॥ स्कन्द उवाच ॥ ॥
जगज्जनन्याः पार्वत्याः पुरोगस्ते पुरारिणा ॥
यथाख्यायि कथा पुण्या तथा ते कथयाम्यहम् ॥ १ ॥
पुरा महीमिमां सर्वां ससमुद्राद्रिकाननाम् ॥
ससरित्कां सार्णवां च सग्रामपुरपत्तनाम् ॥ २ ॥
परिभ्रम्य महातेजा महामर्षो महातपाः ॥
दुर्वासाः सम्परिप्राप्तः शम्भोरानन्दकाननम् ॥ ३ ॥
विलोक्याक्रीडमखिलं बहुप्रासादमण्डितम्॥
बहुकुण्डतडागं च शम्भोस्तोषमुपागमत्॥।
पदेपदे मुनीनां च जितकाल महाभियाम् ॥
दृष्टोटजानि रम्याणि दुर्वासा विस्मितोभवत्॥ ॥ ५ ॥
सर्वर्तुकुसुमान्वृक्षान्सुच्छायस्निग्धपल्लवान् ॥
सफलान्सुलताश्लिष्टान्दृष्ट्वा प्रीतिमगान्मुनिः ॥ ६ ॥
दुर्वासाश्चातिहृष्टोभू्द्दृष्ट्वा पाशुपतोत्तमान् ॥
भूतिभूषितसर्वाङ्गाञ्जटाजटितमौलिकान् ॥ ७ ॥
कौपीनमात्र वसनान्स्मरारि ध्यान तत्परान् ॥
कक्षीकृतमहालाबून्हुडुत्कारजिताम्बुदान् ॥ ८ ॥
करण्डदण्डपानीय पात्रमात्रपरिग्रहान् ॥
क्वचित्त्रिदण्डिनो दृष्ट्वा निःसङ्गा निष्परिग्रहान् ॥ ९ ॥
कालादपि निरातङ्कान्विश्वेशशरणं गतान् ॥
क्वचिद्वेदरहस्यज्ञानाबाल्यब्रह्मचारिणः ॥ 4.2.85.१० ॥
नित्यं भागीरथीस्नानपरिपिङ्गलमूर्धजान् ॥ ५॥
विलोक्य काश्यां दुर्वासा ब्राह्मणान्मुमुदेतराम् ॥ ११ ॥
पशुष्वपि च या तुष्टिर्मृगेष्वपि च या द्युतिः ॥
तिर्यक्ष्वपि च या हृष्टिः काश्यां नान्यत्र सा स्फुटम् ॥ १२ ॥
इदं सुश्रेयसो व्युष्टिः क्वामरेषु त्रिविष्टपे ॥
यत्रत्येष्वपि तिर्यक्षु परमानन्दवर्धिनी॥ १३ ॥
वरमेतेपि पशव आनन्दवनचारिणः ॥
सदानन्दाः पुनर्देवाननन्दनवनाश्रिताः ॥ १४ ॥
वरं काशीपुरीवासी म्लेच्छोपि हि शुभायतिः ॥
नान्यत्रत्यो दीक्षितोपि स हि मुक्तेरभाजनम्॥ १५ ॥
वैश्वेश्वरी पुरी चैषा यथा मे चित्तहारिणी ॥
सर्वापि न तथा क्षोणी न स्वर्गो नैव नागभूः॥१६॥
स्थैर्यं बबन्ध न क्वापि भ्रमतो मे मनोगतिः ॥
सर्वस्मिन्नपि भूभागे यथा स्थैर्यमगादिह ॥ १७ ॥
रम्या पुरी भवेदेषा ब्रह्माण्डादखिलादपि ॥
परिष्टुत्येति दुर्वासाश्चेतोवृत्तिमवाप ह ॥ १८ ॥
तप्यमानोपि हि तपः सुचिरं स महातपाः॥
यदा नाप फलं किञ्चिच्चुकोप च तदा भृशम् ॥ १९ ॥
धिक्च मां तापसं दुष्टं धिक्च मे दुश्चरं तपः ॥
धिक्च क्षेत्रमिदं शम्भोः सर्वेषां च प्रतारकम् ॥ 4.2.85.२० ॥
यथा न मुक्तिरत्र स्यात्कस्यापि करवै तथा ॥
