०८० मनोरथतृतीयाव्रताख्यानम्

॥ स्कन्द उवाच ॥ ॥
कुम्भोद्भूत तदाश्चर्यं विलोक्य जगदम्बिका ॥
उवाच शम्भुं प्रणता प्रणतार्तिहरं परम् ॥१॥
॥ अम्बिकोवाच॥ ॥
अस्य पीठस्य माहात्म्यं महादेव महेश्वर ॥
तिरश्चामपि यज्जातं ज्ञानं संसारमोचनम् ॥ २ ॥
अतः प्रभावं विज्ञाय धर्मपीठस्य धूर्जटे ॥
धर्मेश्वरसमीपेहं स्थास्याम्यद्य दिनावधि ॥ ३ ॥
अत्र लिङ्गे तु ये भक्ताः स्त्रियो वा पुरुषास्तु वा ॥
तेषामभीष्टां संसिद्धिं साधयिष्याम्यहं सदा ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
साधुकृतं त्वया देवि कृतवत्या परिग्रहम् ॥
अस्येह धर्मपीठस्य मनोरथकृतः सताम् ॥ ५ ॥
त एव विश्वभोक्तारो विश्वमान्यास्त एव हि ॥
ये त्वां विश्वभुजामत्र पूजयिष्यन्ति मानवाः ॥ ६ ॥
विश्वे विश्वभुजे विश्वस्थित्युत्पत्तिलयप्रदे ॥
नरास्त्वदर्चकाश्चात्र भविष्यन्त्यमलात्मकाः ॥७॥
मनोरथतृतीयायां यस्ते भक्तिं विधास्यति ॥
तन्मनोरथसंसिद्धिर्भवित्री मदनुग्रहात् ॥ ८ ॥
नारी वा पुरुषो वाथ त्वद्व्रताचरणात्प्रिये ॥
मनोरथानिह प्राप्य ज्ञानमन्ते च लप्स्यते ॥ ९ ॥
॥ देव्युवाच ॥ ॥
मनोरथतृतीयायां व्रतं कीदृक्कथा कथम् ॥
किं फलं कैः कृतं नाथ कथयैतत्कृपां कुरु ॥ 4.2.80.१० ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि यथा पृष्टं भवत्या भवतारिणि ॥
मनोरथव्रतं चैतद्गुह्याद्गुह्यतरं परम् ॥ ११ ॥
पुलोमतनया पूर्वं तताप परमं तपः ॥
किञ्चिन्मनोरथं प्राप्तुं न चाप तपसः फलम् ॥ १२ ॥
अपूपुजत्ततो मां सा भक्त्या परमया मुदा ॥
गीतेन सरहस्येन कलकण्ठीकलेन हि ॥ १३ ॥
तद्गानेनातिसन्तुष्टो मृदुना मधुरेण च ॥
सुतालेन सुरङ्गेण धातुमात्राकलावता ॥ १४ ॥
प्रोवाच तां वरं ब्रूहि प्रसन्नोस्मि पुलोमजे ॥
अनेन च सुगीतेन त्वनया लिङ्गपूजया ॥ १५ ॥
॥पुलोमजोवाच ॥ ॥
यदि प्रसन्नो देवेश तदा यो मे मनोरथः ॥
तं पूरय महादेव महादेवी महाप्रिय ॥ १६ ॥
सर्वदेवेषु यो मान्यः सर्वदेवेषु सुन्दरः ॥
यायजूकेषु सर्वेषु यः श्रेष्ठः सोस्तु मे पतिः ॥ १७ ॥
यथाभिलषितं रूपं यथाभिलषितं सुखम् ॥
यथाभिलषितं चायुः प्रसन्नो देहि मे भव ॥ १८ ॥
यदायदा च पत्या मे सङ्गः स्याद्धृत्सुखेच्छया ॥
तदातदा च तं देहं त्यक्त्वान्यं देहमाप्नुयाम्॥ ॥ १९ ॥
सदा च लिङ्गपूजायां मम भक्तिरनुत्तमा ॥
भव भूयाद्भवहर जरामरणहारिणी ॥ 4.2.80.२० ॥
भर्तुर्व्ययेपि वैधव्यं क्षणमात्रमपीह न ॥
मम भावि महादेव पातिव्रत्यं च यातु मा ॥ २१ ॥
॥ स्कन्द उवाच ॥ ॥
