०८२ वीरेश्वराविर्भावेऽमित्रजित्पराक्रमः

॥ पार्वत्युवाच ॥ ॥
वीरेशस्य महेशान श्रूयते महिमा महान् ॥
परां सिद्धिं परोपतुस्तत्र सिद्धाः परः शताः ॥१॥
कथमाविर्भवस्तस्य काश्यां लिङ्गवरस्य तु ॥
आशुसिद्धिप्रदस्येह तन्मे ब्रूहि जगत्पते ॥ ॥ २ ॥
॥ महेश्वर उवाच ॥ ॥
निशामय महादेवि वीरेशाविर्भवं परम् ॥
यं श्रुत्वापि नरः पुण्यं प्राप्नोति विपुलं शिवे ॥३॥
आसीदमित्रजिन्नाम राजा परपुरञ्जयः ॥
धार्मिकः सत्त्वसम्पन्नः प्रजारञ्जनतत्परः ॥ ४ ॥
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥
सदैवावभृथस्नानपरिक्लिन्न शिरोरुहः ॥ ५ ॥
विनीतो नीतिसम्पन्नः कुशलः सर्वकर्मसु ॥
विद्याब्धिपारदृश्वा च गुणवान्गुणिवत्सलः ॥ ६ ॥
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥
सत्यवाक्छौचनिलयः स्वल्पवाग्विजितेन्द्रियः ॥ ७ ॥
रणाङ्गणे कृतान्ताभः सङ्ख्यावांश्च सदोजिरे ॥
कामिनीकामकेलिज्ञो युवापि स्थविरप्रियः ॥ ८ ॥
धर्मार्थैधितकोशश्च समृद्धबलवाहनः ॥
सुभगश्च सुरूपश्च सुमेधाः सुप्रजाश्रयः ॥९॥
स्थैर्य धैर्य समापन्नो देशकालविचक्षणः ॥
मन्यमानप्रदो नित्यं सर्वदूषणवर्जितः ॥ 4.2.82.१० ॥
वासुदेवाङ्घ्रियुगले चेतोवृत्तिं निधाय सः ॥
चकार राज्यं निर्द्वन्द्वं विष्वगीति विवर्जितम् ॥ ११ ॥
अलङ्घ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥
अभुनक्प्रचुरान्भोगान्समन्ताद्विष्णुसात्कृतान् ॥ १२ ॥
हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे ॥
तस्य राज्ये समभवन्महाभाग्यनिधेः शिवे ॥१३॥
गोविन्दगोपगोपाल गोपीजनमनोहर ॥
गदापाणे गुणातीत गुणाढ्य गरुडध्वज ॥ १४ ॥
केशिहृत्कैटभाराते कंसारे कमलापते ॥
कृष्णकेशव कञ्जाक्ष कीनाश भयनाशन ॥ १५ ॥
पुरुषोत्तम पापारे पुण्डरीकविलोचन ॥
पीतकौशेयवसन पद्मनाभ परात्पर ॥ १६ ॥
जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः ॥
जन्मिनां जन्महरण जञ्जपूकाघनाशन ॥ १७ ॥
श्रीवत्सवक्षः श्रीकान्त श्रीकर श्रेयसां निधे ॥
श्रीरङ्गशार्ङ्गकोदण्ड शौरे शीतांशुलोचन ॥ १८ ॥
दैत्यारे दानवाराते दामोदर दुरन्तक ॥
देवकीहृदयानन्द दन्दशूकेश्वरेशय ॥ १९॥
विष्णो वैकुण्ठनिलय बाणारे विष्टरश्रवः ॥
विष्वक्सेन विराधारे वनमालिन्वनप्रिय ॥ 4.2.82.२० ॥
त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज ॥
इत्यादीनि पवित्राणि नामानि प्रतिमन्दिरम् ॥ २१ ॥
स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु ॥
श्रूयते यत्रकुत्रापि रम्याणि मधुविद्विषः ॥ २२ ॥
सुरसाकाननान्येव विलोक्यन्ते गृहेगृहे॥
चरित्राणि विचित्राणि पवित्राण्यब्धिजापतेः ॥ २३ ॥
सौधभित्तिषु दृश्यन्ते चित्रकृन्निर्मितानि तु ॥
ऋते हरिकथायास्तु नान्या वार्ता निशम्यते ॥ ॥ २४ ॥