इति शप्तुं यदोद्युक्तः सञ्जहास तदा शिवः ॥२१॥
तत्र लिङ्गमभूदेकं ख्यातं प्रहसितेश्वरम् ॥
तल्लिङ्गदर्शनात्पुंसामानन्दः स्यात्पदेपदे ॥ २२ ॥
उवाच विस्मयाविष्टो मनस्येव महेशिता ॥
ईदृशेभ्यस्तपस्विभ्यो नमोस्त्विति पुनःपुनः ॥२३॥
यत्रैव हि तपस्यन्ति यत्रैव विहिताश्रमाः ॥
लब्धप्रतिष्ठा यत्रैव तत्रैवामर्षिणो द्विजाः॥२४॥
मनाक्चिन्तितमात्रं तु चेल्लभन्ते न तापसाः ॥
क्रुधा तदैव जीयन्ते हारिण्या तपसां श्रियः ॥ २५ ॥
तथापि तापसा मान्याः स्वश्रेयोवृद्धिकाङ्क्षिभिः ॥
अक्रोधनाः क्रोधना वा का चिन्ता हि तपस्विनाम् ॥ २६ ॥
इति यावन्महेशानो मनस्येव विचिन्तयेत् ॥
तावत्तत्क्रोधजो वह्निर्व्यानशे व्योममण्डलम् ॥ २७ ॥
तत्कोधानलधूमोघैर्व्यापितं यन्नभोङ्गणम् ॥
तद्दधाति नभोद्यापि नीलिमानं महत्तरम् ॥ २८ ॥
ततो गणाः परिक्षुब्धाः प्रलयार्णव नीरवत् ॥
आः किमेतत्किमेतद्वै भाषमाणाः परस्परम् ॥ २९ ॥
गर्जन्तस्तर्जयन्तश्च प्रोद्यता युधपाणयः ॥
प्रमथाः परितस्थुस्ते परितो धाम शाम्भवम् ॥4.2.85.३०॥
को यमः कोथवा कालः को मृत्युः कस्तथान्तकः॥
को वा विधाता के लेखाः कुद्धेष्वस्मासु कः परः ॥ ३१ ॥
अग्निं पिबामो जलवच्चूर्णीकुर्मोखिलान्गिरीन् ॥
सप्तापि चार्णवांस्तूर्णं करवाम मरुस्थलीम् ॥ ३२ ॥
पातालं चानयामोर्ध्वमधो दध्मोथवा दिवम् ॥
एकमेव हि वा ग्रासं गगनं करवामहे ॥ ३३ ॥
ब्रह्माण्डभाण्डमथवा स्फोटयामः क्षणेन हि ॥
आस्फालयामो वान्योन्यं कालं मृत्युं च तालवत्॥ ३४ ॥
ग्रसामो वाथ भुवनं मुक्त्वा वाराणसीं पुरीम् ॥
यत्र मुक्ता भवन्त्येव मृतमात्रेण जन्तवः ॥ ३५ ॥
कुतोऽयं धूमसम्भारो ज्वालावल्यः कुतस्त्वमूः ॥
को वा मृत्युञ्जयं रुद्रं नो विद्यान्मदमोहितः ॥ ३६ ॥
इति पारिषदाः शम्भोर्महाभय भयप्रदाः ॥ जल्पन्तः कल्पयामासुः प्राकारं गगनस्पृशम्॥३७॥
शकलीकृत्य बहुशः शिलावत्प्रलयानलम् ॥
नन्दी च नन्दिषेणश्च सोमनन्दी महोदरः ॥ ॥ ३८ ॥
महाहनुर्महाग्रीवो महाकालो जितान्तकः ॥
मृत्युप्रकम्पनो भीमो घण्टाकर्णो महाबलः ॥३९॥
क्षोभणो द्रावणो जृम्भी पचास्यः पञ्चलोचनः ॥
द्विशिरास्त्रिशिराः सोमः पञ्चहस्तो दशाननः ॥ 4.2.85.४० ॥
चण्डो भृङ्गिरिटिस्तुण्डी प्रचण्डस्ताण्डवप्रियः ॥
पिचिण्डिलः स्थूलशिराः स्थूलकेशो गभस्तिमान् ॥ ४१ ॥
क्षेमकः क्षेमधन्वा च वीरभद्रो रणप्रियः ॥