इमं मनोरथं तस्याः पौलोम्याः पुरसूदनः ॥
समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वितः ॥ २६ ॥
ईश्वर उवाच ॥ ॥
पुलोमकन्ये यश्चैष त्वयाकारि मनोरथः ॥
लप्स्यसे व्रतचर्यातस्तत्कुरुष्व जितेन्द्रिये ॥ २३ ॥
मनोरथतृतीयायाश्चरणेन भविष्यति ॥
तत्प्राप्तये व्रतं वक्ष्ये तद्विधेहि यथोदितम्॥ २४ ॥
तेन व्रतेन चीर्णेन महासौभाग्यदेन तु ॥
अवश्यं भविता बाले तव चैवं मनोरथः ॥ २५ ॥
॥ पुलोमकन्यावोच ॥ ॥
कारुण्यवारिधे शम्भो प्रणतप्राणि सर्वद ॥
किमात्मिकाथ का शक्तिः का पूज्या तत्र देवता ॥ २६ ॥
कदा च तद्विधातव्यमिति कर्तव्यता च का ॥
इत्याकर्ण्य शिवो वाक्यं तां तु प्रणिजगाद ह ॥ २७॥
॥ ईश्वर उवाच ॥ ॥
मनोरथतृतीयायां व्रतं पौलोमि तच्छुभम्॥
पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी ॥ २८ ॥
वरदोऽभयहस्तश्च साक्षसूत्रः समोदकः ॥
देव्याः पुरस्ताद्व्रतिना पूज्य आशाविनायकः॥२९॥
चैत्रशुक्ल तृतीयायां कृत्वा वै दन्तधावनम् ॥
सायन्तनीं च निर्वर्त्य नातितृप्त्या भुजिक्रियाम् ॥4.2.80.३०॥
नियमं चेति गृह्णीयाज्जितक्रोधो जितेन्द्रियः ॥
सन्त्यक्तास्पृश्य संस्पर्शः शुचिस्तद्गतमानसः ॥ ३१ ॥
प्रातर्व्रतं चरिष्यामि मातर्विश्वभुजेनघे ॥
विधेहि तत्र सान्निध्यं मन्मनोरथसिद्धये ॥ ३२ ॥
नियमं चेति सङ्गृह्य स्वपेद्रात्रौ शुभं स्मरन्॥
प्रातरुत्थाय मेधावी विधायावश्यकं विधिम् ॥ ३३ ॥
शौचमाचमनं कृत्वा दन्तकाष्ठं समाददेत् ॥
अशोकवृक्षस्य शुभं सर्वशोकनिशातनम् ॥३४॥
नित्यन्तनं च निष्पाद्य विधिं विधिविदांवरः ॥
स्नात्वा शुद्धाम्बरः सायं गौरीपूजां समाचरेत् ॥ ३५ ॥
आदौ विनायकं पूज्य घृतपूरान्निवेद्य च ॥
ततोर्चयेद्विश्वभुजामशोककुसुमैः शुभैः ॥ ३६ ॥
अशोकवर्तिनैवेद्यैर्धूपैश्चागुरुसम्भवैः ॥
कुङ्कुमेनानुलिप्यादावेकभक्तं ततश्चरेत् ॥ ३७ ॥
अशोकवर्तिसहितैर्घृतपूरैर्मनोहरैः ॥
एवं चैत्रतृतीयायां व्यतीतायां पुलोमजे ॥३८॥
राधादिफाल्गुनान्तासु तृतीयासु व्रतं चरेत् ॥
क्रमेण दन्तकाष्ठानि कथयामि तवानघे ॥३९॥
अनुलेपनवस्तूनि कुसुमानि तथैव च ॥
नैवेद्यानि गजास्यस्य देव्याश्चापि शुभव्रते ॥ 4.2.80.४० ॥
अन्नानि चैकभक्तस्य शृणुतानि फलाप्तये ॥
जम्ब्वपामार्ग खदिर जाती चूतकदम्बकम्॥४१॥
प्लक्षोदुम्बरखर्जूरी बीजपूरी सदाडिमी ॥
दन्तकाष्ठ द्रुमा एते व्रतिनः समुदाहृताः ॥४२॥
सिन्दूरागुरु कस्तूरी चन्दनं रक्तचन्दनम् ॥
गोरोचना देवदारु पद्माक्षं च निशाद्वयम् ॥४३॥
प्रीत्यानुलेपनं बाले यक्षकर्दमसम्भवम् ॥
