॥ 4.2.86.१०० ॥
तत आगत्य मे पार्श्वं यावन्निर्वाणमेष्यसि ॥
तावत्स्थास्यसि शुद्धात्मा देवानां हितमाचरन् ॥ १ ॥
तवात्र लिङ्गे सततं स्थास्याम्यहमभीष्टदः ॥
अस्य लिङ्गस्य भक्तानां निर्वाणश्रीरदूरतः ॥२ ॥
अङ्गारेशादुदीच्यां ये त्वल्लिङ्गस्यसमर्चकाः ॥
तेषां मनोरथावाप्तिर्भविष्यति पदेपदे ॥ ३ ॥
इत्युक्त्वान्तर्दधे देवस्त्वाष्ट्रोपि गुरुमाप्तवान् ॥
गुरोः समीहितं भूरि विधाय स गृहान्ययौ ॥४॥
गृहेपि मातापितरौ सन्तोष्य निजकर्मणा ॥
तदुक्ताज्ञां समाधाय पुनः काशीं समाययौ ॥ ५ ॥
स्वलिङ्गाराधनासक्तो नाद्यापि त्वष्टृनन्दनः ॥
काशीं त्यजति मेधावी सर्वदेव प्रियं चरन् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
पृष्टानि यानि र्लिगानि त्वया देवि गिरीन्द्रजे ॥
काशी मुक्तौ समर्थानि तान्युक्तानि मया तव॥ ७ ॥
लिङ्गमोङ्कारसञ्ज्ञं च तथा देवं त्रिविष्टपम् ॥
महादेवः कृत्तिवासा रत्नेशश्चन्द्रसञ्ज्ञकः ॥ ८ ॥
केदारश्चापि धर्मेशस्तथा वीरेश्वराभिधः ॥
कामेशविश्वकर्मेशौ मणिकर्णीश्वरस्तथा ॥ ९ ॥
ममार्च्यमविमुक्ताख्यं ततो देवि ममा ख्यकम् ॥
विश्वनाथेति विश्वस्मिन्प्रथितं विश्वसौख्यदम्॥ 4.2.86.११० ॥
अविमुक्तं समासाद्य येन विश्वेश्वरोर्चितः ॥
न तस्यास्ति पुनर्जन्म कल्पकोटिशतेष्वपि ॥ ११ ॥
अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ॥
एकत्र चतुरोमासानब्दं नावास इष्यते ॥ १२ ॥
अविमुक्ते प्रविष्टानां विहारो नैव युज्यते ॥
मोक्षोप्यसंशयश्चात्र तस्मात्त्याज्या न काशिका ॥ १३ ॥
आनन्दकाननं हित्वा नान्यद्गच्छेत्तपोवनम् ॥
तपोयोगश्च मोक्षश्च यतोत्रैव मदाश्रयात् ॥ १४ ॥
कृपया सर्वजन्तूनां क्षेत्रमेतन्मया कृतम् ॥
अवश्यमेव सिद्ध्यन्ति क्षेत्रेस्मिन्सिद्धिकाङ्क्षिणः ॥ २५ ॥
अतीतं वर्तमानं च जानतोऽज्ञानतः कृतम् ॥
यदेनस्तल्लयं यायादानन्दवनवीक्षणात् ॥ १६ ॥
अत्युग्रैश्च तपोभिर्यन्महादानैर्महाव्रतैः ॥
नियमैश्च यमैः सम्यक्त्वयोगेन महामखैः ॥ १७ ॥
वेदान्तशास्त्राभ्यसनैः सर्वोपनिषदाश्रयात् ॥
एभिर्वै यदवाप्येत तत्काश्यां हेलयाप्यते ॥१८॥
कर्मसूत्रेण बद्धा वै भ्राम्यन्ते तावदेव हि ॥
यावद्वैश्वेश्वरे धाम्नि मम नैव तनुत्यजः ॥१९॥
काश्यां स्वलीलया देवि तिर्यग्योनिजुषामपि॥
ददामि चान्ते तत्स्थानं यत्र यान्ति न याज्ञिकाः ॥ 4.2.86.१२० ॥
भूतग्रामोऽखिलोप्यत्र मुक्तिक्षेत्रे कृतालयः ॥
कालेन निधनं यातो यात्येव परमां गतिम् ॥ २१ ॥
विषयासक्तचित्तोपि त्यक्तधर्मरतिस्त्वपि ॥
कालेनोज्झितदेहोऽत्र न संसारं पुनर्विशेत् ॥ २२ ॥
प्रयागे यत्फलं देवि माघे चोपनिमज्जनात् ॥
तत्फलं कोटिगुणितं वाराणस्यां क्षणेक्षणे ॥ २३ ॥
अस्य क्षेत्रस्य महिमा कोपि वाचामगोचरः ॥
उद्देशमात्रमाख्यायि मया ते प्रीतिकाम्यया ॥ २४ ॥
चतुर्दशानां लिङ्गानां श्रुत्वाख्यानानि सत्तमः ॥
चतुर्दश सुलोकेषु पूजां प्राप्स्यत्यनुत्तमाम् ॥ १२५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे विश्वकर्मेश प्रादुर्भावो नाम षडशीतितमोऽध्यायः ॥ ८६ ॥