चण्डपाणिः शूलपाणिः पाशपाणिः करोदरः ॥ ४२ ॥
दीर्घग्रीवोथ पिङ्गाक्षः पिङ्गलः पिङ्गमूर्धजः ॥
बहुनेत्रो लम्बकर्णः खर्वः पर्वतविग्रहः ॥४३॥
गोकर्णो गजकर्णश्च कोकिलाख्यो गजाननः ॥
अहं वै नैगमेयश्च विकटास्योट्टहासकः ॥४४॥
सीरपाणिः शिवारावो वैणिको वेणुवादनः ॥
दुराधर्षो दुःसहश्च गर्जनो रिपुतर्जनः ॥ ४५ ॥
इत्यादयो गणेशानाः शतकोटि दुरासदाः ॥
काश्यां निवारयामासुरपि प्राभञ्जनीं गतिम् ॥ ४६ ॥
क्षुब्धेषु तेषु वीरेषु चकम्पे भुवनत्रयम् ॥
दुर्वाससश्च कोपाग्नि ज्वालाभिर्व्याकुलीकृतम् ॥ ४७ ॥
तदा विविशतुः काश्यां सूर्याचन्द्रमसावपि ॥
न गणैरकृतानुज्ञौ तत्तेजः शमितप्रभौ ॥ ४८ ॥
निवार्य प्रमथानीकमतिक्षुब्धमुमाधवः ॥
मदम्श एव हि मुनीरानसूये य एष वै ॥ ४९ ॥
अथो दुर्वाससे लिङ्गादाविरासीत्कृपानिधिः ॥
महातेजोमयः शम्भुर्मुनिशापात्पुरीमवन् ॥4.2.85.५०॥
माभूच्छापो मुनेः काश्यां निर्वाणप्रतिबन्धकः ॥
इत्यनुक्रोशतो देवस्तस्य प्रत्यक्षतां गतः॥ ५१ ॥
उवाच च प्रसन्नोस्मि महाक्रोधन तापस ॥
वरयस्व वरः कस्ते मया देयो विशङ्कितः ॥ ५२॥
ततो विलज्जितोगस्त्य शापोद्यतकरो मुनिः ॥
अपराद्धं बहु मया क्रोधान्धेनेति दुर्धिया ॥ ५३ ॥
उवाच चेति बहुशो धिङ्मां क्रोधवशङ्गतम् ॥
त्रैलोक्याभयदां काशीं शप्तुमुद्यतचेतसम् ॥ ५४ ॥
दुःखार्णव निमग्नानां यातायातेति खेदिनाम् ॥
कर्मपाशितकण्ठानां काश्येका मुक्तिसाधनम्॥ ५५॥
सर्वेषां जन्तुजातानां जनन्येकैक्काशिका।
महामृतस्तन्यदात्री नेत्री च परमं पदम् ॥ ५६ ॥
जनन्या सह नो काशी लभेदुपमितिं क्वचित्॥
धारयेज्जननी गर्भे काशी गर्भाद्विमोचयेत् ॥५७ ॥
एवम्भूतां तु यः काशीमन्योपि हि शपिष्यति ॥
तस्यैव शापो भविता न तु काश्याः कथञ्चन ॥ ५८ ॥
इति दुर्वाससो वाक्यं श्रुत्वा देवस्त्रिलोचनः ॥
अतीव तुषितो जातः काशीस्तवन लब्धमुत् ॥५९॥
यः काशीं स्तौति मेधावी यः काशीं हृदि धारयेत् ॥
तेन तप्तं तपस्तीव्रं तेनेष्टं क्रतुकोटिभिः ॥4.2.85.६०॥
जिह्वाग्रे वर्तते यस्य काशीत्यक्षरयुग्मकम् ॥
न तस्य गर्भवासः स्यात्क्वचिदेव सुमेधसः ॥ ६१ ॥
यो मन्त्रं जपति प्रातः काशी वर्णद्वयात्मकम्॥
स तु लोकद्वयं जित्वा लोकातीतं व्रजेत्पदम् ॥६२॥
आनुसूयेय ते ज्ञानं काशीस्तवन पुण्यतः ॥
यथेदानीं समुत्पन्नं तथा न तपसः पुरा ॥ ६३ ॥
