॥ अगस्त्य उवाच ॥ ॥
धर्मतीर्थस्य माहात्म्यं कीदृग्देवेन शम्भुना ॥
स्कन्द देव्यै समाख्यातं तदाख्याहि कृपां कुरु ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
विन्ध्योन्नतिहृदाख्यामि धर्मतीर्थसमुद्भवम् ॥
आकर्णय महाप्राज्ञ यथा देवेन भाषितम् ॥ २ ॥
वृत्रं निहत्य वृत्रारिर्ब्रह्महत्यामवाप्तवान् ॥
अनुतप्तोथ पप्रच्छ प्रायश्चित्तं पुरोहितम् ॥ ३ ॥
॥ बृहस्पतिरुवाच ॥ ॥
यदि त्वं देवराजेमां ब्रह्महत्यां सुदुस्त्यजाम् ॥
अपानुनुत्सुस्तद्याहि काशीं विश्वेशपालिताम् ॥ ४ ॥
नान्यत्किञ्चित्क्वचिद्दृष्टं ब्रह्महत्यामहौषधम् ॥
राजधानीं परित्यज्य शक्र विश्वेशितुः पराम् ॥ ५ ॥
भैरवस्यापिहस्ताग्रादपतद्वैधसं शिरः ॥
यत्रानन्दवने तत्र वृत्रशत्रो व्रज द्रुतम् ॥६॥
सीमानमपि सम्प्राप्य शक्रानन्दवनस्य हि ॥
ब्रह्महत्या पलायेत वेपमाना निराश्रया ॥ ७ ॥
अन्येषामपि पापानां महापापजुषामपि ॥
नाशयित्री परा काशी विश्वेश समधिष्ठिता ॥ ८ ॥
महापातकतो मुक्तिः काश्यामे व शतक्रतो ॥
महासंसारतो मुक्तिः काश्यामेव न चान्यतः ॥९॥
निर्वाणनगरी काशी काशी सर्वाघसङ्घहृत् ॥
विश्वेशितुः प्रिया काशी द्यौः काशी सदृशी नहि ॥ ॥ 4.2.81.१० ॥
ब्रह्महत्याभयं यस्य यस्य संसारतो भयम्॥
जातुचित्तेन न त्याज्या काशिका मुक्तिकाशिका ॥११॥
जन्तूनां कर्मबीजानां यत्र देहविसर्जने ॥
न जातुचित्प्ररोहोस्ति हरदृष्ट्याप्तशुष्मणाम् ॥ १२ ॥
तां काशीं प्राप्य वृत्रारे वृत्रहत्यापनुत्तये ॥
समाराधय विश्वेशं विश्वमुक्तिप्रदायकम् ॥ १३ ॥
बृहस्पतेरिति वचो निशम्य स सहस्रदृक् ॥
आयाद्द्रुततरं काशीं महापातकघातुकाम् ॥ १४ ॥
स्नात्वोत्तरवहायां च धर्मेशं परितः स्थितः ॥
आराधयन्महादेवं ब्रह्मद्वत्याप नुत्तये ॥ १५ ॥
महारुद्रजपासक्तः सुत्रामाथ त्रिलोचनम् ॥
ददर्श लिङ्गमध्यस्थं स्वभासा दीपिताम्बरम् ॥ १६ ॥
पुनस्तुष्टाव वेदोक्तै रुद्रसूक्तैरनेकधा ॥
विनिष्क्रम्य ततो लिङ्गादाविर्भूय भवोवदत् ॥ १७ ॥
शचीपते प्रसन्नोस्मि वरं वरय सुव्रत ॥
किं देयं द्रुतमाख्याहि धर्मपीठकृतास्पद ॥ १८ ॥
श्रुत्वेति देवदेवस्य स प्रेमवचनं हरिः ॥
सर्वज्ञ किन्तेऽविदितं तमुवाचेति वृत्रहा ॥ १९ ॥
ततस्तत्कृपयानुन्नो धर्मपीठनिषेवणात् ॥
निष्पाद्य तीर्थं तत्रेशोऽत्र स्नाहीन्द्रेति चाब्रवीत् ॥4.2.81.२०॥