सर्वेषामप्यलाभे च प्रशस्तो यक्षकर्दमः ॥४४॥
कस्तूरिकाया द्वौ भागौ द्वौ भागौ कुङ्कुमस्य च ॥
चन्दनस्य त्रयो भागाः शशिनस्त्वेक एव हि ॥ ४५ ॥
यक्षकर्दम इत्येष समस्तसुरवल्लभः ॥
अनुलिप्याथ कुसुमैरर्चयेद्वच्मि तान्यपि ॥ ४६ ॥
पाटला मल्लिका पद्म केतकी करवीरकः ॥
उत्पलै राजचम्पैश्च नन्द्यावर्तैश्च जातिभिः ॥ ४७ ॥
कुमारीभिः कर्णिकारैरलाभेतच्छदैः सह ॥
सुगन्धिभिः प्रसूनोघैः सर्वालाभेपि पूजयेत् ॥ ४८ ॥
करम्भो दधिभक्तं च सचूतरसमण्डकाः ॥
फेणिका वटकाश्चैव पायसं च सशर्करम् ॥ ४९ ॥
समुद्गं सघृतं भक्तं कार्त्तिके विनिवेदयेत् ॥
इण्डेरिकाश्च लड्डूका माघे लम्पसिका शुभा ॥ 4.2.80.५० ॥
मुष्टिकाः शर्करागर्भाः सर्पिषा परिसाधिताः ॥
निवेद्याः फाल्गुने देव्यै सार्धं विघ्नजिता मुदा ॥ ५१ ॥
निवेदयेद्यदन्नं हि एकभक्तपि तत्स्मृतम् ॥
अन्यन्निवेद्य सम्मूढो भुञ्जानोऽन्यत्पतेदधः ॥ ५२ ॥
प्रतिमासं तृतीयायामेवमाराध्य वत्सरम् ॥
व्रतसम्पूर्तये कुर्यात्स्थण्डिलेऽग्निसमर्चनम् ॥ ५३ ॥
जातवेदसमन्त्रेण तिलाज्यद्रविणेन च ॥
शतमष्टाधिकं होमं कारयेद्विधिना व्रती ॥५४॥
सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम् ॥
नक्त एव हि होमोऽयं नक्त एव क्षमापनम् ॥ ५५ ॥
गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह ॥
नमोस्तु ते विश्वभुजे पूरयाशु मनोरथम् ॥ ५६ ॥
नमो विघ्नकृते तुभ्यं नम आशाविनायक ॥
त्वं विश्वभुजया सार्धं मम देहि मनोरथम् ॥५७॥
एतौ मन्त्रौ समुच्चार्य पूज्या गौरीविनायकौ ॥
व्रतक्षमापने देयः पर्यङ्कस्तूलिकान्वितः ॥ ५८ ॥
उपधान्या समायुक्तो दीपीदपर्णसंयुतः ॥
आचार्यं च सपत्नीकं पर्यङ्क उपवेश्य च ॥ ५९ ॥
व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः ॥
सुगन्धचन्दनैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ॥ 4.2.80.६० ॥
दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये ॥
तथोपभोगवस्तूनिच्छत्रोपानत्कमण्डलुम् ॥ ६१ ॥
मनोरथतृतीयाया व्रतमेतन्मया कृतम् ॥
न्यूनातिरिक्तं सम्पूर्णमेतदस्तु भवद्गिरा ॥६२॥
इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै ॥
आसीमान्तमनुव्रज्य दत्त्वान्येभ्योपि शक्तितः ॥ ६३ ॥
नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः ॥
प्रातश्चतुर्थ्यां सम्भोज्य चतुरश्च कुमारकान् ॥ ६४ ॥
अभ्यर्च्य गन्धमाल्याद्यैर्द्वादशापि कुमारिकाः ॥
एवं सम्पूर्णतां याति व्रतमेतत्सुनिर्मलम् ॥६५॥
कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम् ॥
