०७९ धर्मेशाख्यान

॥ स्कन्द उवाच ॥
आनन्दबाष्पसलिलरुद्धकण्ठं विलोक्य तम्॥
मृडः पस्पर्श पाणिभ्यां सौधाभ्यां तु सुधाम्बुधिः ॥ १ ॥
अथ तत्स्पर्शसौख्येन धर्मराजो महातपाः ॥
पुनरङ्कुरयामास तपोग्नि ज्वलितां तनुम् ॥ २ ॥
ततः प्रोवाच स ब्राध्निर्देव देवमुमापतिम् ॥
प्रसन्नवदनं शान्तं शान्तपारिषदावृतम् ॥ ३ ॥
प्रसन्नोसि यदीशान सर्वज्ञ करुणानिधे ॥
किमन्येन वरेणात्र यत्त्वं साक्षात्कृतो मया ॥ ४ ॥
यं न वेदा विदुः सम्यङ्न च तौ वेदपूरुषौ ॥
ततोपि वरयोग्योस्मि तन्नाथ प्रार्थयाम्यहम् ॥ ५ ॥
श्रीकण्ठाण्डज डिम्भानाममीषां मधुरब्रुवाम् ॥
मत्तपश्चिरसाक्षीणां मत्पुरः प्राप्तजन्मनाम् ॥ ६ ॥
पितृभ्यां परिहीनानामितिहास कथाविदाम् ॥
त्यक्ताहारविहाराणां कीराणां वरदो भव ॥७॥
एतत्प्रसूतिसमये आमयेन प्रपीडिता ॥
शुकी पञ्चत्वमापन्ना शुकः श्येनेन भक्षितः ॥ ८ ॥
रक्षितानामनाथानां सदा मन्मुखदर्शिनाम् ॥
अनाथनाथ भवता ह्यायुःशेषस्वरूपिणा ॥ ९ ॥
इति धर्मवचः श्रुत्वा परोपकृतिनिर्मलम् ॥
तानाहूय मुने शम्भुर्विनयावनताननान् ॥4.2.79.१०॥
उवाच धर्मेति प्रीतः शुकशावानिदं वचः ॥
अयि पत्त्ररथा ब्रूत साधवो धर्मसङ्गताः ॥ ११ ॥
को वरो भवता देयो धर्मेश परिचारिणाम् ॥
साधुसंसर्गसङ्क्षीण जन्मान्तरमहैनसाम् ॥ १२ ॥
इति श्रुत्वा महेशस्य वचनं ते पतत्त्रिणः ॥
प्रोचुः प्रणम्य देवेशं नमस्ते भवनाशन ॥ १३ ॥
॥ पक्षिण ऊचुः ॥ ॥
अनाथनाथ सर्वज्ञ को वरो नः समीहितः ॥
इतोपि त्र्यक्ष यत्साक्षात्तिर्यक्त्वेपि समीक्षिताः ॥ १४ ॥
लाभाः सन्तूद्यमवतां गिरीशेह परः शताः ॥
परं परोयं लाभोत्र यत्त्वं दृग्गोचरी भवेः ॥ १५ ॥
यदेतद्दृश्यते नाथ तत्सर्वं क्षणभङ्गुरम् ॥
अभङ्गुरो भवानेकस्त्वत्सपर्याप्यभङ्गुरा ॥ १६ ॥
विचित्रजन्मकोटीनां स्मृतिर्नोत्र परिस्फुरेत् ॥
एतत्तपस्विरचितलिङ्गपूजा विलोकनात् ॥ १७ ॥
देवयोनिरपि प्राप्ता चिरमस्माभिरीशितः ॥
दिव्याङ्गना सहस्राणि तत्र भुक्त्वा स्वलीलया॥ १८ ॥
आसुरी दानवी नागी नैर्ऋती चापि कैन्नरी ॥
विद्याधरी च गान्धर्वी योनिरस्माभिरर्जिता ॥ ॥ १९ ॥
नरत्वे भूपतित्वं च परिप्राप्तमनेकशः ॥