हरिणा नैव विध्यन्ते हरिनामांशधारिणः ॥
तस्य राज्ञो भयाद्व्याधैररण्यसुखचारिणः ॥ २५ ॥
न मत्स्या नैव कमठा न वराहाश्च केनचित् ॥
हन्यन्ते क्वापि तद्भीत्या मत्स्यमांसाशिनापि वै ॥ २६ ॥
अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित् ॥
स्तनपानं न कुर्वन्ति सम्प्राप्य हरिवासरम् ॥ २७ ॥
पशवोपि तृणाहारं परित्यज्य हरेर्दिने ॥
उपोषणपरा जाता अन्येषां का कथा नृणाम् ॥ २८ ॥
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥
तस्मिन्प्रशासति भुवं सम्प्राप्ते हरिवासरे ॥ २९ ॥
स एव दण्ड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ ॥
यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ॥ 4.2.82.३० ॥
अन्त्यजा अपि तद्राष्ट्रे शङ्खचक्राङ्कधारिणः ॥
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥ ३१ ॥
शुभानि यानि कर्माणि क्रियन्तेऽनुदिनं जनैः ॥
वासुदेवे समर्प्यन्ते तानि तैरफलेप्सुभिः ॥ ३२ ॥
विना मुकुन्दं गोविदं परमानन्दमच्युतम् ॥
नान्यो जप्येतमन्येत न भज्येत जनैः क्वचित् ॥ ३३ ॥
कृष्ण एव परो देव कृष्णएव परागतिः ॥
कृष्ण एव परो बन्धुस्तस्यासीदवनीपतेः ॥३४॥
एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति ॥
एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ॥३५॥
राज्ञा समर्चितः सोथ मधुपर्क विधानतः ॥
नारदो वर्णयामास तममित्रजितं नृपम् ॥ ३६ ॥
॥ नारद उवाच ॥ ॥
धन्योसि कृतकृत्योसि मान्योप्यसि दिवौकसाम् ॥
सर्वभूतेषु गोविन्दं परिपश्यन्विशाम्पते ॥ ३७ ॥
यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥
योन्तरात्मास्य जगतः कर्ता हर्ताविता विभुः ॥ ३८ ॥
तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥
दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ॥ ३९ ॥
एक एव हि सारोत्र संसारे क्षणभङ्गुरे ॥
कमलाकान्त पादाब्ज भक्तिभावोऽखिलप्रदः ॥ 4.2.82.४० ॥
परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत् ॥
सुमेधसं भजन्ते तं पदार्थाः सर्व एव हि ॥ ४१ ॥
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥
स एव स्थैर्यमाप्नोति ब्रह्माण्डेऽतीव चञ्चले ॥ ४२ ॥
यौवनं धनमायुष्यं पद्मिनीजलबिन्दुवत् ॥
अतीव चपलं ज्ञात्वाऽच्युतमेकं समाश्रयेत् ॥ ४३ ॥
वाचि चेतसि सर्वत्र यस्य देवो जनार्दनः ॥
स एव सर्वदा वन्द्यो नररूपी जनार्दनः ॥ ४४ ॥
निर्व्याज प्रणिधानेन शीलयित्वा श्रियःपतिम् ॥
पुरुषोत्तमतां को न प्राप्तवानिह भूतले ॥ ४५ ॥
अनया विष्णुभक्त्या ते सन्तुष्टेन्द्रियमानसः ॥
उपकर्तुमना ब्रूयां तन्निशामय भूपते ॥ ४६ ॥
बाला विद्याधरसुता नाम्ना मलयगन्धिनी ॥
क्रीडन्ती पितुराक्रोडे हृता कङ्कालकेतुना ॥ ४७ ॥
कपालकेतुपुत्रेण दानवेन बलीयसा ॥