तत्रेन्द्रः स्नानमात्रेण दिव्यगन्धोऽभवत्क्षणात् ॥
अवाप च रुचिं चारुं प्राक्तनीं शातयाज्ञिकीम् ॥२१॥
तदाश्चर्यमथो दृष्ट्वा मुनयो नारदादयः ॥
परिसस्नुर्मुदायुक्ता धर्मतीर्थेऽघहारिणि ॥ २२ ॥
अतर्पयन्पितॄन्दिव्यान्व्यधुः श्राद्धानि श्रद्धया ॥
धर्मेशं स्नापयामासुस्तत्तीर्थाम्बुभृतैर्घटैः ॥ २३ ॥
तदा प्रभृति तत्तीर्थं धर्मान्धुरिति विश्रुतम् ॥
ब्रह्महत्यादि पापानामक्लेशं क्षालनं परम् ॥ २४ ॥
यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते ॥
सहस्रगुणितं तत्स्याद्धर्मान्धु स्नानमात्रतः ॥ २५ ॥
गङ्गाद्वारे कुरुक्षेत्रे गङ्गासागरसङ्गमे ॥
यत्फलं लभते मर्त्यो धर्मतीर्थे तदाप्नुयात् ॥ २६ ॥
नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ ॥
स्नात्वा यत्फलमाप्येत धर्मकूपे तदाप्नुयात्॥ २७ ॥
मानसे पुष्करे चैव द्वारिके सागरे तथा ॥
तीर्थे स्नात्वा फलं यत्स्यात्तत्स्याद्धर्मजलाशये ॥२८॥
कार्तिक्यां सूकरक्षेत्रे चैत्र्यां गौरीमहाह्रदे ॥
शङ्खोद्धारे हरिदिने यत्फलं तत्फलं त्विह ॥२९॥
तीर्थद्वयं प्रतीक्षन्ते सिस्नासून्पितरो नरान् ॥
गङ्गायां धर्मकूपे च पिण्डनिर्वपणाशया ॥4.2.81.३०॥
पितामहसमीपे वा धर्मेशस्याग्रतोथ वा ॥
फल्गौ च धर्मकूपे च माद्यन्ति प्रपितामहाः ॥ ३१ ॥
धर्मकूपे नरः स्नात्वा परितर्प्य पितामहान् ॥
गयां गत्वा किमधिकं कर्ता पितृमुदावहम् ॥ ३२ ॥
यथा गयायां तृप्ताः स्युः पिण्डदाने पितामहाः ॥
धर्मतीर्थे तथैव स्युर्न न्यूनं नैव चाधिकम् ॥ ३३ ।
ते धन्याः पितृभक्तास्ते प्रीणितास्तैः पितामहाः॥
पैत्रादृणाद्धर्मतीर्थे निष्कृतिर्यैः कृता सुतैः ॥ ॥ ३४ ॥
तत्तीर्थस्य प्रभावेण निष्पापोभूत्क्षणेन च ॥
प्रणम्य देवदेवेशमिन्द्रोऽगादमरावतीम् ॥३५॥
अपारो महिमा तस्य धर्मतीर्थस्य कुम्भज ॥
तत्कूपे स्वं निरीक्ष्यापि श्राद्धदानफलं लभेत् ॥ ३६ ॥
तत्रापि काकिणी मात्रं यच्छेत्पितृमुदे नरः ॥
अक्षयं फलमाप्नोति धर्मपीठप्रभावतः ॥ ३७ ॥
तत्र यो भोजयेद्विप्रान्यतिनोथ तपस्विनः ॥
सिक्थे सिक्थे लभेत्सोथ वाजपेयफलं स्फुटम् ॥ ३८ ॥
प्राप्यामरावतीं शक्रस्ततो दिविषदां पुरः ॥
धर्मपीठस्य माहात्म्यं महत्काश्यामवर्णयत् ॥ ३९ ॥
आगत्य पुनरप्यत्र शम्भोरानन्दकानने ॥