जले जलचरत्वं च स्थले च स्थलचारिता ॥ 4.2.79.२० ॥
वने वनौकसो जाता ग्रामेषु ग्रामवासिनः ॥
दातारो याचितारश्च रक्षितारश्च घातुकाः ॥ २१ ॥
सुखिनोपि वयं जाता दुःखिनो वयमास्म च ॥
जेतारश्च वयं जाताः पराजेतार एव च ॥ २२ ॥
अधीतिनोपि मूर्खाश्च स्वामिनः सेवका अपि ॥
चतुर्षु भूतग्रामेषु उत्तमाधममध्यमाः ॥ २३ ॥
अभूम भूरिशः शम्भो न क्वापि स्थैर्यमागताः ॥
इतोयोनेस्ततो योनौ ततो योनेस्ततोन्यतः ॥ २४ ॥
पिनाकिन्क्वापि न प्रापि सुखलेशो मनागपि ॥
इदानीं पुण्यसम्भारैर्धर्मेश्वरविलोकनात् ॥२५॥
तापनेःसुतपो वह्निज्वालाप्रज्वलितैनसः ॥
संवीक्ष्य त्र्यक्ष साक्षात्त्वां कृतकृत्या बभूविम ॥ २६ ॥
तथापि चेद्वरो देयस्तिर्यक्ष्वस्मासु धूर्जटे ॥
कृपणेष्वपि शोच्येषु ज्ञानं सर्वज्ञ देहि तत् ॥ २७ ॥
येन ज्ञानेन मुक्ताः स्मोऽमुष्मात्संसारबन्धनात् ॥
यन्त्रिताः प्राकृतैः पाशैरदुर्भेद्यैश्च मादृशैः ॥ २८ ॥
ऐन्द्रं पदं न वाञ्छामो न चान्द्रं नान्यदेव हि ॥
वाञ्छामः केवलं मृत्युं काश्यां शम्भोऽपुनर्भवम् ॥ २९ ॥
त्वत्सान्निध्याद्विजानीमः सर्वज्ञ सकलं वयम् ॥
यथा चन्दनसंसर्गात्सर्वे सुरभयो द्रुमाः ॥ 4.2.79.३० ॥
एतदेव परं ज्ञानं संसारोच्छित्तिकारणम् ॥
वपुर्विसर्जनं काले यत्तवानन्दकानने ॥ ३१ ॥
निर्मथ्य विष्वग्वाग्जालं सारभूतमिदं परम् ॥
ब्रह्मणोदीरितं पूर्वं काश्यां मुक्तिस्तनुत्यजाम् ॥३२॥
यद्वाच्यं बहुभिर्ग्रन्थैस्तदष्टाभिरिहाक्षरैः ॥
हरिणोक्तं रविपुरः कैवल्यं काशिसंस्थितौ ॥ ३३ ॥
याज्ञवल्क्यो मुनिवरः प्रोक्तवान्मुनिसंसदि ॥
रवेरधीत्य निगमान्काश्यामन्ते परं पदम् ॥ ३४ ॥
स्वामिनापि जगद्धात्री पुरतो मन्दराचले ॥
इदमेव पुरा प्रोक्तं काशीनिर्वाणजन्मभूः ॥ ३५ ॥
कृष्णद्वैपायनोप्येवं शम्भो वक्ष्यति नान्यथा॥
यत्रविश्वेश्वरः साक्षान्मुक्तिस्तत्र पदेपदे ॥३६॥
वदन्त्यन्येपि मुनयस्तीर्थसन्न्यासकारिणः॥
चिरन्तना लोमशाद्याः काशिका मुक्तिकाशिका ॥ ३७ ॥
वयमप्येवं जानीमो यत्र स्वर्गतरङ्गिणी॥
आनन्दकानने शंर्भोमोक्षस्तत्रैव निश्चितम् ॥ ३८ ॥
भूतं भावि भविष्यं यत्स्वर्गे मर्त्ये रसातले ॥