आगामिन्यां तृतीयायां तस्याः पाणिग्रहृं किल ॥ ४८ ॥
पाताले चम्पकावत्यां नगर्यां सास्ति साम्प्रतम् ॥
हाटकेशात्समागच्छंस्तया हंसाश्रुनेत्रया ॥ ४९ ॥
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निथामय ॥
ब्रह्मचारिन्मुनिश्रेष्ठ गन्धमादनशैलतः ॥ 4.2.82.५० ॥
बालक्रीडनकासक्तां मोहयित्वा निनाय सः ॥
कङ्कालकेतुर्दुर्वृत्तो दुर्जयोन्यास्त्रघाततः ॥ ५१ ॥
स्वस्य त्रिशूलघातेन म्रियते नान्यथा रणे ॥
जगत्पर्याकुलीकृत्य निद्रात्यत्रविनिर्भयः ॥ ५२ ॥
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥
मद्दत्तेन त्रिशूलेन नयेद्भद्रं भवेन्नरः ॥ ५३ ॥
यदत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्टदानवात् ॥
ममापि हि वरो दत्तो भगवत्या महामुने ॥ ५४ ॥
विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ॥
आ तृतीया तिथि यथा तद्वाक्यं तथ्यतां व्रजेत् ॥ ५५ ॥
तथा निमित्तमात्रं त्वं भव यत्नं समाचर ॥
इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥
युवानं चापि धीमन्तं त्वामनु प्राप्तवानहम् ॥५६॥
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम् ॥
आनयाशु महाबाहो शुभां मलयगन्धिनीम् ॥ ५७ ॥
सा तु विद्याधरी जीवेद्विलोक्य त्वां नरेश्वर ॥
पार्वतीवचनाद्दुष्टं घातयिष्यत्ययत्नतः ॥ ५८ ॥
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥
अनल्पोत्कलिको जातो विद्याधरसुतां प्रति ॥ ५९ ॥
उपायं चापि पप्रच्छ गन्तुं तां चम्पकावतीम् ॥
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ॥ 4.2.82.६० ॥
तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ॥
भवान्द्रक्ष्यति पोतस्थः कल्पवृन्दारथस्थितम् ॥६१॥
तत्र दिव्याङ्गना काचिद्दिव्यपर्यङ्क संस्थिता ॥
वीणामादाय गायन्ती गाथां गास्यति सुस्वरम् ॥ ६२ ॥
यत्कर्मविहितं येन शुभं वाथ शुभेतरम् ॥
स एव भुङ्क्ते तत्तथ्यं विधिसूत्रनियन्त्रितः ॥ ६३ ॥
गाथामिमां सा सङ्गीय सरथा स महीरुहा ॥
सपर्यङ्का क्षणादेव मध्ये सिन्धुं प्रवेक्ष्यति ॥६४॥
भवानप्यविशङ्कं च ततः पोतान्महार्णवे ॥
तामनु व्रजतु क्षिप्रं यज्ञवाराहमास्तुवन् ॥६५॥
ततो द्रक्ष्यसि पाताले नगरीं चम्पकावतीम् ॥
महामनोहरा राजन्सहितां बालयानया ॥६६॥
इत्युक्त्वान्तर्हितो देवि स चतुर्मुखनन्दनः ॥
राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ॥ ६७ ॥
विवेशान्तःसमुद्रं च नगरीमाससाद ताम् ॥
साथ विद्याधरी बाला नेत्रप्राघुणकी कृता ॥ ६८ ॥
तेन राज्ञा त्रिजगती सौन्दर्यश्रीरिवैकिका ॥
पातालदेवतेयं वा ममनेत्रोत्सवाय किम् ॥६९॥
निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा ॥
कुहूराहुभयादेषा कान्तिश्चान्द्रमसी किमु ॥4.2.82.७०॥
योषिद्रूपं समाश्रित्य तिष्ठतेऽत्राकुतोऽभया ॥