पत्नीं मनोरमां कुल्यां मनोवृत्त्यनुसारिणीम् ॥६६॥
तारिणीं दुःखसंसारसागरस्य पतिव्रताम् ॥
कुर्वन्नेतद्व्रतं वर्षं कुमारः प्राप्नुयात्स्फुटम् ॥ ६७ ॥
कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम् ॥
सुवासिनी लभेत्पुत्रान्पत्युः सौख्यमखण्डितम् ॥ ६८ ॥
दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी ॥
विधवापि न वैधव्यं पुनराप्नोति कुत्रचित् ॥ ६९ ॥
गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् ॥
ब्राह्मणो लभते विद्यां सर्वसौभाग्यदायिनीम् ॥ 4.2.80.७० ॥
राज्यभ्रष्टो लभेद्राज्यं वैश्यो लाभं च विन्दति ॥
चिन्तितं लभते शूद्रो व्रतस्यास्य निषेवणात् ॥ ७ ॥।
धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ ७२ ॥
यो यो मनोरथो यस्य स तं तं विन्दते ध्रुवम् ॥
मनोरथतृतीयाया व्रतस्य चरणाद्व्रती ॥ ७३ ॥
॥ स्कन्द उवाच ॥ ॥
इत्थं निशम्य शिवतः शिवा सन्तुष्टमानसा ॥
पुनः पप्रच्छ विश्वेशं प्रबद्धकरसम्पुटा ॥ ७४ ॥
अन्यत्र ये व्रतं चैतत्करिष्यन्ति सदाशिव ॥
ते कथं पूजयिष्यन्ति मां च आशाविनायकम् ॥ ७५ ॥ ॥
शिव उवाच ॥ ॥
साधु पृष्टं त्वया देवि सर्वसन्देहभेदिनि ॥
वाराणस्यां समर्च्या त्वं विश्वे प्रत्यक्षरूपिणी ॥७६॥
आशा विघ्नजिता सार्धं सर्वाशापूर्तिकारिणा ॥
हारिणानन्तविघ्नानां मम क्षेत्र शुभार्थिना ॥ ७७ ॥
क्षिप्रमागमयित्वा च नत्वा दूरङ्गतानपि ॥
कृतकृत्यान्विधायाथ चिन्तितैः समनोरथैः ॥ ७८ ॥
अन्यत्र व्रतिभिर्विश्वे काञ्चनीप्रतिमा तव ॥
पञ्चकृष्णलकादूर्ध्वं कार्या विघ्नहृतोपि च ॥ ७९ ॥
आचार्याय व्रती दद्याद् व्रतान्ते प्रतिमा द्वयम् ॥
सकृत्कृते व्रती चास्मिन्कृतकृत्यो व्रती भवेत् ॥ 4.2.80.८० ॥
ततः पुलोमजा देवि श्रुत्वैतद्व्रतमुत्तमम् ॥
कृत्वा मनोरथं प्राप यथाभिवाञ्छितं हृदि ॥८१॥
अरुन्धत्या वसिष्ठोपि लब्धोऽत्रिऽनसूयया ॥
सुनीत्योत्तानपादाच्च ध्रुवः प्राप्तोंऽगजोत्तमः ॥ ८२ ॥
सुनीतेदुर्भर्गत्वं च पुनरस्माद्व्रताद्गतम् ॥
चतुर्भुजः पतिः प्राप्तः क्षीरनीरधिजन्मना ॥ ८३ ॥
किं बहूक्तेन सुश्रोणि कृतंयेन व्रतं त्विदम् ॥
व्रतानि तेन सर्वाणि कृतानि व्रतिना ध्रुवम् ॥ ८४ ॥
श्रुत्वा धीमान्कथां पुण्यां पुनस्तद्गतमानसः ॥
शुभबुद्धिमवाप्नोति पापैरपि विमुच्यते ॥ ८५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे धर्मेश्वराख्याने विश्वभुजाशाविनायकप्रशंसने मनोरथतृतीयाव्रताख्यानं नामाशीतितमोध्यायः ॥ ८० ॥