तत्सर्वमेव जानीमो धर्मेशानुग्रहात्परात् ॥३९॥
अतो हिरण्यगर्भोक्तं हरिप्रोक्तं मुनीरितम् ॥
भवतोक्तं च निखिलं शम्भो जानीमहे वयम्॥4.2.79.४०॥
करामलकवत्सर्वमेतद्ब्रह्माण्डगोलकम् ॥
अस्मद्वाग्गोचरेऽस्त्येव धर्मपीठनिषेवणात् ॥ ४१ ॥
धर्मराजस्य तपसा तिर्यञ्चोपि वयं विभो ॥
जाताः स्म निर्विकल्पं हि सर्वज्ञानस्य भाजनम् ॥ ४२ ॥
मधुरं मृदुलं सत्यं स्वप्रमाणं सुसंस्कृतम् ॥
हितं मितं सदृष्टान्तं श्रुत्वा पक्षिसुभाषितम् ॥ ४३ ॥
देवोतिविस्मयापन्नो ऽवर्णयत्पीठगौरवम् ॥
त्रैलोक्यनगरे चात्र काशीराजगृहं मम ॥ ४४ ॥
तत्रापि भोगभवनमनर्घ्यमणिनिर्मितम् ॥
मोक्षलक्ष्मीविलासाख्यः प्रासादो मेति शर्मभूः ॥ ४५ ॥
पतत्त्रिणो पिमुच्यन्ते यं कुर्वाणाः प्रदक्षिणम् ॥
स्वेच्छया विचरन्तः खे खेचरा अपि देवताः ॥४६॥
मोक्षलक्ष्मीविलासाख्य प्रासादस्य विलोकनात् ॥
शरीराद्दूरतो याति ब्रह्महत्यापि नान्यथा ॥ ४७ ॥
मोक्षलक्ष्मीविलासस्य कलशो यैर्निरीक्षतः ॥
निधानकलशास्तांस्तु न मुञ्चन्ति पदेपदे ॥ ४८ ॥
दूरतोपि पताकापि मम प्रासादमूर्धगा ॥
नेत्रातिथी कृता यैस्तु नित्यं तेऽतिथयो मम ॥ ४९ ॥
भूमिं भित्त्वा स्वयं जातस्तत्प्रासादमिषेण हि ॥
आनन्दाख्यस्य कन्दस्य कोप्येष परमोङ्कुरः ॥4.2.79.५०॥
ब्रह्मादिस्थावरान्तानि यत्र रूपण्यनेकशः ॥
मामेवोपासते नित्यं चित्रं चित्रगतान्यपि ॥५१॥
ससौधो मेखिले लोके स्थानं परमनिर्वृतेः ॥
रतिशाला स मे रम्या स मे विश्वासभूमिका ॥५२॥
मम सर्वगतस्यापि प्रासादोयं परास्पदम् ॥
परं ब्रह्म यदाम्नातं परमोपनिषद्गिरा ॥
अमूर्तं तदहं मूर्तो भूयां भक्तकृपावशात् ॥ ५३ ॥
नैःश्रेयस्याः श्रियो धाम तद्याम्यां मण्डपोस्ति मे ॥
तत्राहं सततं तिष्ठे तत्सदोमण्डपं मम ॥ ५४ ॥
निमेषार्धप्रमाणं च कालं तिष्ठति निश्चलः ॥
तत्र यस्तेन वै योगः समभ्यस्तः समाः शतम् ॥ ५५ ॥
निर्वाणमण्डपं नाम तत्स्थानं जगतीतले ॥
तत्रर्चं सञ्जपन्नेकां लभेत्सर्वश्रुतेः फलम् ॥ ॥ ५६ ॥
प्राणायामं तु यः कुर्यादप्येकं मुक्तिमण्डपे ॥
तेनाष्टाङ्गः समभ्यस्तो योगोऽन्यत्रायुतं समाः ॥ ५७ ॥