इत्थं क्षणं तां निर्वर्ण्य स राजागात्तदन्तिकम् ॥ ७१ ॥
सा विलोक्याथ तं बाला नितरां मधुराकृतिम् ॥
विशालोरस्थलतलं प्रलम्बतुलसीस्रजम् ॥ ७२ ॥
शङ्खचक्राङ्कसुभग भुजद्वयविराजितम् ॥
हरिनामाक्षरसुधा सुधौत रदनावलिम् ॥ ७३ ॥
भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम् ॥
मनोरथफलैः पूर्णमासीद्धृष्टतनूरुहा ॥७४॥
दोलापर्यङ्कमुत्सृज्य ह्रीभरा नम्रकन्धरा ॥
वेपथुं च परिष्टभ्य बाला प्रोवाच भूपतिम् ॥७५ ॥
कस्त्वमत्र कृतान्तस्य भवनं मधुराकृते ॥
प्राप्तो मे मन्दभाग्यायाश्चेतोवृत्तिं निरुन्धयन् ॥ ७६ ॥
यावन्नायाति सुभग स कठोरतराकृतिः ॥
अतिपर्याकुलीकृत्य त्रिलोकीं दानवो मुहुः ॥७७॥
कङ्कालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ॥
तावद्गुप्तं समातिष्ठ शस्त्रागारेति गह्वरे ॥७८॥
न मे कन्याव्रतं भङ्क्तुं स समर्थ उमा वरात्॥
आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ॥ ७९ ॥
सञ्चिकीर्षति दुष्टात्मा गतायुर्मम शापतः ॥
मा तद्भीतिं कुरु युवंस्तत्कार्यं भविताचिरम् ॥ 4.2.82.८० ॥
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ॥
स्थितो वीरो महाबाहुर्दानवागमने क्षणः ॥८१॥
अथ सायं समायातो दानवो भीषणाकृतिः॥
त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ॥ ८२ ॥
आगत्य दानवो रौद्रः प्रलयाम्बुदनिस्वनः ॥
विद्याधरीं जगादेति मदाघूर्णितलोचनः ॥८३॥
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥
कन्यात्वं च परश्वस्ते पाणिग्राहादपैष्यति ॥ ८४ ॥
दासीनामयुतं प्रातर्दास्यामि तव सुन्दरि ॥
आसुरीणां सुरीणां च दानवीनां मनोहरम् ॥ ८५ ॥
गन्धर्वीणां नरीणां च किन्नरीणां शतंशतम् ॥
विद्याधरीणां नागीनां यक्षिणीनां शतानि षट् ॥ ८६ ॥
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥
एतास्ते परिचारिण्यो भविष्यन्त्यमलाशये ॥ ८७ ॥
यावत्सम्पत्तिसम्भारो दिक्पालानां गृहेषु वै ॥
मत्परिग्रहतां प्राप्य तावतस्त्वमिहेश्वरी ॥ ८८ ॥
दिव्यान्भोगान्मया सार्धं भोक्ष्यसे मत्परिग्रहात् ॥
कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ॥ ८९ ॥
त्वदङ्गसङ्गसंस्पर्श सुखसन्दोह मेदुरः ॥
परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ॥ 4.2.82.९० ॥
मनोरथाश्चिरं यावद्यं मे हृदि समेधिताः ॥
तान्कृतार्थी करिष्यामि परश्वस्तव सङ्गमात् ॥ ९१ ॥
जित्वा देवान्रणे सर्वानिन्द्रादीन्मृगलोचने ॥
त्रैलोक्यैश्वर्यसम्पत्तेस्त्वां करिष्यामि चेश्वरीम् ॥ ९२ ॥
आधायाङ्के त्रिशूलं स्वे सुष्वापेति प्रलप्य सः ॥
नरमांसवसास्वाद प्रमत्तो वीतसाध्वसः ॥ ॥९३॥
वरं स्मरन्ती सा गौर्या विद्याधरकुमारिका ॥
विज्ञाय तं प्रमत्तं च सुसुप्तं चातिनिर्भयम् ॥ ९४ ॥