मुनिवृन्दारकैः सार्धं लिङ्गमस्थापयद्धरिः ॥4.2.81.४०॥
तारकेशात्पश्चिमत इन्द्रेश्वरमितीरितम् ॥
तस्य सन्दर्शनात्पुंसामैन्द्रलोको न दूरतः ॥४१॥
तद्दक्षिणे शचीशश्च स्वयं शच्या प्रतिष्ठितः ॥
शचीशार्चनतः स्त्रीणां सौभाग्यमतुलं भवेत् ॥ ४२ ॥
तत्समीपेस्ति रम्भेशो बहुसौख्यसमृद्धिदः ॥
इन्द्रेश्वरस्य परितो लोकपालेश्वरो परः ॥ ४३ ॥
तदर्चनात्प्रसीदन्ति लोकपालाः समृद्धिदाः ॥
धर्मेशात्पश्चिमाशायां धरणीशः प्रकीर्तितः ॥
तद्दर्शनेन धैर्यं स्याद्राज्ये राजकुलादिषु ॥ ४४ ॥
धर्मेशाद्दक्षिणे पूज्यं तत्त्वेशाख्यं परं नरैः ॥
तत्त्वज्ञानं प्रवर्तेत तल्लिङ्गस्य समर्चनात् ॥ ४५ ॥
धर्मेशात्पूर्वदिग्भागे वैराग्येशं समर्चयेत् ॥
निवृत्तिश्चेतसस्तस्य लिङ्गस्य स्पर्शनादपि ॥ ४६ ॥
ज्ञानेश्वरं तथैशान्यां ज्ञानदं सर्वदेहिनाम् ॥
ऐश्वर्येशमुदीच्यां च लिङ्गाद्धर्मेश्वराच्छुभात् ॥ ४७ ॥
तद्दर्शनाद्भवेन्नृणामैश्वर्यं मनसेप्सितम् ॥
पञ्चवक्त्रस्य रूपाणि लिङ्गान्येतानि कुम्भज ॥४८॥
एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम् ॥
अन्यत्तत्रैव यद्वृत्तं तदाख्यामि मुने शृणु ॥४९॥
यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति ॥
कदम्बशिखरो नाम विन्ध्यपादो महानिह ॥ 4.2.81.५० ॥
दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः ॥
पितर्युपरते राज्यं सम्प्राप्याविजितेन्द्रियः ॥ ५१ ॥
हरेत्पुरन्ध्रीः प्रसभं पौराणां काममोहितः ॥
असाधवः प्रियास्तस्य साधवोऽप्रियतां ययुः ॥ ५२ ॥
अदण्ड्यान्दण्डयाञ्चक्रे दण्ड्येष्वासीत्पराङमुखः ॥
सदैव मृगयाशीलः सोऽभून्मृगयु सङ्गतः ॥ ॥ ५३ ॥
विवासिताः स्वविषयात्तेन सन्मतिदायिनः ॥
धर्माधिकारिणः शूद्रा ब्राह्मणाः करदीकृताः ॥५४॥
परदारेषुसन्तुष्टः स्वदारेषु पराङ्मुखः ॥
आनर्च जातुचिन्नैव देवौ दुःखान्तकारिणौ ॥ ५५ ॥
हारिणौ सर्वपापानां सर्ववाञ्छितदायिनौ ॥
सर्वेषां जगतीसारौ श्रीकण्ठश्रीपतीपती ॥ ५६ ॥
स्वप्रजास्वेक उदितो धूमकेतुरिवापरः ॥
दुर्दमो नाम भूपालः क्षयाया काण्ड एव हि ॥५७॥
स कदाचिन्मृगयुभिः पापर्धि व्यसनातुरः ॥
सार्धं विवेशारण्यानि गृष्टिपृष्ठानुगो हयी ॥ ॥ ५८ ॥
एकाकी दैवयोगेन दुर्दमः सोऽवनीपतिः ।
धन्वी तुरङ्गमारुढोऽविशदानन्दकाननम् ॥ ५९ ॥