निर्वाणमण्डपे यस्तु जपेदेकं षडक्षरम् ॥
कोटिरुद्रेण जप्तेन यत्फलं तस्य तद्भवेत् ॥५८॥
शुचिर्गङ्गाम्भसि स्नातो यो जपेच्छतरुद्रियम् ॥
निर्वाणमण्डपे ज्ञेयः स रुद्रो द्विजवेषभृत् ॥ ५९ ॥
ब्रह्मयज्ञसकृत्कृत्वा मम दक्षिणमण्डपे ॥
ब्रह्मलोकमवाप्याथ परं ब्रह्माधिगच्छति ॥ 4.2.79.६० ॥
धर्मशास्त्रं पुराणानि सेतिहासानि तत्र यः ॥
पठेन्निरभिलाषुः सन्स वसेन्मम वेश्मनि ॥ ६१ ॥
तिष्ठेदिन्द्रियचापल्यं यो निवार्य क्षणं कृती ॥
निर्वाणमण्डपेन्यत्र तेन तप्तं महत्तपः ॥ ६२ ॥
वायुभक्षणतोन्यत्र यत्पुण्यं शरदां शतम् ॥
तत्पुण्यं घटिकार्धेन मौनं दक्षिणमण्डपे ॥ ६३ ॥
मितं कृष्णलकेनापि योदद्यान्मुक्तिमण्डपे ॥
स्वर्णं सौवर्णयानेन स तु सञ्चरते दिवि ॥ ६४ ॥
तत्रैकं जागरं कुर्याद्यस्मिन्कस्मिन्दिनेपि यः ॥
उपोषितोर्चयेल्लिङ्गं स सर्वव्रतपुण्यभाक् ॥ ६५ ॥
तत्र दत्त्वा महादानं तत्र कृत्वा महाव्रतम् ॥
तत्राधीत्याखिलं वेदं च्यवते न नरो दिवः ॥ ६६ ॥
प्रयाणं कुर्वते यस्य प्राणा मे मुक्तिमण्डपे ॥
समामनुप्रविष्टोत्र तिष्ठेद्यावदहं खलु ॥ ६७ ॥
जलक्रीडां सदा कुर्यां ज्ञानवाप्यां सहोमया ॥
यदम्बुपानमात्रेण ज्ञानं जायेत निमर्लम् ॥ ६८ ॥
तज्जलक्रीडनस्थानं मम प्रीतिकरं महत् ॥
अमुष्मिन्राजसदने जाड्यहृज्जलपूरितम् ॥ ६९ ॥
तत्प्रासादपुरोभागे मम शृङ्गारमण्डपः ॥ श्री
पीठं तद्धि विज्ञेयं निःश्रीकश्रीसमर्पणम् ॥4.2.79.७०॥
मदर्थं तत्र यो दद्याद्दुकूलानि शुचीन्यहो ॥
माल्यानि सुविचित्राणि यक्षकर्दमवन्ति च ॥ ७१ ॥
नाना नेपथ्यवस्तूनि पूजोपकरणाऽन्यपि ॥
स श्रियालङ्कृतस्तिष्ठेद्यत्र कुत्रापि सत्तमः ॥७२॥
निर्वाणलक्ष्मीर्वृणुते तं निर्वाणपदाप्तये ॥
यत्र कुत्रापि निधनं प्राप्नुयादपि स ध्रुवम् ॥ ७३ ॥
मोक्षलक्ष्मीविलासाख्य प्रासादस्योत्तरे मम ॥
ऐश्वर्यमडपं रम्यं तत्रैश्वर्यं ददाम्यहम् ॥ ७४ ॥
मत्प्रासादैन्द्रदिग्भागे ज्ञानमण्डपमस्ति यत् ॥
ज्ञानं दिशामि सततं तत्र मां ध्यायतां सताम् ॥ ७५ ॥
भवानि राजसदने ममास्ति हि महानसम् ॥
यत्तत्रोपहृतं पुण्यं निर्विशामि मुदैव तत् ॥ ७६ ॥