आहूय तं नरवरं वरं सर्वाङ्गसुन्दरम् ॥।
विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ॥ ९५ ॥
शूलं तदङ्कादादाय गृहाणेमं जहि द्रुतम् ॥
इति त्रिशूलं बालातो बालार्कसदृशद्युति ॥ ९६ ॥
समादाय महाबाहुः स तदा मित्रजिन्नृपः ॥
जहर्ष च जगादोच्चैर्बालायाश्चाभयं दिशन् ॥ ९७ ॥
वामपादप्रहारेण तमाताड्य स निर्भयः ॥
संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम् ॥ ९८ ॥
जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस ॥
युध्यस्वात्र मया सार्धं न सुप्तं हन्म्यहं रिपुम् ॥९९॥
इति संश्रुत्य सम्भ्रान्त उत्थाय स दनोः सुतः ॥
त्रिशूलं देहि मे कान्ते प्रोवाचेति मुहुर्मुहुः ॥ 4.2.82.१०० ॥
कोयं मृत्युगृहं प्राप्तः कस्य रुष्टोऽद्य चान्तकः ॥
क आयुषाद्य सन्त्यक्तो यः प्राप्तो मम गोचरम् ॥१ ॥
मम प्रचण्ड दोर्दण्ड कण्डू कण्डूयन क्षमः ॥
नाल्पो नरोयं भविता किं त्रिशूलेन सुन्दरि ॥२॥
माभैर्मे कौतुकं पश्य भक्ष्योऽयं मम साम्प्रतम् ॥
कालेन मत्तो भीतेन स्वयमेवोपढौकितः ।६३ ॥
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दनुसूनुना ॥
हृदये निहतो राजा शिलातिकठिने द्रुतम् ॥ ४ ॥
स चक्रिणा कृतत्राणः पीडामल्पीयसीमपि ॥
नो वेद कठिनोरस्कस्तत्करं प्रत्युतानुदत् ॥ ५ ॥
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥
आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ॥ ६ ॥
उवाच च वचो धैर्यमवष्टभ्य महाबली ॥ ७ ॥
॥ दानव उवाच ॥ ॥
ज्ञातं न त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥
आयातश्छिद्रमासाद्य हन्तुं मां दानवान्तकः ॥ ८ ॥
एकं विधेहि मधुभिद्यदि त्वं बलवानसि ॥
विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया ॥९॥
त्वया कपटरूपेण बलिनः कैटभादयः ॥
न बलेन हताः सङ्ख्ये हता एवच्छलेन हि ॥ 4.2.82.११० ।
बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥
नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ॥ ११ ॥
त्वया जटिलरूपेण लङ्केशो विनिपातितः ॥
गोपालवेषमासाद्य कंसाद्या घातितास्त्वया ॥ १२ ॥
स्त्रीरूपेणाहरस्त्वं तु विप्रलाप्या सुरान्सुधाम् ॥
यादो रूपेण भवता शङ्खाद्यानि हता बहु ॥१३॥
मायाविनामग्रगण्य सर्वमर्मज्ञसाधक ॥
न त्वत्तोहं बिभेम्यद्य यदि शूलं विहास्यसि ॥ १४ ॥
अथवा दैन्यवचनः किमेभिः कातरोचितैः ॥
न त्यक्ष्यसि त्रिशूलं त्वं न त्वां जेष्याम्यहं रणे ॥ १५ ॥
अवश्यमेव मर्तव्यमद्य प्रातः शरीरिणा ॥
त्वत्करेण वरं मृत्युर्बलेनापिच्छलेन वा ॥ १६ ॥
इयं विद्याधरी कन्या न मया दूषिता सती ॥
साक्षाच्छ्रीरेव मन्तव्या तवार्थं रक्षिता मया ॥ १७ ॥
इत्युक्त्वा वामदोर्दण्डप्रहारेणातिनिष्ठुरम् ॥
निजघान दनोः सूनुस्तं शिलोच्चयकम्पिना ॥ १८ ॥