स विलोक्याथ सर्वत्र पादपा नवकेशिनः ॥
सुच्छायांश्च सुविस्तारान्गतश्रम इवाभवत् ॥ 4.2.81.६० ॥
सुगन्धेन सुशीतेन सुमदेन सुवायुना ॥
क्षणं संवीजितो राजा पल्लवव्यजनैः कुजैः ॥ ६३ ॥
केवलं मृगया जातस्तत्खेदो न व्यपाव्रजत् ॥
आजन्मजनितः खेदो निरगात्तद्वनेक्षणात् ॥ ६२ ॥
मध्ये वनं स चापश्यत्प्रासादं चुम्बिताम्बरम् ॥
महारत्नशलाकानां रम्यमेकमिवाकरम् ॥६३॥
अथावरुह्य तुरगात्स भूपालोतिविस्मितः ॥
धर्मेशमण्डपं प्राप्य स्वात्मानं प्रशशम्स ह ॥६४॥
धन्योस्म्यहं प्रसन्नोस्मि धन्ये मेद्य विलोचने ॥
धन्यमद्यतनं चाहर्यदपश्यमिमां भुवम् ॥ ६५ ॥
पुनर्निनिन्द चात्मानं धर्मपीठ प्रभावतः ॥
धिङ्मां दुर्जनसंसर्गं त्यक्तसज्जनसङ्गमम् ॥ ६६ ॥
जन्तूद्वेगकरं मूढं प्रजापीडनपण्डितम् ॥
परदारपरद्रव्यापहृत्यासुखमानिनम् ॥६७॥
अद्ययावन्मम गतं वृथाजन्माल्पमेधस ॥
धर्मस्थानानीदृशानि यद्दृष्टानि न कुत्रचित् ॥ ६८ ॥
एवं बहु विनिन्द्य स्वं नत्वा धर्मेश्वरं विभुम् ॥
आरुह्याश्वं ययौ राजा दुर्दमो विषयं स्वकम् ॥ ६९ ॥
ततोमात्यान्समाहूय क्रमायातांश्चिरन्तनान् ॥
नवीनान्परिनिर्वास्य पौरांश्चापि समाह्वयत् ॥ 4.2.81.७० ॥
ब्राह्मणांश्चनमस्कृत्य तेभ्यो वृत्तीः प्रदाय च ॥
पुत्रे राज्यं समारोप्य प्रजाधर्मे निवेश्य च ॥ ७१ ॥
परिदण्ड्य च दण्डार्हान्साधूंश्च परितोष्य च ॥
दारानपि परित्यज्य विषयेषु पराङ्मुखः ॥ ७२ ॥
समागच्छदथैकाकी काशीं श्रेयोविकासिनीम् ॥
धर्मेश्वरं समाराध्य कालान्निर्वाणमाप्तवान् ॥ ७३ ॥
धर्मेशदर्शनान्नित्यं तथाभूतः स दुर्दमः ॥
बभूव दमिनां श्रेष्ठः प्रान्ते मोक्षं च लब्धवान् ॥ ७४ ॥
इत्थं धर्मेश माहात्म्यं मया स्वल्पं निरूपितम् ॥
धर्मपीठस्य माहात्म्यं सम्यक्को वेद कुम्भज ॥ ७९ ॥
इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः ॥
आजन्मसञ्चितात्पापात्स मुक्तो भवति क्षणात् ॥७६॥
श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम्॥
श्रावयेद्ब्राह्मणान्धीमान्पितॄणां तृप्तिकारणम् ॥ ७७ ॥
धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः ॥
सर्वपापर्विनिर्मुक्तो गन्तान्ते शिवमन्दिरम् ॥ ७८ ॥ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे धर्मेश्वराख्याननामैकाशीतितमोध्यायः ॥ ८१ ॥