विशालाक्ष्या महासौधे मम विश्रामभूमिका ॥
तत्र संसृतिखिन्नानां विश्रामं श्राणयाम्यहम् ॥ ॥ ७७ ॥
नियमस्नानतीर्थं च चक्रपुष्करिणी मम ॥
तत्र स्नानवतां पुंसां तन्नैर्मल्यं दिशाम्यहम् ॥ ७८ ॥
यदाहुः परमं तत्त्वं यदाहुर्ब्रह्मसत्तमम् ॥
स्वसंवेद्यं यदाहुश्च तत्तत्रान्ते दिशाम्यहम् ॥७९॥
यदाहुस्तारकं ज्ञानं यदाहुरतिनिर्मलम् ॥
स्वात्मारामं यदाहुश्च तत्तत्रान्ते दिशाम्यहम् ॥ 4.2.79.८० ॥
जगन्मङ्गलभूर्यात्र परमा मणिकर्णिका ॥
विपाशयामि तत्राहं कर्मभिः पाशितान्पशून् ॥ ८१ ॥
निर्वाणश्राणने यत्र पात्रापात्रं न चिन्तये ॥
आनन्दकानने तन्मे दानस्थानं दिवानिशम् ॥ ८२ ॥
भवाम्बुधौ महागाधे प्राणिनः परिमज्जतः ॥
भूत्वैव कर्णधारोन्ते यत्र सन्तारयाम्यहम् ॥ ८३ ॥
सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका ॥
ददामि तस्यां सर्वस्वमग्रजायान्त्यजाय वा ॥८४॥
महासमाधिसम्पन्नैर्वेदान्तार्थ निषेविभिः ॥
दुष्प्रापोन्यत्र यो मोक्षः शोच्यैरपि स लभ्यते ॥ ८५ ॥
दीक्षितो वा दिवाकीर्तिः पण्डितो वाप्यपण्डितः ॥
तुल्यो मे मोक्षदीक्षायां सम्प्राप्य मणिकर्णिकाम् ॥ ८६ ॥
यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम् ॥
ददामि जन्तुमात्राय सर्वस्वं चिरसञ्चितम् ॥ ८७ ॥
यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः ॥
अविचारं तदा देयं सर्वस्वं चिरसञ्चितम् ॥ ८८ ॥
शरीरमथ सम्पत्तिरथ सा मणिकर्णिका ॥
त्रिसंयोगोयमप्राप्यो देवैरिन्द्रादिकैरपि ॥ ८९ ॥
पुनः पुनर्विचार्येति जन्तुमात्रेभ्य एव च ॥
निर्वाणलक्ष्मीं यच्छामि सदोपमणिकर्णिकम् ॥ 4.2.79.९० ॥
मुक्तिदा न मही सा मे वाराणस्यां महीयसी ॥
तन्मही रजसा साम्यं त्रिलोक्यपि न चोद्वहेत् ॥ ९१ ॥
परं लिङ्गार्चनस्थानमविमुक्तेश्वरेश्वरम् ॥
तत्र पूजां सकृत्कृत्वा कृतकृत्यो नरो भवेत् ॥ ९२ ॥
सायं पाशुपतीं सन्ध्यां कुर्यां पशुपतीश्वरे ॥
विभूतिधारणात्तत्र पशुपाशैर्न बध्यते ॥ ९३ ॥
प्रातःसध्याकरोम्येव सदोङ्कारनिकेतने ॥
तत्रैकापि कृता सन्ध्या सर्वपातककृन्तनी ॥ ९४ ॥
वसामि कृत्तिवासेहं सदा प्रति चतुर्दशि ॥