नृपो वक्षः प्रहारं तं विषह्य रण मूर्द्धनि ॥
लक्षीचकार तद्वक्षस्त्रिशूलं तोलयन्करे ॥ १९ ॥
निजघान महाबाहुः स च प्राणाञ्जहौ क्षणात् ॥
इत्थं कङ्कालकेतुं स निहत्य सुरकम्पनम् ॥ 4.2.82.१२० ॥
विद्याधरीं प्रपश्यन्तीं प्राह हृष्टतनूरुहाम् ॥
नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वाञ्छितम् ॥ २१ ॥
कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥
श्रुत्वेति तस्य सा वाक्यं प्राह गम्भीरचेतसः ॥ २२ ॥
मलयगन्धिन्युवाच ॥ ॥
अथोदारमते वीर निज प्राणैः पणीकृताम् ॥
किं मां पृच्छसि जीवातो कुलकन्या प्रदूषिताम् ॥ २३ ॥
इति ब्रुवत्यां कन्यायां पुनः स्वैरचरो मुनिः ॥
अतर्कितागमः प्राप्तो नारदो देवलोकतः ॥२४॥
ततस्तुतुषतुस्तौ तु दृष्ट्वा तं मुनिसत्तमम् ॥
कृतप्रणामौ मुनिना परिविश्राणिताशिषौ ॥२५॥
पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥
जग्मतुर्नारदादिष्ट वर्त्मना कृतमङ्गलौ ॥ २६ ॥
तया मलयगन्धिन्या युतः सोऽमित्रजिन्नृपः ॥
पुरीं वाराणसीं प्राप्य पौरैर्विहितमङ्गलाम् ॥ २७ ॥
यद्वीक्षणादपि नरो नारकी नैव जातुचित् ॥
गतिमाप्नोति मेधावी तां पुरीमविशन्नृपः ॥ २८ ॥
यस्यां पुर्यां प्रवेशं न लभन्ते वासवादयः ॥
कैवल्यजनयित्र्यां हि तां पुरीमविशन्नृपः ॥२९॥
अपि स्मृत्वा पुरीं यां वै काशीं त्रैलोक्यकाङ्क्षिताम् ॥
न नरो लिप्यते पापैस्तां विवेश स भूपतिः ॥॥ 4.2.82.१३० ॥
यस्यां पुर्यां प्रविष्टो ना महद्भिरपि पातकैः ॥
नाभिभूयेत तां काशीं प्राविशत्स विशाम्पतिः ॥ ३१ ॥
सापि विद्याधरी काशी समृद्धिं वीक्ष्य दूरतः ॥
निनिन्द स्वर्गलोकं च पातालनगरीमपि ॥ ३२ ॥
प्राप्या मित्रजितं कान्तं तथा हृष्टा न सा वधूः ॥
यथा दृष्ट्वाप्यहो काशीं परमानन्दकेतनम् ॥ ३३ ॥
सा कृतार्थमिवात्मानं मन्यमाना मनस्विनी ॥
तेन पत्या च काश्या च परां निर्वृतिमाययौ ॥ ३४ ॥
सोप्यमित्रजिदासाद्य पत्नीं मलयगन्धिनीम् ॥
धर्मप्रधानं संसेव्य कामं प्राप्तोत्तमं सुखम् ॥ ३५ ॥
सैकदा तं पतिं राज्ञी विष्णुभक्तिपरायणम् ॥
रहो विज्ञापयाञ्चक्रे पतिभक्ता सुतार्थिनी ॥ ३६ ॥
॥ राज्ञ्युवाच ॥ ॥
भूपाभीष्टतृतीयायाश्चरिष्यामि महाव्रतम् ॥
यद्यनुज्ञा भवेद्भर्तुः पुत्रकामार्थितप्रदम् ॥ ३७ ॥
॥ राजोवाच ॥ ॥
देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ॥
का देवता तत्र पूज्या विधानं चापि किं फलम् ॥ ३८ ॥
नारी पत्यननुज्ञाता या व्रतादि समाचरेत् ॥
जीवन्ती दुःखिनी सा स्यान्मृता निरयमृच्छति ॥ ३९ ॥
इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥
इति कर्तव्यतां तस्य व्रतस्य सरहस्यकाम्॥4.2.82.१४०॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्ध वीरेश्वराविर्भावेऽमित्रजित्पराक्रमो नाम द्व्यशीतितमोध्यायः ॥ ८२ ॥