मुने न मे प्रियस्तद्वद्दीक्षितो मम पूजकः ॥
यादृक्प्रियतरः सत्यं काशीस्तवन लालसः ॥६४॥
तादृक्तुष्टिर्न मे दानैस्तादृक्तुष्टिर्न मे मखैः ॥
न तुष्टिस्तपसा तादृग्यादृशी काशिसंस्तवैः ॥ ६५ ॥
आनन्दकाननं येन स्तुतमेतत्सुचेतसा ॥
तेनाहं संस्तुतः सम्यक्सर्वैः सूक्तैः श्रुतीरितैः ॥ ६६ ॥
तव कामाः समृद्धाः स्युरानुसूयेय तापस ॥
ज्ञानं ते परमं भावि महामोहविनाशनम् ॥ ६७ ॥
अपरं च वरं ब्रूहि किं दातव्यं तवानघ ॥
त्वादृशा एव मुनयः श्लाघनीया यतः सताम्॥ ६८ ॥
यस्यास्त्वेव हि सामर्थ्यं तपसः क्रुद्ध्यतीहसः ॥
कुपितोप्यसमर्थस्तु किं कर्ता क्षीणवृत्तिवत्॥६९॥
इति श्रुत्वा परिष्टुत्य दुर्वासाः कृत्तिवाससम् ॥
वरं च प्रार्थयामास परिहृष्ट तनूरुहः ॥ 4.2.85.७० ॥
॥दुर्वासा उवाच ॥ ॥
देवदेव जगन्नाथ करुणाकर शङ्कर ॥
महापराधविध्वंसिन्नन्धकारे स्मरान्तक ॥ ७१ ॥
मृत्युञ्जयोग्रभूतेश मृडानीश त्रिलोचन ॥
यदि प्रसन्नो मे नाथ यदि देयो वरो मम ॥ ७२ ॥
तदिदं कामदं नाम लिगमस्त्विह धूर्जटे ॥
इदं च पल्वलं मेत्र कामकुण्डाख्यमस्तु वै ॥ ७३ ॥
॥ देवदेव उवाच ॥ ॥
एवमस्तु महातेजो मुने परमकोपन ॥
यत्त्वया स्थापितं लिङ्गं दुर्वासेश्वरसञ्ज्ञितम्॥ ७४ ॥
तदेव कामकृन्नृणां कामेश्वरमिहास्त्विति ॥
यः प्रदोषे त्रयोदश्यां शनिवासरसंयुजि ॥ ७५ ॥
संस्नास्यति नरो धीमान्कामकुण्डे त्वदास्पदे ॥
त्वत्स्थापितं च कामेशं लिङ्गं द्रक्ष्यति मानवः ॥ ७६ ॥
स वै कामकृताद्दोषाद्यामीं नाप्स्यति यातनाम् ॥
बहवोपि हि पाप्मानो बहुभिर्जन्मभिः कृताः ॥ ७७ ॥
कामतीर्थाम्बु संस्नानाद्यास्यन्ति विलयं क्षणात् ॥
कामाः समृद्धिमाप्स्यन्ति कामेश्वर निषेवणात् ॥ ७८ ॥
इति दत्त्वा वराञ्शम्भुस्तल्लिङ्गे लयमाययौ॥ ॥
स्कन्द उवाच ॥
तल्लिङ्गाराधनात्कामाः प्राप्ता दुर्वाससा भृशम् ॥ ७९ ॥
तस्मात्सर्वप्रयत्नेन काश्यां कामेश्वरः सदा ॥
पूजनीयः प्रयत्नेन महाकामाभिलाषुकैः ॥4.2.85.८० ॥
कामकुण्डकृतस्नानैर्महापातकशान्तये ॥
इदं कामेश्वराख्यानं यः पठिष्यति पुण्यवान् ॥
यः श्रोष्यति च मेधावी तौ निष्पापौ भविष्यतः ॥ ८१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां चतुर्थे काशीखण्ड उत्तरार्धे दुर्वाससो वरप्रदानं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