अत्र जागरणं कृत्वा चतुर्दश्यां न गर्भभाक् ॥ ९९ ॥
रत्नेश्वरोर्चितो दद्यान्महारत्नानि भक्तितः ॥
रत्नैः समर्च्य तल्लिङ्गं स्त्रीरत्नादि लभेन्नरः ॥ ९६ ॥
विष्टपत्रितयान्तःस्थोप्यहं लिङ्गे त्रिविष्टपे ॥
तिष्ठामि सततं भक्तमनोरथसमृद्धये ॥ ९७ ॥
विरजस्कं महापीठं तत्र संसेव्य मानवः ॥
विरजा जायते नूनं चतुर्नद कृतोदकः ॥ ९८ ॥
महादेवे महापीठं मम साधकसिद्धिदम् ॥
तत्पीठदर्शनादेव महापापैः प्रमुच्यते ॥ ९९ ॥
पितृप्रीतिप्रदं पीठं वृषभध्वजसञ्ज्ञकम् ॥
पितृतर्पणकृत्तत्र पितॄंस्तारयति क्षणात् ॥ 4.2.79.१०० ॥
आदिकेशवपीठेहमादिकेशवरूपधृक् ॥
श्वेतद्वीपं नये भक्तान्वैष्णवानतिवल्लभान् ॥ १ ॥
तत्रैव मङ्गलापीठे सर्वमङ्गलदायिनि ॥
उप पञ्चनदे तीर्थे भक्तान्सन्तारयाम्यहम् ॥ २ ॥
बिन्दुमाधवरूपेण यत्राहं वैष्णवाञ्जनान् ॥
नये पञ्चनदस्नातांस्तद्विष्णोः परमं पदम् ॥ ३ ॥
पञ्चमुद्रे महापीठे ये वीरेश्वरसेवकाः ॥
तेषां परमनिर्वाणं कालेनाल्पेन जायते ॥॥ ४ ॥
तत्र सिद्धेश्वरीपीठे चन्द्रेश्वर समीपतः ॥
तत्र सन्निधिकर्तॄणां सिद्धिः षण्मासतो भवेत् ॥ ५ ॥
काश्यां च योगिनीपीठे योगसिद्धिविधायिनि ॥
सिद्धीरुच्चाटनाद्याश्च कैर्न लब्धाः सुसाधकैः ॥ ६ ॥
अनेकानीह पीठानि सन्ति काश्यां पदेपदे ॥
परं धर्मेशपीठस्य काचिच्छक्तिरनुत्तमा ॥ ७ ॥
यत्रामी बालकीराश्च निर्मलज्ञानभाजनम् ॥
आसुः सदुपदेशान्मे त्रातत्रातेति भाषिणः ॥ ८ ॥
एतद्धर्मेश्वरं पीठं त्यजाम्यद्यदिनावधि ॥
न कदाचित्तरणिजत्वत्तपोवनमुत्तमम् ॥ ९ ॥
ममानुग्रहतः कीरानेतान्पश्य रवेः सुत ॥
दिव्यविमानमारुह्य गन्तारो मत्पुरं महत् ॥ 4.2.79.११० ॥
तत्र भुक्त्वा चिरं भोगाञ्ज्ञानं प्राप्य मयेरितम् ॥
इह मुक्तिमवाप्स्यन्ति त्वत्संसर्गातिनिर्मलाः ॥ ११ ॥
इत्युक्तवति देवेशे कैलासशिखरोपमम् ॥
दिव्यं विमानमापन्नं रुद्रकन्यापरिष्कृतम् ॥ १२ ॥
आरुह्यते न यानेन दिव्यरूपवराः खगाः ॥
कैलासमभिसञ्जग्मुर्धर्ममापृच्छ्यतेऽमलाः ॥११३॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्ड उत्तरार्धे धर्मेशाख्याननामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